अनुशासनपर्व
अध्यायः १६४
युधिष्ठिर उवाच।
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना।
गुणाश्चैषां यथातथ्यं प्रेत्य चेह च सर्वशः।।
न तै शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह।
बहूपकरणा यज्ञा नानासम्भारविस्तराः।।
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह।
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः।।
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत्।
अर्थन्यूनैरवगुणैरेकात्मभिरसंहतैः।
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम्।
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर।।
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत्।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्।
षड्भिरेव स वर्षैस्तु सिध्यते नात्र संशयः।।
तप्तकाञ्चनवर्णं च विमानं लभते नरः।
देवस्त्रीणामधीवासे नृत्तगीतनिनादिते।
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसन्निभे।।
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम्।
धर्मत्नीरतो नित्यमग्निष्टोमफलं लभेत्।
यज्ञं बहुसुवर्णं वा वासवप्रियमाचरेत्।।
सत्यवान्दानशीलश्च ब्रह्मण्यश्चानसूयकः।
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम्।।
पाण्डुराभ्रपतीकाशे विमाने हंसलक्षणे।
द्वे समाप्ते ततः पद्मे सोप्सरोभिर्वसेत्सह।।
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम्।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्।।
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः।।
हंससारसयुक्तं च विमानं लभते नरः।
इन्द्रलोके च वसते वरस्त्रीभिः समावृतः।।
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम्।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्।।
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्।।
मयूरहंसयुक्तं च विमानं लभते नरः।
सप्तर्षीणां सदा लोके सोप्सरोभिर्वसेत्सह।
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः।।
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम्।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।
वाजपेयस्य यज्ञस्य फलं प्राप्नीत्यनुत्तमम्।
इन्द्रिकन्याभिरूढं च विमान लभते नरः।
सागरस्य च पर्यन्ते वासवं लोकमावसेत्।
देवराजस्य च क्रीडां नित्यकालमवेक्षते।।
दिवसे पञ्चमे यस्तु प्राश्नीयादैकभोजनम्।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्।।
अलुब्धः। सत्यवादी च ब्रह्मण्यश्चाविहिंसकः।
अनसूयुरपापस्थो द्वादशाहफलं लभेत्।।
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम्।
सूर्यमालासमाभासमारोहेत्पाण्डुरं गुहम्।।
आवर्तनानि चत्वारि तथा पद्मानि द्वादश।
शराग्निपरिमाणं च तत्रासौ वसते सुखम्।।
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम्।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।।
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः।
गवामयनयज्ञस्य फलं प्राप्नोत्यनुत्तमम्।।
अग्निज्वालासमाभासं हंसबर्हिणसेवितम्।
शातकुम्भसमायुक्तं साधयेद्यानमुत्तमम्।।
तथैवाप्सरसामङ्के प्रतिसुप्तः प्रबोध्यते।
नूपुराणां निनादेन मेखलानां च निःस्वनैः।।
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च।
पद्मान्यष्टादश तथा पताके द्वे तथैव च।।
अयुतानि च पञ्चशदृक्षचर्मशतस्य च।
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते।।
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम्।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।।
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन्।
सुमनोवर्णकं चैव मधु मांसं च वर्जयन्।।
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति।
तत्रतत्र हि सिद्धार्थो देवकन्याभिरुह्यते।।
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः।
सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते।।
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः।
देवकार्यपरो नित्यं जुह्वानो जातवेदसम्।।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्।
पद्मवर्णनिभं चैव विमानमधिरोहति।।
मृष्टाः कनकगौर्यश्च नार्यः श्यामास्तथा पराः।
वयोरूपविलासिन्यो लभते नात्र संशयः।।
यस्तु संवत्सरं भुङ्क्ते नवमेनवमेऽहनि।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्।
पुण्डरीकप्रकाशं च विमानं लभते नरः।।
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च।
नीयते रुद्रकन्याभिः सोन्तरिक्षं सनातनम्।।
अष्टादशसहस्राणि वर्षाणां कल्पमेव च।
कोटीशतसहस्रं च तेषु लोकेषु मोदते।।
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गतेगते।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्।।
ब्रह्मकन्यानिवासे स सर्वभूतमनोहरे।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्।।
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम्।
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा।।
विमानं मण्डलावर्तमावर्तगहनाकुलम्।
सागरोर्मिप्रतीकाशं स लभेद्यानमुत्तमम्।।
विचित्रमणिमालाभिर्नादितं शङ्खनिःस्वनैः।
