अनुशासनपर्व

अध्यायः १७३

Anusasana Parva (Sanskrit) · Adhyaya 173
अक्षर का आकार

युधिष्ठिर उवाच।

पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम्।।

केन वृत्तेन राजेन्द्र वर्तमाना नरा भुवि।
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप।।

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः।
प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति।।

भीष्म उवाच।

दूरादायाति भगवान्बृहस्पतिरुदारधीः।
पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम्।।

नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै।
वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित्।।

वैशम्पायन उवाच।

तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा।
आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः।।

ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः।
पूजामनुषमां चक्रे सर्वे ते च सभासदः।।

ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम्।
उपगम्य यथान्यायं प्रश्नं पप्रच्छ तत्त्वतः।।

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद।
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः।

ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च।।

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः।
गच्छन्त्यमुं च लोकं वै क एताननुगच्छति।।

बृहस्पतिरुवाच।

एकः प्रसूयते राजन्नेक एव विनश्यति।
एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम्।।

न सहायः पिता माता तथा भ्राता सुतो गुरुः।
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च।।

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः।
मुहूर्तमुपयुञ्ज्याथ ततो यान्ति पराङ्मुखाः।।

तैस्तच्छरीरमुत्सृष्टं धर्मि एकोऽनुगच्छति।
तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृपः।।

प्राणी धर्मसमायुक्तो गच्छेत्स्वर्गगतिं पराम्।
तथैवाधर्मसंयुक्तो नरकं चोपपद्यते।।

तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः।
धर्म एको मनुष्याणां सहायः पारलौकिकः।।

लोभान्मोहादनुक्रोशाद्भयाद्वाऽप्यबहुश्रुतः।
नरः करोत्यकार्याणि परार्थे लोभमोहितः।।

धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम्।
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम्।।

युधिष्ठिर उवाच।

श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम्।
शरीरनिश्चयं ज्ञातुं बुद्धिस्तु मम जायते।।

मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम्।
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति।।

बृहस्पतिरुवाच।

पृथिवी वायुराकाशमापो ज्योतिरनन्तरम्।
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा।।

प्राणिनामिह सर्वेषां साक्षिभूतं दिवानिशम्।
एतैश्च सह धर्मोऽपि तं जीवमनुगच्छति।।

त्वगस्थि मांसं शुक्रं च शोणितं च महामते।
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम्।।

ततो धर्मसमायुक्तः स जीवः सुखमेधते।
इह लोके परे चैव किं भूयः कथयामि ते।।

युधिष्ठिर उवाच।

तद्दर्शितं भगवता यथा धर्मोऽनुगच्छति।
एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते।।

बृहस्पतिरुवाच।

अन्नमश्नन्ति यद्देवाः शरीरस्था नरेश्वर।
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा।।

ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु।
मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत्।।

ततो गर्भः सम्भवति श्लेषात्स्त्रीपुंसयोर्नृप।
एतत्ते सर्वमाख्यातं भूयः किं श्रोतुमिच्छसि।।

युधिष्ठिर उवाच।

आख्यातं मे भगवता गर्भः सञ्जायते यथा।
यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम्।।

बृहस्पतिरुवाच।

आसन्नमात्रः पुरुषस्तैर्भूतैरभिभूयते।
विप्रयुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम्।
स च भूतसमायुक्तः प्राप्नुते जीव एव हि।।

ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम्।
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि।।

युधिष्ठिर उवाच।

त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः।
जीवः सह वसन्कृत्स्नं सुखदुःखसहः प्रभो।।

बृहस्पतिरुवाच।

`भोगवश्यं कर्मवश्यं यातनावश्यमित्यपि।
एतत्त्रयाणामासाद्य कर्मतः सोऽश्नुते फलम्।।

जीवः कर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः।
स्त्रीणां पुष्पं समासाद्य सूतिकाले लभेत तत्।।

यमस्य पुरुषैः क्लेसं यमस्य पुरुषैर्वधम्।
दुःखं संसारचक्रं च नरः क्लेशं स विन्दति।।

इह लोके स च प्राणी जन्मप्रभृति पार्थिव।
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः।।

यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते।
ततः स पुरुषो भूत्वा सेवते नियतं सुखम्।।

अथान्तरा तु धर्मस्याप्यधर्ममुपसेवते।
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति।।

अधर्मेण समायुक्तो यमस्य विषयं गतः।
महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते।।

कर्मणा येन येनेह यस्यां योनौ प्रजायते।
जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु।।

यदेतदुच्यते शास्त्रे सेतिहासे च च्छन्दसि।
यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते।।

इह स्थानानि पुण्यानि देवतुल्यानि भूपते।
तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः।।

यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः।
कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते।।

येनयेन तु भावेन कर्मणा पुरुषो गतिम्।
प्रयाति परुषां घोरां तत्ते वक्ष्याम्यतः परम्।।

अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः।
पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते।।

खरो जीवति वर्षाणि दश पञ्च च भारत।
खरो मृतो बलीवर्दः सप्तवर्षाणि जीवति।।

बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः।
ब्रह्मरक्षश्च मासांस्त्रींस्ततो जायेत ब्राह्मणः।।

