अनुशासनपर्व
अध्यायः १६८
`सनत्कुमार उवाच।
इन्द्रियेभ्यो मनः पूर्वमहङ्कारस्ततः परम्।
अहङ्कारात्परा बुद्धिर्बुद्धेः परतरं महत्।।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
एतावदेतत्सांख्यानां दर्शनं देवसत्तम।।
अव्यक्तं बुद्ध्यहङ्कारौ महाभूतानि पञ्च च।
मनस्तथा विशेषाश्च दश चैवेन्द्रियाणि च।
एतास्तत्वचतुर्विंशन्महापुरुषसम्मिताः।।
बुद्ध्यामानेन देवेश चेतनेन महात्मना।
संयोगमेतयोर्नित्यमाहुरव्यक्तपुंसयोः।।
एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः।
तमःसंज्ञितमेतद्धि प्रवदन्ति त्रिशूलधृक्।।
समुत्पाट्य यथाव्यक्ताज्जीवा यान्ति पुनःपुनः।
आदिरेष महानात्मा गुणानामिति नः प्रभो।।
गुणस्थत्वाद्गुणं चैनमाहुरव्यक्तलक्षणम्।
एतेनाध्युषितो व्यक्तस्त्रिगुणं चेतयत्युत।।
अचेतनः प्रकृत्येषु न चान्यमनुबुध्यते।
बुध्यमानो ह्यहंकारो नित्यं मानाप्रबोधनात्।।
विमलस्व विशुद्धस्य नीरुजस्य महात्मनः।
विमलोदरशीलः स्याद्बुध्यमानाप्रबुद्धयोः।।
द्रष्टा भवत्यभोक्ता च सत्वमूर्तिश्च निर्गुणः।
बुध्यमानाप्रबुद्धाभ्यामन्य एव तु निर्गुणः।।
उपेक्षकः शुचिस्ताभ्यामुभाभ्यामयुतस्तथा।
बुध्यमानो न बुध्येत बुद्धमेवं सनातनम्।।
स एव बुद्धेरव्यक्तस्वभावत्वादचेतनः।
सोहमेव न मेऽन्योस्ति य एवमभिमन्यते।।
न मन्यते ममान्योस्ति येन चेतोस्म्यचेतनः।
एवमेवाभिमन्येत बुध्यमानोप्यनात्मवान्।।
अहमेव न मेऽन्योस्ति न प्रबुद्धवशानुगः।
अव्यक्तस्थो गुणानेष नित्यमेवाभिमन्यते।।
तेनाधिष्ठिततत्वज्ञैर्महद्भिरभिधीयते।
अहङ्कारेण संयुक्तस्ततस्ददभिमन्यते।।
क्षेत्रं प्रविश्य दुर्बुद्धिर्बुद्ध्यमानो ह्यनात्मवान्।
अहमेव सृजत्यन्यद्द्वितीयं लोकसारथिः।।
सर्वाभावैरहङ्कारैस्तृतीयं सर्गसंज्ञितम्।
ततो भूतान्यहङ्कारमहङ्कारो मनोऽसृजत्।।
सर्वस्नोतस्यभिमुखं सम्प्रावर्तत बुद्धिमान्।
तथैव यज्ञे भूतेषु विषयार्थी पुनःपुनः।
इन्द्रियैः सह शूलाङ्क पञ्च पञ्चभिरेव च।।
मनो वेद न चात्मानमङ्कारं प्रजापतिः।
न वेद वाप्यहङ्कारो बुद्धिं बुद्धिमतांवर।।
एवमेते महाभाग नेतरे नयवादिनः।
अहङ्कारेण संयुक्तः स्रोतस्यभिमुखः सदा।।
एवमेष विकारात्मा महापुरुषसञ्ज्ञकः।
प्रतनोति जगत्कृत्स्नं पुनराददते सकृत्।।
ससंज्ञत्वाज्जगत्कृत्स्नमव्यक्तस्य हृदि स्थितम्।
संविशद्रजनीं कृत्स्नां निशान्ते दिवसागमे।।
पुनरात्मा विजयते बहवो निर्गुणास्तथा।
अज्ञानेन समायुक्तः सोव्यक्तेन तमोत्मना।।
यदि ह्येषो नु मन्येत ममास्ति परतो वरः।
स पुनः पुनरात्मानं न कुर्यादाक्षिपेत च।।