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम्।
आरोहति महद्यानं हंससारसवाहनम्।।
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्।।
परिस्त्रियं नाभिलषेद्वाचाथ मनसाऽपि वा।
अनृतं च न भाषेत मातापित्रोःक कृतेऽपि वा।
अभिगच्छेन्महादेवं विमानस्थं महाबलम्।।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्।
स्वायंभुवं च पश्येत विमानं समुपस्थितम्।।
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम्।
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम्।।
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत्।
कोटीशतसहस्रं च दशकोटिशतानि च।।
रुद्रं नित्यं प्रणमते देवदानवसम्मतम्।
स तस्मै दर्शनं प्राप्तो दिवसेदिवसे भवेत्।।
दिवसे द्वादशे यस्तु प्राप्तो वै प्राशते हविः।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्।।
नियमेन समायुक्तः सर्वमेधफलं लभेत।
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते।।
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम्।
हंसभासा परिक्षिप्तं नागवीथीसमाकुलम्।।
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम्।
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम्।।
नित्यमावसथं राजन्नरनारीसमावृतम्।
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मिवित्।।
त्रयोदशे तु दिवसे प्राप्ते यः प्राशते हविः।
सदा द्वादश मासान्वै देवसत्रफलं लभेत्।।
रक्तपद्मोदयं नाम विमानं साधयेन्नरः।
जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम्।।
देवकन्याभिराकीर्णं दिव्याभरणभूषितम्।
पुण्यगन्धोदयं दिव्यं वादित्रैरुपशोभितम्।।
तत्र शङ्कुपताके द्वे युगान्तं कल्पमेव च।
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत्।।
गीतगन्धर्वघोषैश्च भेरीपणवनिःस्वनैः।
सदा प्रह्लादितस्ताभिर्देवकन्याभिरीड्यते।।
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः।
सदा द्वादशमासांस्तु महामेधफलं लभेत्।।
अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः।
मृष्टतप्ताङ्गदधरा विमानैरुपयान्ति तम्।।
कलहंसविनिर्घोषैर्नूपुराणां च निःखनैः।
काञ्चीनां च समुत्कर्षैस्तत्रतत्र निबोध्यते।।
देवकन्यानिवासे च तस्मिन्वसति मानवः।
जाह्नवीवालुकाकीर्णं पूर्णं संवत्सरं नरः।।
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्।।
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम्।
यानमारोहते दिव्यं हंसबर्हिणलक्षणम्।।
मणिमण्डलकैश्चित्रं जातरूपसमावृतम्।
दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम्।।
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम्।
वैजयन्तीसहस्रैश्च शोभितं गीतनिःस्वनै।
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति।।
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम्।
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः।।
षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः।
सदा द्वादशमासान्वै सोमयज्ञफलं लभेत्।।
सोमकन्यानिवासेषु सोऽध्यावसति नित्यशः।
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत्।।
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च।
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते।।
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम्।
आवर्तनानि चत्वारि साधयेच्चाप्यसौ नरः।।
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।।
स्थानं वारुणमैन्द्रं च रौद्रं वाऽप्यधिगच्छति।।
मारुतं शयनं चैव ब्रह्मलोकं स गच्छति।
तत्र दैवतकन्याभिरासनेनोपचर्यते।।
भूर्भुवःस्वश्च देवर्षिर्विश्वरूपमवेक्षते।
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम्।
द्वात्रिंशद्रूपदारिण्यो मधुराः समलङ्कृताः।।
चन्द्रादित्यावुभौ यावद्गगते चरतः प्रभो।
तावच्चरत्यसौ धीरः सुधातुल्यरसाशनः।।
अष्टादशे यो दिवसे प्राश्नीयादेकभोजनम्।
सदा द्वादशमासान्वै सप्तलोकान्स पश्यति।।
रथैः स नन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते।
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः।।
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम्।
विमानमुत्तमं दिव्यं सुसुखि ह्यधिरोहति।।
तत्र कल्पसहस्रं स कन्याभिः सह मोदते।
सुधारसं च भुञ्जीत अमृतोपममुत्तमम्।।
एकोनविंशदिवसे यो भुङ्क्ते एकभोजनम्।
सदा द्वादशमासान्वै सप्त लोकान्स पश्यति।।
उत्तमं लभते स्थानमप्सरोगणसेवितम्।
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम्।।
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः।
दिव्याम्बरधरः श्रीमानयुतानां शतंशतम्।।
पूर्णेऽथ विंशे दिवसे यो भुङ्क्ते ह्येकभोजनम्।
सदा द्वादशमासांस्तु सत्यवादी धृतव्रतः।।
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः।
स लोकान्विपुलान्रम्यानादित्यानामुपाश्नुते।।
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः।
विमानैः काञ्चनैर्हृद्यैः पृष्ठतश्चानुगम्यते।।
एकविंशो तु दिवसे यो भुङ्क्ते ह्येकभोजनम्।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति।।
