अनुशासनपर्व

अध्यायः १६७

Anusasana Parva (Sanskrit) · Adhyaya 167
अक्षर का आकार

`सनत्कुमार उवाच।

प्रभवश्चाप्ययस्तात वर्णितस्तेऽनुपूर्वशः।
तथाऽध्यात्माधेभूतं च तथैवात्राधिदैवतम्।।

निखिलेन तु वक्ष्यामि दैवतानि ह देहिनाम्।
यान्याश्रितेषु देहेषु यानि पृच्छसि शङ्कर।।

वाच्यग्निस्त्वथ जिह्वायां सोमः प्राणे तु मारुतः।
रूपे चाप्यथ नक्षत्रं जिह्वायां चाप एव तु।।

नाभ्यां समुद्रश्च विभुर्नखरोम तथैव च।
वनस्पतिवनौषध्यस्त्वङ्गेषु मरुतस्तथा।।

संवत्सराः पर्वसु च आकाशे दैवमानुषे।
उदाने विद्युदभवद्व्याने पर्जन्य एव च।।

स्तनयोरेव चाकाशं बले चेन्द्रस्तथैव च।
मनसोऽप्यथ चेशानस्त्वपाने रुद्र एव च।।

गन्धर्वाप्सरसो व्याने सत्ये मित्रश्च शङ्कर।
प्रज्ञायां वरुणश्चैव चक्षुष्यादित्य एव च।।

शरीरे पृथिवी चैव पादयोर्विष्णुरेव च।
पायौ मित्रस्तथोपस्थे प्रजापतिररिंदम।।

मूर्ध्नि चैव दिशः प्राहुर्बुद्धौ ब्रह्मा प्रतिष्ठितः।
बुध्यमानोऽऽत्मनिष्ठः स्यादधिष्ठाता तु शङ्करः।।

अबुद्धश्चाभवत्तस्माद्बुध्यमानान्न संशयः।
आभ्यामन्यः परो बुद्धो वेदवादेषु शङ्कर।।

यदाश्रितानि देहेषु दैवतानि पृथक्पृथक्।
योऽग्नये जायते नित्यमात्मयाजी समाहितः।।

य एवमनुपश्येत दैवतानि समाहितः।
सोत्र योगी भवत्येव य एवमनुपश्यति।
स सर्वज्ञयाजिभ्यो ह्यात्मयाजी विशिष्यते।।

मुखे जुहोति यो नित्यं कृत्स्नं विश्वमिदं जगत्।
सोत्मवित्प्रोच्यते तज्ज्ञैर्महादेव महात्मभिः।।

सर्वेभ्यः परमेभ्यो वै दैवतेभ्यो ह्यात्मयाजिना।
गन्तव्यं परमाकाङ्क्षन्परमेव च चिन्तयन्।।

यथा संक्रमते देहाद्देही त्रिपुरसूदन।
तथास्य स्थानमाख्यास्ये पृथक्त्वेनेह शङ्कर।।

पादाभ्यां वैष्णवं स्थानमाप्नोति विनियोजनात्।
पायुना मित्रमाप्नोति उपस्थेन प्रजापतिम्।।

नाभ्या च वारुणं स्थानं स्तनाभ्यां तु भवो लभेत्
बाहुभ्यां वासवं स्थानं श्रोत्राभ्यामाप्नुयाद्दिशः।
आदित्यं चक्षुषा स्थानं मूर्ध्ना ब्रह्मण एव च।।

अथ मूर्धसु यः प्राणान्धारयेत समाहितः।
बुद्ध्या मानमवाप्नोति द्रव्यावस्थं च संशयः।।

अव्यक्तात्परमं शुद्धमप्रमेयमनामयम्।
तमाहुः परमं नित्यं यद्यदाप्नोति बुद्धिमान्।।

बुध्यमानाप्रबुद्धाभ्यां स बुद्ध इति पठ्यते।
बुध्यमानमबुद्धश्च नित्यमेवानुपश्यति।।

विकारपुरुषस्त्वेष बुध्यमान इति स्मृतः।
पञ्चविंशतितत्वं तत्प्रोच्यते तत्र संशयः।।

स एष प्रकृतिस्थत्वात्तस्थुरित्युपदिश्यते।
महानात्मा महादेव महानत्राधितिष्ठति।।

अधिष्ठानादधिष्ठाता प्रोच्यते शास्त्रदर्शनात्।
एष चेतयते देव मोहजालमबुद्धिमान्।।

अव्यक्तस्यैव साधर्म्यमेतदाहुर्मनीषिणः।
सोहं सोहमतो नित्यादज्ञानादिति मन्यते।।

यदि बुध्यति चैवायं मन्येयमिति भास्वरः।
न प्रबुद्धो न वर्तेत पानीयं मत्स्यको यथा।।