एतमव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान्।
पञ्चविंशं महादेव महापुरुषवैकृतम्।।
प्रबुद्धौ बुद्धवानेतत्सृजमानमबुद्धवान्।
गुणान्पुनश्च तानेव सोत्मनात्मनि निक्षिपेत्।।
अव्यक्तस्य वशीभूतो योऽज्ञानस्य तमोत्मनः।
बुध्यमानो ह्यबुद्धस्य बुद्धस्तदनुभुज्यते।।
उपेक्षकः शुचिर्व्यग्रः सोलिङ्गः सोव्रणोऽमलः।
षड्विंशो भगवानास्ते बुद्धः शुद्धो निरामयः।।
अव्यक्तादिविशेषान्तमेतद्वैद्या वदन्त्युत।
एतैरेव विहीनं तु केचिदाहुर्मनीषिणः।।
निस्तत्वं बुध्यमानास्तु केचिदाहुर्महामते।
केचिदाहुर्महात्मानस्तत्वसंज्ञितमेव तु।।
तत्वस्य श्रवणादेनं तत्वमेवं वदन्ति वै।
सत्वसंश्रयणाच्चैव सत्ववन्तं महेश्वर।।
एवमेष विकारात्मा बुध्यमानो महाभुज।
अव्यक्तो भवते व्यक्तौ सत्वंसत्वं तथा गुणौ।
विद्या च भवते विद्या भवेत्तु ग्रहसंज्ञितम्।।
य एवमनुबुद्ध्यन्ते योगसाङ्ख्याश्च तत्वतः।
तेऽव्यक्तं शङ्करागाढं मुञ्चन्ते शास्त्रबुद्धयः।।
तेषामेतत्तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम्।
बुद्धिर्विस्तीर्यते सर्वं तैलबिन्दुरिवाम्भसि।।
विद्या तु सर्वविद्यानामवबोध इति स्मृतः।
येन विद्यामविद्यां च विन्दन्ति यतिसत्तमाः।।
सैषा त्रयी परा विद्या चतुर्थ्यान्वीक्षिकी स्मृता।
यां बुद्ध्यमानो बुद्ध्येत बुद्ध्यात्मनि समं गतः।।
अप्रबुद्धमथाव्यक्तमविद्यासंज्ञिकं स्मृतम्।
विमोहितं तु शोकेन केवलेन समन्वितम्।
एतद्बुद्ध्या भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम्।।
ये त्वेतन्नावबुद्ध्यन्ते ते प्रबुद्धवशानुगाः।
ते पुनःपुनरव्यक्ताज्जनिष्यन्त्यबुधांत्मनः।।
तमेव तुलयिष्यन्ति अबुद्धिवशवर्तिनः।
ये चाप्यन्ये तन्मनसस्तेप्येतत्फलभागिनः।।
विदित्वैनं न शोचन्ति योगोपेतार्थदर्शिनः।
स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम्।।
अज्ञानबन्धनान्मुक्तास्तीर्णाः संसारबन्धनात्।
अज्ञानसागरं घोरमगाधं तमसंज्ञकम्।
यत्र मज्जन्ति भूतानि पुनःपुनररिंदम्।।
एषा विद्या तथाऽविद्या कथिता ते मयाऽर्थतः।
यस्मिन्देयं च नो ग्राह्यं सांख्याः सांख्यं तथैव च।।
तथा चैकत्वनानात्वमक्षरं क्षरमेव च।
निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते।।
बुद्ध्यमानाप्रबुद्धाभ्यामबुद्धस्य प्रपञ्चनम्।
भूय एव निबोध त्वं देवानां देवसत्तम।।
यच्च किञ्च श्रुतं न स्याद्दृष्टं चैव न किञ्चन।
तच्च ते सम्प्रवक्ष्यामि एकाग्रः शृणु तत्परः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः।। 168 ।।