अनुशासनपर्व

अध्यायः १६२

Anusasana Parva (Sanskrit) · Adhyaya 162
अक्षर का आकार

युधिष्ठिर उवाच।

कथं ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ।
कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे।।

भीष्म उवाच।

ज्येष्ठवत्तात वर्तस्व ज्येष्ठोसि हि तथा भवान्।
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत।।

न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम्।
गुरौ हि सदृशी वृत्तिर्यथा शिष्यस्य भारत।।

अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः।
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः।।

प्रत्यक्षं भिन्नहृदया भेदयेयुर्यथाऽहिताः।
`श्रियाऽभितप्तास्तद्भेदान्नभिन्नाः स्युः समाहिताः
श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथाऽरयः।।

ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः।
हन्ति सर्वमपि ज्येष्ठः प्रायो दुर्विनयादिह।।

अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः।
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः।।

निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम्।
विफलं तस्य पुत्रत्वं मोघं जनयितुः स्मृतम्।।

पित्रोरनर्थायक कुले जायते पापपूरुषः।
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च।।

सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः।
ज्येष्ठोऽपि दुर्विनीतस्तु कनिष्ठस्तु विशेषतः।
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत वेतनम्।।

अनुजस्य पितुर्दायो जङ्घाश्रमफलोऽध्वगः।
स्वयमीहेत लब्धं तु नाकामो दातुमर्हति।।

भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह।
न पुत्रभागं विषमं पिता दद्यात्कदाचन।

न ज्येष्ठो वाऽवमन्येत दुष्कृतः सुकृतोऽपि वा।
गुरूणामपराधो हि शक्यः क्षन्तव्य एव च।।

यदि स्त्री यद्यवरज श्रेयः पश्येत्तदाचरेत्।
धर्मार्थः श्रेय इत्याहुस्त्रयो ज्ञाता विधायकाः।।

दशाचार्यानुपाध्याय उपाध्यायान्पिता दश।
दश चैव पितॄन्माता सर्वां वा पृथिवीमपि।
गौरवेणाभिभवति नास्ति मातृसमो गुरुः।।

माता गरीयसी यच्च तेनैतां मन्यते गुरुम्।
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत।।

स ह्येषां वृत्तिदाता स्यात्स चैतान्प्रतिपालयेत्।
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः।।

तमेव चोपजीवेरन्यथैव पितरं तथा।
शरीरमेतौ सृजतः पिता मता च भारत।।

आचार्यशिष्टा या जातिः सा सत्या साऽजरामरा।
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ।

भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः।।