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा।
अनभिज्ञश्च दुःखानां विमानवरमास्थितः।
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः।।
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम्।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्।।
अहिंसानिरतो धीमान्सत्यवागनसूयकः।
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः।।
कामचारी सुधाहारो विमानवरमास्थितः।
रमते देवकन्याभिर्दिव्याभरणभूषितः।।
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम्।
सदा द्वादशमासांस्तु मिताहारो जितेन्द्रियः।
वायोरुशनसस्चैव रुद्रलोकं च गच्छति।।
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः।
अनेकयुगपर्यन्तं विमानवरमास्थितः।
रमते देवकन्याभिर्दिव्याभरणभूषितः।।
चतुर्विंशे तु दिवसे यः प्राप्ते प्राशते हविः।
सदा द्वादशमासांश्च जुह्वानो जातवेदसम्।
आदित्यानामधीवासे मोदमानो वसेच्चिरम्।।
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः।
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे।
रमते देवकन्यानां सहस्रैरयुतैस्तथा।।
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम्।
सदा द्वादशमासांस्तु पुष्कलं यानमारुहेत्।।
सिंहव्याग्रप्रयुक्तैस्तु मेघनिःस्वननादितैः।
स रथैर्नन्दिघोषैश्च पृष्ठतो ह्यनुगम्यते।
देवकन्यासमारूढैः काञ्चनैर्विमलैः शुभैः।।
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम्।
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते।
सुधारसं चोपजीवन्नमृतोपममुत्तमम्।।
षड्विंशे दिवसे यस्तु प्रकुर्यादेकभोजनम्।
सदा द्वादशमासांस्तु नियतो नियताशनः।
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम्।।
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः।
सप्तानां मरुतां लोकान्वसूनां चापि सोश्नुते।।
विमानैः स्फाटिकैर्दिव्यैःइ सर्वरत्नैरलङ्कृतैः।
गन्धर्वैरप्सरोभिश्चि पूज्यमानः प्रमोदते।
द्वेऽर्बुदानां सहस्रे तु दिव्ये दिव्येन तेजसा।।
सप्तविंशेऽथ दिवसे यः कुर्यादेकभोजनम्।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्।।
फलं प्राप्नोति विपुलं देवलोके च पूज्यते।
अमृताशी वसंस्तत्र स वितृपः प्रमोदते।।
देवर्षिचरिताँल्लोकान्राजर्षिभिरनुष्ठितान्।
अध्यावसति दिव्यात्मा विमानवरमास्थितः।।
स्त्रीभिर्मिनोभिरामाभी रममाणो मदोत्कटः।
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम्।।
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम्।
सदा द्वादशमासांस्तु जितात्मा विजितेन्द्रियः।।
फलं देवर्षिचरितं विपुलं समुपाश्नुते।
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः।।
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः।
पीनस्तनोरुजघना दिव्याभरणभूषिताः।।
रमयन्ति मनःकान्ता विमाने सूर्यसन्निबे।
सर्वकामगमे दिव्ये कल्पायुतशतं समाः।।
एकोनत्रिंशदिवसे यः प्राशेदेकभोजनम्।
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः।।
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः।।
विमानं सूर्यचन्द्राभं दिव्यं समधिगच्छति।
जातरूपमयं युक्तं सर्वरत्नसमन्वितम्।
अप्सरोगणसङ्कीर्णं गन्धर्वैरभिनादितम्।।
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः।
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः।।
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः।
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः।।
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा।
रुद्राणां च तथा लोकं ब्रह्मलोकं च गच्छति।।
यस्तु मासे गते भुङ्क्ते एकभक्तं समाहितः।
सदा द्वादश मासान्वै ब्रह्म्लोकमवाप्नुयात्।।
सुधारसकृताहार श्रीमान्सर्वमनोहरः।
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
सुखेष्वभिरतो भोगी दुःखानामविजानकः
स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते
नानारमणरूपाभिर्नानारागाभिरेव च
विमाने गगनाकारे सूर्यवैडूर्यसन्निभे
पृष्ठतः सोमसङ्करो उदर्के चाभ्रसन्निभे
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले
ऊर्ध्वं विचित्रसङ्काशे नैको वसति पूजितः
यावद्वर्षसहस्रं वै जम्बूद्वीपे प्रवर्षति
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकेऽस्य धीमतः
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात्
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम्
महर्षित्वमथासाद्य सशरीरगतिर्भवेत्
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा
जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता
बहुभिर्नियमैरेवं शुचिरश्नाति यो नरः
अभ्रावकाशशीलश्च तस्य भानोरिव त्विषः
दिवं गत्वा शरीरेण स्वेन राजन्यथाऽमरः
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते तथाविधः
एथ ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः।
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा
देवद्विजातिपूजायां रतो भरतसत्तमम्
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत
अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः