अनुशासनपर्व

अध्यायः १६३

Anusasana Parva (Sanskrit) · Adhyaya 163
अक्षर का आकार

युधिष्ठिर उवाच।

सर्वेषामेव वर्णानां म्लेच्छानां च पितामह।
उपवासे मतिरियं कारणं च न विद्महे।।

ब्रह्मक्षत्रेण नियमाः कर्तव्या इति नः श्रुतम्।
उपवासे कथं तेषां कृतमस्ति पितामह।

नियमांश्चोपवासांश्च सर्वेषां ब्रूहि पार्थिव।
आप्नोति कां गतिं तात उपवासपरायणः।।

उपवासः परं पुण्यं पवित्रमपि चोत्तमम्।।
उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते।।

अधर्मान्मुच्यते केन धर्ममाप्नोति वा कथम्।
स्वर्गं पुण्यं च लभते कथं भरतसत्तम।।

उपोष्य चापि किं तेन प्रयोज्यं स्यान्नराधिप।
धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि मे।।

वैशम्पायन उवाच।

एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित्।
धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत्।।

इदं खलु महाराज श्रुतमासीत्पुरातनम्।
उपावासविधौ श्रेष्ठा गुणा ये भरतर्षभ।।

प्राजापत्यमाङ्गिरसं पृष्टवानस्मि भारत।
यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम्।।

प्रश्नमेतं मया पृष्टो भगवानग्निसम्भवः।
उपवासविधिं पुण्यमाचष्ट भरतर्षभ।।

अङ्गिरा उवाच।

ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन।
द्विस्त्रिरात्रमथैकाहं निर्दिष्टं पुरुषर्षभ।।

वैश्याः शूद्राश्च यन्मोहादुपवासं प्रकुर्वते।
त्रिरात्रं वा द्विराइत्रं वा तयोर्व्युष्टिर्न विद्यते।।

चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधीयते।
त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः।।

पञ्चम्यां वाऽपि षष्ठ्यां च पौर्णमास्यां च भारत।
उपोष्य एकभक्तेन नियतात्मा जितेन्द्रियः।।

क्षमावान्रूपसम्पन्नः सुरभिश्चैव जायते।
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन।।

यजिष्णुः पञ्चमीं षष्ठीं कुले भोजयते द्विजान्।
अष्टमीमथ कौरव्य कृष्णपक्षे चतुर्दशीम्।
उपोष्य व्याधिरहितो वीर्यवानभिजायते।।

मार्गशीर्षं तु वै मासमेकभक्तेन यः क्षिपेत्।
भोजयेच्च द्विजाञ्शक्त्या स मुच्येद्व्याधिकिल्बिषैः।।

सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः।
कृषिभागी बहुधनो बहुधान्यश्च जायते।।

पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षिपेत्।
सुभगो दर्शनीयश्च यशोभागी च जायते।।

पितृभक्तो माघमासं यः क्षिपेदेकभोजनः।
श्रीमत्कुले ज्ञातिमध्ये सुभगत्वं प्रपद्यते।।

भगदैवतमासं तु एकभक्तेन यः क्षिपेत्।
`सुभगो दर्शनीयश्च यशोभागी च जायते।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः।।

चैत्रं तु नियतो मासमेकभक्तेन यः क्षिपेत्।
सुवर्णमणिमुक्ताढ्ये कुले महति जायते।।

निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः।
नरो वा यदि वा नरी ज्ञातीनां श्रेष्ठतां व्रजेत्।।

ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षिपेत्।
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वा प्रपद्यते।।

आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते।।

श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत्।
रूपद्रविणसम्पन्नः सुखी भवति नित्यशः।
बहुभार्यो बहुधनो बहुपुत्रश्चि जायते।।

प्रौष्ठपादं तु यो मासमेकाहारो भवेन्नरः।
गवाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते।।

तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत्।
प्रज्ञावान्वाहनाढ्यश्च बहुपुत्रश्च जायते।।

कार्तिकं तु नरो मासं यः कुर्यादेकभोजनम्।
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते।।

इति मासा नरव्याघ्र क्षिपतां परिकीर्तिताः।
तिथीनां नियमा ये तु शृणु तानपि पार्थिव।।