देवता निखिलेनैताः प्रोक्तास्त्रिभुवनेश्वर।
योगकृत्यं तु तावन्मे त्वं निबोधानुपूर्वशः।।

शून्यागारेष्वरण्येषु सागरे वा गुहासु वा।
विष्टम्भयित्वा त्रीन्दण्डानवाप्तो ह्यद्वयो भवेत्।।

प्राङ्मुखोदङ्मुखो वापि तथा पश्चान्मुखोपि वा।
दक्षिणावदनो वापि बद्ध्वा विधिवदासनम्।।

स्वस्तिकेनोपसंविष्टः कायमुन्नाम्य भास्वरम्।
यथोपदिष्टं गुरुणा तथा तद्ब्रह्म धारयेत्।।

लघ्वाहारो यतो दान्तस्त्रिकालपरिवर्जकः।
मूत्रोत्सर्गपुरीषाभ्यामाहारे च समाहितः।।

शेषकालं तु युञ्जीत मनसा सुसमाहितः।
इन्द्रियाणीन्द्रियार्थेभ्यो मनसा विनिवर्तयेत्।।

मनस्तथैव सङ्गृह्य बुद्ध्या बुद्धिमतां वर।
विधावमानं धैर्येण विस्फुरन्तमितस्ततः।।

निरुध्य सर्वसङ्कल्पांस्ततो वै स्थिरतां व्रजेत्।
एकाग्रस्तद्विजानीयात्सर्वं गुह्यतमं परम्।।

निवातस्थ इवालोलो यथा दीपोऽतिदीप्यते।
ऊर्ध्वमेव न तिर्यक्च तथैवाभ्रान्ति ते मनः।।

हृदिस्थस्तिष्ठते योसौ तस्यैवाभिमुखो यदा।
मनो भवति देवेश पाषाणमिव निश्चलम्।।

स निर्जने विनिर्घोषे सघोषे चाऽऽवसञ्जने।
युक्तो यो न विकम्पेत योगी योगविधिः श्रुतः।।

ततः पश्यति तद्ब्रह्म ज्वलदात्मनि संस्थितम्।
विद्युदम्बुधरे यद्वत्तद्वदेकमनाश्रयम्।।

तमस्यगाधे तिष्ठन्तं निस्तमस्कमचेतनम्।
चेतयानमचेतं च दीप्यमानं स्वतेजसा।।

अङ्गष्ठपर्वमात्रं तन्नैश्रेयसमनिन्दितम्।
महद्भूतमनन्तं च स्वतन्त्रं विगतज्वरम्।।

ज्योतिषां ज्योतिषं देवं विष्णुमत्यन्तनिर्मलम्।
नारायणमणीयांसमीश्वराणामधीश्वरम्।।

विश्वतः परमं नित्यं विश्वं नारायणं प्रभुम्।
अविज्ञाय निमज्जन्ति लोकाः संसारसागरे।।

यं दृष्ट्वा यतयस्तात न शोचन्ति गतज्वराः।
जन्ममृत्युभयान्मुक्तास्तीर्णाः संसारसागरम्।।

अणिमा लघिमा भूमा प्राप्तिः प्राकम्यमेव च।
ईशित्वं च वशित्वं च यत्र कामावसायिता।
एतदष्टुगुणं योगं योगानाममितं स्मृतम्।।

दृष्ट्वात्मानं निरात्मानमप्रमेयं सनातनम्।
ते विशन्ति शरीराणि योगेनानेन भास्वरम्।
दैत्यदेवमनुष्याणां बलेन बलवत्तमाः।।

एतत्तत्वमनाद्यन्तं यद्भवाननुपृच्छति।
नित्यं वयमुपास्यामो योगधर्मं सनातनम्।।

योगधर्मान्न धर्मोस्ति गरीयान्सुरसत्तम।
एतद्धर्म हि धर्माणामपुनर्भवसंस्कृतम्।।

तत्वतः परमस्तीस्ति केचिदाहुर्मनीषिणः।
केचिदाहुः परं नास्ति ये ज्ञानफलमाश्रिताः।।

ज्ञानस्थः पुरुषस्त्वेष विकृतः स्वेन वर्णितः।
ये ध्यानेनानुपश्यन्ति नित्यं योगपरायणाः।।

तमेव पुरुषं देवं केचिदेव महेश्वर।
नित्यमन्यतमाः प्राहुर्ज्ञानं परमकं स्मृतम्।।

ज्ञानमेव विनिर्मुक्ताः सांख्या गच्छन्ति केवलम्।
चिन्ताध्यात्मनि चान्यत्र योगाः परमबुद्धयः।।

उक्तमेतावदेतत्ते योगदर्शनमुत्तमम्।
साङ्ख्यज्ञानं प्रवक्ष्यामि परिसंख्याविदर्शनम्।।'

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः।। 167 ।।