अनुशासनपर्व
अध्यायः १७०
युधिष्ठिर उवाच।
यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह।
यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि।।
भीष्म उवाच।
सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणः।
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः।।
अगाधे विमले शुद्धे सत्यतीर्थे धृतिह्रदे।
स्नातव्यं मानसे तीर्थे सत्वमालम्ब्य शाश्वतम्।।
तीर्थशौचं तपो ज्ञानं मार्दवं सत्यमार्जवम्।
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः।।
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः।
योगिनस्तीर्थभूतास्ते तीर्थं परममुच्यते।।
नारायणेऽथ रुद्रे वा भक्तिस्तीर्थं परं मतम्।
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षतः।।
रजस्तमःसत्वमथो येषां निर्धूतमात्मना।
तीर्थमाचारशुद्धिश्च स्वमार्गपरिमार्गणम्।
सर्वत्यागेष्वभिरताः सर्वज्ञाः समदर्शिनः।
शौचष्वेतेष्वभिरतास्ते तीर्थशुचयोऽपि च।।
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते।
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः शुचिः।।
अदृष्टेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः।
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा।।
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः।
तथा निष्किंचनत्वं च मनसश्च प्रसन्नता।।
वृत्तं शौचं महाशौचं तीर्थशौचमतः परम्।
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं स्मृतम्।।
मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च।
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शनाः।।
समारोपितशौचस्तु नित्यं भवसमन्वितः।
केवलं गुणसम्पन्नः शुचिरेव नरः सदा।।
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत।
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि।।
शरीरस्य यथोद्देशः शरीरोपरि निर्मिताः।
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च।।
कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात्।
शोध्यं हि पातकं तीर्थे पूता यान्ति सुखं दिवम्।
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा।
अतीव पुण्यभागास्ते सलिलस्य च तेजसा।।
मनसश्च पृथिव्याश्च पुण्यास्तीर्थास्तथापरे।
उभयोरेव यः स्नायात्स सिद्धिं शीघ्रमाप्नुयात्।।
यथा फलं क्रियाहीनं क्रिया वा फलवर्जिता।
नेह साधयते कार्यं समायुक्ता तु सिध्यति।।
एवं शरीरशौचेन तीर्थशौचेन चान्वितः।
शुचिः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्यधिकशततमोऽध्यायः।। 170 ।।