पतितं याजयित्वा तु कृमियोनौ प्रजायते।
तत्र जीवति वर्षाणि दश पञ्च च भारत।।

कृमिभावाद्विमुक्तस्तु ततो जायेत गर्दभः।
गर्दभः पञ्चवर्षाणि पञ्चवर्षाणि सूकरः।।

कुक्कुटः पञ्चवर्षाणि पञ्चवर्षाणि जम्बुकः।
श्वा वर्षमेकं भवति ततो जायेत मानवः।।

उपाध्यायस्त्रियः पापं शिष्यः कुर्यादबुद्धिमान्।
स जीव इह संसारांस्त्रीनाप्नोति न संशयः।।

वृको भवति राजेन्द्र ततः क्रव्यात्ततः खरः।
ततः प्रेतः परिक्लिष्टः पश्चाज्जायेत ब्राह्मणः।।

मनसाऽपि गुरोर्भार्यां यः शिष्यो याति पापकृत्।
स उग्रान्प्रैति संसारानधर्मेणेह चेतसा।।

श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति।
तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते।।

कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति।
ततस्तु निधनं प्राप्तो ब्रह्मयोनौ प्रजायते।।

यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे।
आत्मनः कामकारेण सोपि हिंस्रः प्रजायते।।

पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते।
सोऽपि राजन्मृतो जन्तुः पूर्वं जायेत गर्दभः।।

गर्दभत्वं तु सम्प्राप्य दशवर्षाणि जीवति।
संवत्सरं तु कुम्भीरस्ततो जायेत मानवः।।

पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि।
गुर्वपध्यानतः सोपि मृतो जायति गर्दभः।।

खरो जीवति मासांस्तु दश श्वा च चतुर्दशः।
बिडालः सप्तमासांस्तु ततो जायेत मानवः।।

मातापितरावाक्रुश्य शारिका सम्प्रजायते।
ताडयित्वा तु तावेव जायते कच्छपो नृप।।

कच्छपो दशवर्षाणि त्रीणि वर्षाणि शल्यकः।
व्यालो भूत्वा च षण्मासांस्ततो जायति मानुषः।।

भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते।
सोपि मोहसमापन्नो मृतो जायति वानरः।।

वानरो दशवर्षाणि पञ्चवर्षाणि सूकरः।
श्वाऽथ भूत्वा तु षण्मासांस्ततो जायति मानुषः।।

न्यासापहर्ता तु नरो यमस्य विषयं गतः।
यातनानां शतं गत्वा कृमियोनौ प्रजायते।।

तत्र जीवति वर्षाणि दशपञ्च च भारत।
दुष्कृतस्य क्षयं कृत्वा ततो जायति मानुषः।।

असूयकः कुत्सितश्च चण्डालो दुःखमश्नुते।
विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः।।

भूत्वा मीनोऽष्टमासांस्तु मृगो जायति भारत।
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते।।

छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः।
गौः स सञ्जायते जन्तुस्ततो जायति मानुषः।।

धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान्।
कलायानथ मुद्गांश्च गोधूमानतसीस्तथा।।

यस्तु धान्यापहर्ता च मोहाज्जन्तुरचेतनः।
स जायते महाराज मूषिको निरपत्रपः।।

ततः प्रेत्य महाराज मृतो जायति सूकरः।
सूकरो जातमात्रस्तु रोगेणि म्रियते नृप।।

श्वा ततो जायते मूढः कर्मणा तेन पार्थिव।
भूत्वा श्वा पञ्चवर्षाणि ततो जायति मानवः।।

परदाराभिमर्शं तु कृत्वा जायति वै वृकः।
श्वा शृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा।।

भ्रातुर्भार्यां तु पापात्मा यो धर्मयति मोहितः।
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप।।

सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च।
प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः।।

सूकरः पञ्चवर्षाणि दशवर्षाणि श्वाविधः।
बिडालः पञ्चवर्षाणि दशवर्षाणि कुक्कुटः।।

पिपीलिका तु मासांस्त्रीन्वानरो मासमेव तु।
एतानासाद्य संसारान्कृमियोनौ प्रजायते।।

तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश।
ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानवः।।

उपस्थिते विवाहे तु यज्ञे दानेऽपि वा विभो।
मोहात्करोति यो विघ्नं स मृतो जायते कृमिः।।

कृमिर्जीवति वर्षाणि दश पञ्च च भारत।
अधर्मिस्य क्षयं कृत्वा ततो जायति मानवः।।

पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति।
सोपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते।।

तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर।
अधर्मसंक्षये युक्तस्ततो जायति मानवः।।

देवकार्यमकृत्वा तु पितृकार्यमथापि वा।
अनिर्वाप्य समश्नन्वै मृतो जायति वायसः।।

वायसः शतवर्षाणि ततो जायति कुक्कुटः।
जायते व्यालकश्चापि मासं तस्मात्तु मानुषः।।

ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते।
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते।।

