अनुशासनपर्व

अध्यायः १६५

Anusasana Parva (Sanskrit) · Adhyaya 165
अक्षर का आकार

युधिष्ठिर उवाच।

पितामहेन कथिता दानधर्माश्रिताः कथाः।
मया श्रुता ऋषीणां तु संनिधौ केशवस्य च।।

पुनः कौतूहलमभूत्तामेवाध्यात्मिकीं प्रति।
कथाः कथय राजेन्द्र त्वदन्यः क उदाहरेत्।।

एष यादवदायादस्तथानुज्ञातुमर्हति।
ज्ञाते तु यस्मिञ्ज्ञातव्यं ज्ञातं भवति भारत।।

पश्चाच्छ्रोष्यामहे राज्ञां श्राव्यान्धर्मान्पितामह।
कौतूहलमृषीणां तु च्छेतुमर्हसि साम्प्रतम्।।

भीष्म उवाच।

अत ऊर्ध्वं महाराज साङ्ख्ययोगोभयशास्त्राधि-
गतयाथात्म्यदर्शनसम्पन्नयोराचार्ययोः संवादमनुव्याख्यास्यामः।।

ष्टमुपससर्प भगवन्तमाचार्यं भगवानाचार्यो रुद्रः।।

तं प्रोवाच स्वागतं महेश्वर ब्रह्मसुत एतदास-
नमास्तां भगवान्।।

इत्युक्ते चासीनो भगवाननन्तरूपो रुद्रस्तं
प्रोवाच भगवानपि ध्यानमावर्तयति। इत्युक्ते चाह
भगवान्सनत्कुमारस्तथेति।।

तथेत्युक्तश्च प्रोवाच भगवाञ्शङ्करस्तदा।
परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम्।।

किं वा ध्यानेन द्रष्टव्यं यद्भवाननुपश्यति।
यच्च ध्यात्वा न शोचन्ति यतयस्तत्वदर्शिनः।।

कथय त्वमिमं देवं देहिनां यतिसत्तम।
यच्च तत्पुरुषं शुद्धमित्युक्तं योगसाङ्ख्ययोः।।

किमध्यात्माधिभूतं च तथा चाप्यधिदैवतम्।
कालसङ्ख्या च का देव द्रष्टव्या तस्य ब्रह्मणः।।

सङ्ख्या सङ्ख्यादनस्यैव या प्रोक्ता परमर्षिभिः।
शास्त्रदृष्टेन मार्गेण यथावद्यतिसत्तम।।

यच्च तत्पुरुषं शुद्धं प्रबुद्धमजरं ध्रुवम्।
बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च।।

विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदांवर।
परिसाङ्ख्यं च साङ्ख्यानां ध्यानं योगेषु चार्थवत्।।

एकत्वदर्शनं चैव तथा नानात्वदर्शनम्।
अरिष्टानि च तत्वेन तथैवोत्क्रमणानि च।।

दैवतानि च सर्वाणि निखिलेनानुपूर्वशः।
यान्याश्रितानि देहेषु देहिनां यतिसत्तम।
सर्वमेतद्यथातत्वमाख्याहि मुनिसत्तम।।

श्रेष्ठो भवान्हि सर्वेषां ब्रह्मज्ञानामनिन्दितः।
चतुर्थस्त्वं त्रयाणां तु ये गताःइ परमां गतिम्।
ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात्।।

वयं तु वैकृतं मार्गमाश्रिता वै क्षरं सदा।
परमुत्सृज्य पन्थानममृताक्षरमेव तु।।

न्यूने पथि निमग्नास्तु ऐश्वर्येऽष्टगुणे तथा।
महिमानं प्रगृह्येमं विचरामो यथासुखम्।।

न चैतत्सुखमत्यन्तं न्यूनमेतदनन्तरम्।
मूर्तिमत्परमेतत्स्यादिदमेवं सुसत्तम।।

पुनः पुनश्च पतनं मूर्तिमत्युपदिश्यते।
न पुनर्मृत्युमित्यन्यं निर्मुक्तानां तु मूर्तितः।।

मृत्युदोषास्त्वनन्ता वै उत्पद्यन्ते कृतात्मनाम्।
मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने।।

तत्र मञ्जन्ति पुरुषाः सुखदुःखेन वेष्टिताः।।

सुखदुःखव्यपेतं च यदाहुरमृतं पदम्।
तदहं श्रोतुमिच्छामि यथावच्छ्रुतिदर्शनात्।।

सनत्कुमार उवाच।

यदुक्तं भवता वाक्यं तत्वसंज्ञेति देहिनाम्।
चतुर्विंशतिमेवात्र केचिदाहुर्मनीषिणः।।

केचिदाहुस्त्रयोविंशं यथाश्रुतिनिदर्शनात्।
वयं तु पञ्चविंशं वै तदधिष्ठानसंज्ञितम्।
तत्वं समधिमन्यामः सर्वतन्त्रप्रलापनात्।।

अव्ययश्चैव वै व्यक्तावुभावपि पिनाकधृक्।
सह चैव विना चैव तावन्योन्यं प्रतिष्ठितौ।।

हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतांवर।
चकार पुरुषस्तात विकारपुरुषावुभौ।।

अव्यक्तादेक एवैष महानात्मा प्रसूयते।
अहङ्कारेण लोकांश्च व्याप्य चाहंकृतेन वै।।

पिना सर्वं तदव्यक्तादभफिमन्यस्व शूलधृक्।
भूतसर्गमहङ्कारात्तृतीयं विद्धि वै क्रमात्।।

अहङ्काराच्च भूतेषु चतुर्थं विद्दि वैकृतम्।
अहङ्काराच्च जातानि युगपद्विबुधेश्वर।।

सविशेषाणि भूतानि पञ्च प्राहुर्मनीषिणः।
चतुर्विंशात्तु वै प्रोक्तात्पञ्चविंशोऽधितिष्ठति।।

एते सर्गा मया प्रोक्ताश्चत्वारः प्राकृतास्त्विह।
अहङ्काराच्च जातानि युगपद्विबुधेश्वर।।

अङ्काराच्च भूतेषु विविधार्थं व्यजायत।
इन्द्रियैर्युगपत्सर्वैः सो नित्यश्च समीक्षते।।

मरुत्त्वं सत्वसर्गश्च तुष्टिः सिद्धिस्तथैव च।
वैकृतानि प्रवक्ष्यामि शृणु तानि महामते।।

एषा तत्वचतुर्विंशन्मया शास्त्रानुमानतः।
वर्णिता तव देवेश पञ्चविंशत्समन्विता।।

पञ्चमोऽनुग्रहश्चैव नवैते प्राकृतैः सह।
ऐन्द्रेप्यहमधोप्यन्यन्ममात्मनि च भास्वरः।।

यच्च देहमयं किञ्चित्त्रिषु लोकेषु विद्यते।
सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन।।

अन्यथा येऽनुपश्यन्ति ते न पश्यन्ति ब्रह्मज।
एतदव्यक्तविषयं पञ्चविंशसमन्वितम्।।

अनेन कारणेनैव तत्वमाहुर्मनीषिणः।
विकारमात्रमेतं तु तत्वमाचक्षते परम्।।

निस्तत्वश्चैष देवेश बोद्धव्यं तु न बुद्ध्यते।
यदि बुद्ध्येत्परं बुद्धं बुद्ध्यमानः सुरर्षभः।
प्रबुद्धो ह्यभिमन्येत योयं नाहमिति प्रभो।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः।। 165 ।।