अनुशासनपर्व
अध्यायः १६९
`सनत्कुमार उवाच।
अरिष्टानि प्रवक्ष्यामि तत्वेन शृणु तद्भवान्।
मध्य उत्तरतस्तात दक्षिणामुखनिष्ठितम्।।
विद्युत्संस्थानपुरुषं यदि पश्येत मानवः।
वर्षत्रयेण जानीयाद्देहन्यासमुपस्थितम्।
एतत्फलमंरिष्टस्य शङ्कराहुर्मनीषिणः।
शुद्धमण्डमादित्यमरश्मिमथ पश्यतः।
वर्षार्धकेन जानीयाद्देहन्यासमुपस्थितम्।।
छिद्रां चन्द्रमसश्छायां पादावप्यनपश्यतः।
संवत्सरेण जानीयाद्देहन्यासमुपस्थितम्।।
कनीनिकायामशिरःपुरुषं यदि पश्यति।
जानीयात्षट्सु मासेषु देहन्यासमुपस्थितम्।।
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद्यदि।
विजानीयात्तु मासेन देहन्यासमुपस्थितम्।।
आमगन्धमुपाघ्राति सुरभिं प्राप्य भास्वरम्।
देवतायतनस्थोपि सप्तरात्रेण मृत्युभाक्।।
सर्वाङ्गधारणावस्थां धारयेत समाहितः।
यथा स मृत्युं जयति नान्यथेह महेश्वर।
यदि जीवितुमिच्छेत चिरकालं महामुने।।
अथ नेच्छेच्चिरं कालं त्यजेदात्मानमात्मना।
केवलं चिन्तयानस्तु निष्कलं स निरामयम्।।
अथ तं निर्विकारं तु प्रकृते परमं शुचिः।
पुरुषं देहसाधर्म्यं देहन्यासमुपाश्नुयात्।।
जाग्रतो हि मयोक्तानि तवारिष्टानि तत्वतः।
धारणाच्चैव सर्वाङ्गे मृत्यु जीयात्सुरर्षभ।।
एकत्वदर्शनं भूयो नानात्वं च निबोध मे।
अक्षरं च क्षरं चैव चतुष्टयविधानतः।।
अव्यक्तादीनि तत्वानि सर्वाण्येव महाद्युते।
आहुश्चतुर्विंशतितमं विकारपुरुषान्वितम्।।
एकत्वदर्शनं चैव नानात्वेन वरं स्मृतम्।
पञ्चविंशतिवर्गः स्यादपवर्गोऽजरामरः।।
स निर्विकारः पुरुषस्तत्वेनैवोपदिश्यते।
स एव पञ्चविंशस्तु विकारः पुरुषः स्मृतः।।
यद्येष निर्विकारः स्यात्तत्वं न तु भवेद्भव।
विकारो विद्यमानस्तु तत्वसंज्ञकमुच्यते।।
यद्योषोऽव्यक्ततां नैति व्यतिरेकान्न संशयः।
तथा भवति निस्तत्वस्तथा सत्वस्तथागुणः।।
विकारगुणसंत्यागात्प्रकृत्यन्यत्वता शुचिः।
तदा नानात्वतामेति सर्गहीनोऽपवर्गभाक्।।
बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान्।
अक्षरश्च भवत्येष यथावा च्युतवान्क्षणात्।।
अव्यक्ताव्यक्तिरुक्ता स्यान्निर्गुणस्य गुणाकरात्।
एतदेकत्वनानात्वमक्षरः क्षर एव च।।
व्याख्यातं तव शूलाङ्क तथारिष्टानि चैव हि।
विमोक्षलक्षणं शेषं तदपीह ब्रवीमि ते।
यं ज्ञात्वा यतयः प्राप्ताः केवलत्वमनामयम्।।
साङ्ख्याश्चाप्यथ योगाश्च दग्धपङ्का गतज्वराः।
अमूर्तित्वमनुप्राप्ता निर्गुणा निर्भया भव।।
विपाप्मानो महादेव मुक्ताः संसारसागरात्।
सरणे प्रजनादाने गुणानां प्रकृतिः सदा।
परा प्रमत्ता सततमेतावत्कार्यकारणम्।।
असच्चैव च सच्चैव कुरुते स पुनः पुनः।
चैतन्येन पुराणेन चेतनाचेतनात्परः।।
यस्तु चेतयते चेतो मनसा चैकबुद्धिकम्।
स नैव सन्न चैवासन्सदसन्न च संस्मृतः।।
व्यतिरिक्तश्च शुद्धश्च सोऽन्यश्चाप्रकृतिस्तथा।
उपेक्षकश्च प्रकृतेर्विकारपुरुषः स्मृतः।।
विकारपुरुषेणैषा संयुक्ता सृजते जगत्।
पुनराददते चैव गुणानामन्यथात्मनि।।