क्रौञ्चो जीवति वर्षं तु ततो जायति चीरकः।
ततो निधनमापन्नो मानुषत्वमुपाश्नुते।।

वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते।
[ततः सम्प्राप्य निधनं जायते सूकरः पुनः।।

सूकरो जातमात्रस्तु रोगेण म्रियते नृप।
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव।।

श्वा भूत्वा कृतकर्माऽसौ जायते मानुषस्ततः।
तत्रापत्यं समुत्पाद्य मृतो जायति मूषिकः।।

कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः।
यमस्य पुरुषैः क्रुद्धैर्वधं प्राप्नोति दारणम्।।

दण्‍डं समुद्गरं शूलमग्निकुम्भं च दारुणम्।
असिपत्रवनं घोरवालुकं कूटशाल्मलीम्।।

एताश्चान्याश्च बह्वीश्च यमस्य विषयं गतः।
यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत।।

ततो हतः कृतघ्नः स तत्रोग्रैर्भरतर्षभ।
संसारचक्रमासाद्य कृमियोनौ प्रजायते।।

कृमिर्भवति वर्षाणि दशपञ्च च भारत।
ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः।।

ततो गर्भशतैर्जन्तुर्बहुभि सम्प्रपद्यते।
संसारांश्च बहून्गत्वा ततस्मिर्यक्षु जायते।।

ततो दुःखमनुप्राप्य बहुवर्षगणानिह।
स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते।।

दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान्।
चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते।।

फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः।
चोरयित्वा च निष्पावं जायते हलगोलकः।।

पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते।
हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते।।

अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः।
कांस्यं हृत्वा तु दुर्बद्धिर्हारितो जायते नरः।।

राजतं भाजनं हृत्वा कपोतः सम्प्रजायते।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते।।

पत्रोर्णं चोरयित्वा तु कृकलत्वं निगच्छति।
कौशिकं तु ततो हृत्वा नरो जायति वर्तकः।।

अंशुकं चोरयित्वा तु शुक्रो जायति मानवः।
चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते।।

क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः।
चोरयित्वा नरः पट्टं त्वाविकं चैव भारत।

क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते।।

वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः।
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः।।

वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः।
छुन्दुन्दरित्वमाप्नोति राजँल्लोभपरायणः।।

तत्र जीवति वर्षाणि ततो दश च पञ्च च।
अधर्मस्य क्षयं गत्वा ततो जायति मानुषः।।

चोरयित्वा पयश्चापि बलाका सम्प्रजायते।।

यस्तु चोरयते तैलं नरो मोहसमन्वितः।
सोपि राजन्मृतो जन्तुस्तैलपायी प्रजायते।।

अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः।
अर्थार्थी यदि वा वैरी स मृतो जायते स्वरः।।

खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते।
स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते।।

मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः।
हतो मृगस्ततो मीनः सोपि जालेन बध्यते।।

मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते।
श्वापदो दशवर्षाणि द्वीपी वर्षाणि पञ्च च।।

ततस्तु निधनं प्राप्तः कालपर्यायचोदितः।
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः।।

स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः।
बहून्क्लेशान्समासाद्य नरकानेकविंशतिम्।।

ततः पश्चान्महाराज कृमियोनौ प्रजायते।
कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः।।

भोजनं चोरयित्वा तु मक्षिका जायते नरः।
मक्षिकासङ्घवशगो बहून्मासान्भवत्युत।।

ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते।
`भक्ष्यं हृत्वा तु पुरुषो जालपाशः प्रजायते।।

स्वाद्यं हृत्वा तु पुरुषश्चीरपाशः प्रजायते।'
धान्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते।।

तथा पिण्याकसम्मिश्रमशनं चोरयेन्नरः।
स जायते भृतिधनो दारुणो मूषिको नरः।।

दशन्वै मानुषान्नित्यं पापात्मा स विशाम्पते।
घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते।।

मत्स्यमांसमथो हृत्वा काको जायति| दुर्मतिः
लवणं चोरयित्वा तु चिरिकाकः प्रजायते||

विश्वासेन तु निक्षिप्तं यो विनिह्नोति मानवः|
स गतायुर्नरस्तात मत्स्ययोनौ प्रजायते||

मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः|
मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते||

पापानि तु नराः कृत्वा तिर्यग्जायन्ति भारत।
न चात्मनः प्रयाणान्ते धर्मं जानन्ति कञ्चन।।

ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा।
सुखदुःखसमायुक्ता व्यथितास्ते भवन्त्युत।।

अपुमांसः प्रजायन्ते म्लेच्छाश्चापि न संशयः
नराः पापसमाचारा लोभमोहसमन्विताः।।

वर्जयन्ति च पापानि जन्मप्रभृति ये नराः।
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत।।

स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः।
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः।।

परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः।
एतद्धि लेशमात्रेण कथितं ते मयाऽनघ।।

अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत।
एतन्मया महाराज ब्रह्मणो गदतः पुरा।।

सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम्।
मयाऽपि तच्च कार्त्स्न्येन यथावदनुवर्णितम्।
एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा।।

इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः।। 173 ।।