अनुशासनपर्व
अध्यायः १७२
[वैशम्पायन उवाच।
शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम्।
उपगम्य महाप्राज्ञः पर्यपृच्छद्युधिष्ठिरः।।
अङ्गानां रूपसौभाग्यं प्रियं चैव कथं भवेत्।
धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत्।।
भीष्म उवाच।
मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते।
पादौ मूलेन राजेन्द्रि जङ्घायामथ रोहिणीम्।।
अश्विन्यां सक्थिनी चैव ऊरू चाषाढयोस्तथा।
गुह्यं तु फाल्गुनी विद्यात्कृत्तिका कटिकास्तथा।।
नाभिं भाद्रपदे विद्याद्रेवत्यामक्षिमण्डलम्।
पृष्ठमेव धनिष्ठासु अनुराधोत्तरास्तथा।।
बाहुभ्यां तु विशाखासु हस्तौ हस्तेन निर्दिशेत्।
पुनर्वस्वङ्गुली राजन्नाश्लेषासु नखास्तथा।।
ग्रीवां ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः।
मुखं पुष्येण दानेन दन्तोष्ठौ स्वातिरुच्यते।।
हासं शतभिषां चैव मघां चैवाथ नासिकाम्।
नेत्रे मृगशिरो विद्याल्ललाटे मित्रमेव तु।।
भरण्यां तु शिरो विद्यात्केशानार्द्रां नराधिप।
समाप्ते तु घृतं दद्याद्ब्राह्मणे वेदपारगे।।
सुभगो दर्शनीयश्च ज्ञानभाग्यथ जानते।
जायते परिपूर्णाङ्गः पौर्णमास्येव चन्द्रमाः।।]
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः।। 172 ।।