मत्स्योदकात्ससंज्ञातः प्रकृतेरेव कर्मणः।
तद्वत्क्षेत्रसहस्राणि स एव प्रकरिष्यति।।
क्षेत्रप्रलयतज्ज्ञस्तु क्षेत्रज्ञ इति चोच्यते।
सयोगो नित्य इत्याहुर्ये जनास्तत्वदर्शिनः।।
एवमेष ह्यसत्सच्च विकारपुरुषः स्मृतः।
विकारापद्यमानं तु विकृतिं प्रवदन्ति नः।।
यदा त्वेष विकारस्य प्रकृतानिति मन्यते।
तदा विकारतामेति विकारान्यत्वतां व्रजेत्।।
प्रकृत्या च विकारैश्च व्यतिरिक्तो यदा भवेत्।
शुचि यत्परमं शुद्धं प्रतिबुद्धं सनातनम्।
अयुक्तं निष्कलं शुद्धमव्ययं चाजरामरम्।।
समेत्य तेन शुद्धेन बुध्यमानः स भास्वरः।
विमोक्षं भजते व्यक्तादप्रबुद्धादचेतनात्।।
उदुम्बराद्वा मशकः प्रलयान्निर्गतो यथा।
तथाऽव्यक्तस्य संत्यागान्निर्ममः पञ्च विंशकः।।
यथा पुष्करपर्णस्थो जलबिन्दुर्न संश्लिषेत्।
तथैवाव्यक्तविषये न लिप्येत्पञ्चविंशकः।।
आकाश इव निःसङ्गस्तथा सङ्गस्त्था वरः।
पञ्चविंशतिमो बुद्धो बुद्धेनि समतां गतः।।
एतद्धि प्रकृतं ज्ञानं तत्वतश्च समुत्थितम्।
पूर्वजेभ्यस्तथोत्पन्नं ब्रह्मजेभ्यस्तथानघ।।
आदिसर्गो महाबाहो तामसेनावृतं परम्।
प्रतिष्टावयवंदेवमभेद्यमजरामरम्।।
सनकः सनन्दनश्चैवि तृतीयश्च सनातनः।
ते विदुः परमं धर्ममव्ययं व्ययधर्षणम्।।
अव्यक्तात्परमात्सूक्ष्मादव्रणान्मूर्तिसंज्ञकात्।
क्षेत्रज्ञो भगवानास्ते नरायणपरायणः।।
अस्माकं सहजातानामुत्पन्नं ज्ञानमुत्तमम्।
एते हि मूर्तिमन्तो वै लोकान्प्रविचरामहे।।
पुनःपुनः प्रजाता वै तत्रतत्र पिनाकधृक्।
द्वन्द्वैर्विरज्यमानस्य ज्ञानमुत्पन्नमुत्तमम्।।
कपिलान्मूलआचार्यात्तत्वबुद्धिविनिश्चयम्।
योगसांख्यमवाप्तं मे कार्त्स्न्येन मुनिसत्तमात्।।
तेन संबोधिताः शिष्या बहवस्तत्वदर्शिनः।
तद्बुद्ध्वा बहवः शिष्या मयाप्येतन्निदर्शिताः।।
जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम्।
यज्ज्ञात्वा नानुशोचन्ति तत्वज्ञाना निरिन्द्रियाः।।
शुद्धबीजमलाश्चैव विपङ्का वै निरक्षराः।
स्वतन्त्रास्ते स्वतन्त्रेण सम्मिता निष्कलाः स्मृताः।।
शाश्वताश्चाव्ययाश्चैव तमोग्राह्याश्च भास्वर।
विपाप्मानस्तथा सर्वे सत्वस्थाश्चापि निर्व्रणाः।।
विमुक्ताः केवलाश्चैव वीतमोहभयास्तथा।
अमूर्तास्ते महाभाग सर्वे च विगतज्वराः।।
हिरण्यनाभस्त्रिशिरास्तथा प्रह्लादभास्करौ।
वसुर्विश्वावसुश्चैव सार्धं पञ्चशिखस्तथा।।
गार्ग्योऽथासुरिरावन्त्यो गौतमो वृत एव च।
कात्यायनोऽथ नमुचिर्हरिश्च दमनश्चि ह।।
एते चान्ये च बहवस्तत्वमेवोपदर्शिताः।
केचिन्मुक्ताः स्थिताः केचिच्छन्दतश्चापरे मृताः।।
दर्शितास्त्रिविधं बन्धं विमोक्षं त्रिविधं तथा।
अज्ञानं चैव रागश्च संयोगं प्राकृतं तथा।।
एतेभ्यो बन्धनं प्रोक्तं विमोक्षमपि मे शृणु।
परितस्तावता सम्यक्सम्बन्धो यावता कृतः।।
कृत्स्नक्षयपरित्यागाद्विमोक्ष इति नः श्रुतिः।
निवृत्तः सर्वसङ्गेभ्यः केवलः पुरुषोऽमलः।।
भीष्म उवाच।
इत्येवमुक्त्वा भगवानीश्वराय महात्मने
सनत्कुमारः प्रययावाकाशं समुपाश्रितः