अनुशासनपर्व
अध्यायः १६६
सनत्कुमार उवाच।
तत्वसङ्ख्या श्रुता चैषा येषां ब्रह्मविदांवर।
सर्गसङ्ख्या मया प्रोक्ता नवानामानुपूर्व्यशः।
प्रवक्ष्यामि तु तेऽध्यात्ममधिभूताधिदैवतम्।।
स्वभावसत्वस्थमनीशमीशम्।।
कैवल्यतां प्राप्य महासुरोत्तम
तवैतदाख्यामि मुनीन्द्रवृत्त्या।
रहस्यमेवान्यदवाप्य दिव्यं|
पवित्रपूतस्तव मृत्युजालम्।।
पृथ्वीमिमां यद्यपि रत्नपूर्णां
दद्यान्न देयं त्वपरीक्षिताय।
नाश्रद्दधानाय न चान्यबुद्धे|
र्नाज्ञानयुक्ताय न विस्मिताय।।
स्वाध्याययुक्ताय गुणान्विताय
प्रदेयमेतन्नियतेन्द्रियाय।।
संक्षेपं चाप्यथैतेषां तत्वानां वृषभध्वज।
अनुलोमानुजातानां प्रतिलोमप्रमीयतम्।।
प्रवक्ष्यामि तमध्यात्मं साधिभूताधिदैवतम्।
यथांशुजालमर्कस्य तथैतत्प्रवदन्ति वै।।
संक्षीणे ब्रह्मदिवसे जगज्जलधिमाविशेत्।
प्रलीयते जले भूमिर्जलमग्नौ प्रलीयते।।
लीयतेऽग्निस्तथा वायौ वायुराकाश एव तु।
मनसि प्रलीयते खं तु मनोऽहंकार एव च।।
अहङ्कारस्तथा तस्मिन्महति प्रविलीयते।
महानव्यक्त इत्याहुस्तदेकत्वं प्रचक्षते।।
अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्म्णि।
एवमस्यासकृत्क्रीडामाहुस्तत्वविदो जनाः।।
अध्यात्ममधिभूतं च तथैवाप्यधिदैवतम्।
यथावदुदितं शास्त्रं योगे तु सुमहात्मभिः।।
तथैव चेह साङ्ख्ये तु परिसंख्यात्मचिन्तकैः।
प्रपञ्चितार्थमेतावन्महादेव महात्मभिः।।
ब्रह्मेति विद्यादध्यात्मं पुरुषं चाधिदैवतम्।
प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च।।
अध्यात्मं प्राणमित्याहुः क्रतुमप्यधिदैवतम्।
रथं च यज्ञवाहोऽत्र कर्माहङ्कारमेव च।।
अध्यात्मं तु मनो विद्याच्चन्द्रमाश्चाधिदैवतम्।
दैवं च प्रभवश्चैव कर्म व्याहृतयस्तथा।।
विद्यात्तु श्रोत्रमध्यात्ममाकाशमधिदैवतम्।
सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतं।।
त्वगध्यात्ममथो विद्याद्वायुरत्राधिदैवतम्।
सन्निपातय विज्ञानं सर्वकर्म च तत्र ह।।
अध्यात्मं चक्षुरित्याहुर्भास्करोऽत्राधिदैवतम्।
ज्ञापतं सर्ववर्णानां रूपं कर्म सदा स्मृतम्।।
जिह्वेति विद्यादध्यात्ममापश्चात्राधिदैवतम्।।
पायुरध्यात्ममित्याहुर्यथावद्यतिसत्तमाः।
विसर्गमधिभूतं च मित्रं चाप्यधिदैवतम्।।
उपस्थोऽध्यात्ममित्याहुर्देवदेव पिनाकधृक्।
अनुभावोऽधिभूतं तु दैवतं च प्रजापतिः।।
पादावध्यात्ममित्याहुस्त्रिशूलाङ्क मनीषिणः।
गन्तव्यमधिभूतं तु विष्णुस्तत्राधिदैवतम्।।
वागध्यात्मं तथैवाहुः पिनाकिंस्तत्वदर्शिनः।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्।।
एतदध्यात्ममतुलं साधिभूताधिदैवतम्।
मया तु वर्णितं सम्यग्देहिनाममरर्षभ।।
एतत्कीटपतङ्गे च श्वपाके शुनि हस्तिनि।
पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे।।
सर्वमेव हि द्रष्टव्यमन्यथा मा विचिन्तय।
अतोऽन्यथा ये पश्यन्ति न सम्यक्तेषु दर्शनम्।।
देवदानवगन्धर्वयक्षराक्षसकिन्नराः।
यन्न जानन्ति को ह्येष कुतो वा भगवानिति।।
ओमित्येकाक्षरं ब्रह्म यत्तत्सदसतः परम्।
अनादिमध्यपर्यन्तं कूटस्थमचलं ध्रुवम्।।
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्।
अनादिनिधं देवं देवदेवं सनातनम्।।
अपमेयमविज्ञेयं हरिं नारायणं प्रभुम्।
कृताञ्जलिः शुचिर्भूत्वा प्रणम्य प्रयतोऽर्चयेत्।।
अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः।
एकोयं वेद भगवांस्त्राता नारायणो हरिः।।
नारायणादृषिगणास्ततः सिद्धा महोरगाः।
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम्।।
यमाहुर्विजितक्लेशं यस्मिंश्च विहिताः प्रजाः।
यस्मिँल्लोकाः स्फुरन्तीमे जाले शकुनयो यथा।।
सप्तर्षयो मनः सप्त साङ्ख्यास्तु मुनिदर्शनात्।
सप्तर्षयश्चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च।।
श्रोत्रयोश्च दिशः प्राहुर्मनसि त्वथ चन्द्रमाः।।
मनः षष्ठं बुद्धिः सप्तमी ह्यात्मनि स्थापितानि
शरीरेषु नात्मनि तस्य हि कारणानि भन्ति सर्वा-
ण्यपि सर्वकर्मसु वा विषयेषुवा युञ्जन्ति यथात्म-
नि स्वानि कर्माणि प्रवृत्तानि सप्तस्वपि।।
विषयाणां व्यापकत्वानि तान्येव स्वपतो भूत|
ग्रामस्याजमात्मानं देवलोकस्थानसंमितं देहान्तर|
गामिनं मुमुक्षुं वानुप्रतिशन्ति सूक्ष्माणि प्रलीयन्ते।।
मोक्षकाले तमेकं न कश्चिद्वेत्ति स्वपरम्।
एवं प्रविष्टेषु भूतेषु को जागर्तीत्युच्यते।।
निद्राप्रसुप्तेषु वाऽत्र जाग्रत्स्वप्नशीलोत्रसदनौ
च देवद्योतनो भगवांश्चात्र क्षत्रेज्ञो बुद्धिर्वाऽभिसुप्त|
स्यापि स्वप्नदर्शनानि पश्यन्ति।।
अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते। स
एष प्राज्ञः। अथ तैजसः कायाग्निः स हि सुप्तस्यात्मा वा।।
अविदुषो वाऽप्रतिबुध्यमानस्यान्नं पचतीत्यन्ते
वै तिष्ठति एतदात्मानमधिकृत्यानुज्ञातमिति।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः।। 166 ।।