पक्षेपक्षे गते यस्तु भक्तमश्नाति भारत।
गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते।।

मासिमासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश।
गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम्।।

एते तु नियमाः सर्वे कर्तव्याः शरदो दश।
द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिरनुकीर्तिता।।

यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत्।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्।।

षड्भिः स वर्षैर्नृपते सिध्यते नाइत्र संशयः।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः।।

अधिवासे सोप्सरसां नृत्यगीतविनादिते।
रमते स्त्रीसहस्राढ्ये सुकुती विरजा नरः।।

तप्तकाञ्चनवर्णाभं विमानमधिरोहति।
पूर्णं वर्षसहस्रं च ब्रह्मिलोके महीयते।
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते।।

यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः।
अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते।।

त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते।
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते।।

यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते।
अहिंसानिरतो नित्यं सत्यवाग्विजितेन्द्रियः।।

वाजपेयस्य यज्ञस्य स फलं समुपाश्नुते।
त्रिंशद्वर्षसहस्राणि स्वर्गलोके महीयते।।

षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षिपन्।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः।।

चक्रवाकप्रयुक्तेन विमानेन स गच्छति।
चत्वारिंशत्सहस्राणि वर्षाणि दिवि मोदते।।

अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप।
गवामयनयज्ञस्य फलं प्राप्नोति मानवः।।

हंससारसयुक्तेन विमानेन स गच्छति।
पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते।।

पक्षेपक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु।
षण्मासानशनं तस्य भगवानङ्गिराऽब्रवीत्।
षष्टिं वर्षसहस्राणि दिवमावसते च सः।।

विणानां वल्लकीनां च वेणूनां च विशाम्पते।
सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते।।

संवत्सरमिहैकं तु मासिमासि पिबेदपः।
फलं विश्वजितस्तात प्राप्नोति स नरो नृप।।

सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति।
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते।।

मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते।
विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः।।

अनार्तो व्याधिरहितो गच्छेदनशनं तु यः।
पदेपदे यज्ञफलं स प्राप्नोति न संशयः।।

दिवं हंसप्रयुक्तेन विमानेन स गच्छति।
शतं वर्षसहस्राणां मोदते स दिवि प्रभो।।

शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम्।
आर्तो वा व्याधितो वाऽपि गच्छेदनशनं तु यः।।

शतं वर्षसहस्राणां मोदते स दिवि प्रभो।
काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते।।

सहस्रहंसयुक्तेन विमानेन तु गच्छति।
स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ।।

क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम्।
व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम्।।

दुःखितस्यार्तपूर्वस्य द्रव्याणां प्रतिपादनम्।
न चैतद्रोचते तेषां ये धनैः सुखमेधिताः।।

अतः स कामसंयुक्ते विमाने हेमसन्निभे।
रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुचिः।।

स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः।
अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः।।

बालसूर्यप्रतीकाशे विमाने सोमवर्चसि।
वैदूर्यमुक्ताखचिते वीणामुरजनादिते।।

पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते।
स्त्रीसहस्रानुचरिते स नरः सुखमेधते।।

यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव।
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते।।

नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः।
न धर्मात्परमो लाभस्तपो नानशनात्परम्।।

ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च।
उपवासैस्तथा तुल्यं तपःकर्म न विद्यते।।

उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे।
ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन्।।

दिव्यवर्षसहस्राणि विश्वामित्रेण धीमता।
क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतम्।।

च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः।
सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः।।

इदमङ्गीरसा पूर्वं महर्षिभ्यः प्रदर्शितम्।
यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते।।

इमं तु कौन्तेय यथाक्रमं विधिं
प्रवर्तितं ह्यङ्गिरसा महर्षिणा।
पठेच्च यो वै शृणुयाच्च नित्यदा
न विद्यते तस्य नरस्य किल्बिषम्।।

विमुच्यते चापि स सर्वसङ्करै-
र्न चास्य दोषैरभिभूयते मनः।
वियोनिजानां च विजानते रुतं
ध्रुवां च कीर्तिं लभते नरोत्तमः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिष्ट्यधिकशततमोऽध्यायः।। 163 ।।