अनुशासनपर्व

अध्यायः १६१

Anusasana Parva (Sanskrit) · Adhyaya 161
अक्षर का आकार

युधिष्ठिर उवाच।

शतायुरुक्तः पुरुषः शतवीर्यश्चि वैदिके।
कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह।।

आयुष्मान्केन भवति अल्पायुर्वाऽपि मानवः।
केन वा लभते कीर्तिं केन वा लभते श्रियम्।।

तपसा ब्रह्मचर्येण जपैर्होमैस्तथा परैः।
जन्मना यदि वाऽचारात्तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि।
अल्पायुर्येन भवति दीर्घायुर्येनि मानवः।।

येन वा लभते कीर्तिं येन वा लभते श्रियम्।
यथा च वर्तयन्पुरुषः श्रेयसा सम्प्रयुज्यते।।

आचाराल्लभते ह्यायुराचाराल्लभते श्रियम्।
आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च।।

दुराचारो हि पुरुषो नेहायुर्विन्दते महत्।
त्रसन्ति चास्य भूतानि तथा परिभवन्ति च।।

तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः।
अपि पापशरीरस्य आचारो हन्त्यलक्षणम्।।

आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः।
साधूनां च यथावृत्तमेतदाचारलक्षणम्।।

अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम्।
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम्।।

ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः।
अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः।।

विशीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः।
अल्पायुषो भवन्तीह नरा निरयगामिनः।।

सर्वलक्षणहीनोऽपि समुदाचारवान्नरः।
श्रद्दधानोऽनसूयुश्च शतं वर्षाणि जीवति।।

अक्रोधनः सत्यवादी भूतानामविहिंसकः।
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति।।

लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः।
नित्योच्छिष्टः सङ्कुसुको नेहायुर्विन्दते महत्।।

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत्।
उत्थाय चोपतिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः।
एवमेवापरां सन्ध्यां समुपासीत वाग्यतः।।

नेक्षेतादित्यमुद्यन्तं नास्तं यन्तं कदाचन।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम्।।

ऋषयो नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन्।।

`सदर्भपाणिस्तत्कुर्वन्वाग्यतस्तन्मनाः शुचिः।'
तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः।।

ये न पूर्वामुपासन्ते द्विजाः संध्यां न पश्चिमाम्।
सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत्।।

परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित्।
नहीदृशमनायुष्यं लोके किञ्चन विद्यते।।

यादृशं पुरुषस्येह परदारोपसेवनम्।
तादृशं विद्यते किञ्चिदनायुष्यं नृणामिह।।

यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः।
तावद्वर्षसहस्राणि नरकं पर्युपासते।।

मैत्रं प्रसाधनं स्नानमञ्जनं दन्तधावनम्।
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम्।।

पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन।
नातिकल्यं नातिसायं न च मध्यंदिने स्थिते।
नाज्ञातैः सह गच्छेत नैको न वृषलैः सह।।

पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च।
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च।।

प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन्।
चतुष्पदान्मङ्गलांश्च मान्यान्वृद्धान्द्विजानपि।।

मध्यंदिने निशाकाले अर्धरात्रे च सर्वदा।
चतुष्पथं न सेवेत उभे सन्ध्ये तथैव च।।

उपानहौ न वस्त्रं च धृतमन्यैर्न धारयेत्।
ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत्।।

अमावास्यां पौर्णमास्यां चतुर्दश्यां च जन्मनि।
अष्टम्यामथ द्वादश्यां ब्रह्मचारी सदा भवेत्।।

वृथा मांसं न खादेनि पृष्ठमांसं तथैव च।
आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत्।।

नारुन्तुदः स्यान्न नृशंसवादी
न हीनतो वरमभ्याददीत।
ययाऽस्य वाचा पर उद्विजेत
न तां वदेद्रुशतीं पापलोक्याम्।।

अतिवादबाणा मुखतो निःसरन्ति
यैराहतः शोचति रात्र्यहानि।
परस्य वा मर्मसु ये पतन्ति
तान्पण्डितो नावसृजेत्परेषु।।

संरोहत्यग्निना दग्धं वनं परशुना हतम्।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्।।

कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः।
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः।।

हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान्।
रूपद्रविणहीनांश्च सत्यहीनांश्च नाक्षिपेत्।।

नास्तिक्यं वेदनिन्दां च परनिन्दां च कुत्सनम्।
द्वेषस्तम्भाभिमानं च तैक्ष्ण्यं च परिवर्जयेत्।।

परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत्।
अन्यत्रि पुत्राच्छिष्याच्च शिक्षार्थं ताडनं स्मृतं।।

न ब्राह्म्णान्परिवदेन्नक्षत्राणि न निर्दिशेत्।
तिथिं पक्षस्य न ब्रूयात्तथाऽस्यायुर्न रिष्यते।।

`अमावास्यामृते नित्यं दन्तधावनमाचरेत्।
इतिहासपुराणानि दानं वेदं च नित्यशः।
गायत्रीमननं नित्यं कुर्यात्सन्ध्यां समाहितः।।'

कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः।
पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा।।

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते।।

यावकं कृसरं मांसं शष्कुलीं पायसं तथा।
आत्मार्थंतं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत्।।

नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा।
दन्तकाष्ठे च सन्ध्यायां मलोत्सर्गे च मौनगः।।

न चाभ्युदितसायी स्यात्प्रायश्चित्ती तथा भवेत्।
मातापितरमुत्थाय पूर्वमेवाभिवादयेत्।
आचार्यमथवाऽप्यन्तं तथाऽऽयुर्विदन्ते महत्।।

वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः।
भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि विवर्जयेत्।
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः।।

अकृत्वा देवपूजां च नाचरेद्दन्तधावनम्।
अकृत्वा देवपूजां च नान्यं गच्छेत्कदाचन।
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम्।।

अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः।
न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन।।

दारसङ्ग्रहणात्पूर्वं नाचरेन्मैथुनं बुधः।
अन्यथा त्ववकीर्णः स्यात्प्रायश्चित्तं सदाऽऽचरेत्।।

नीदीक्षेत्परदारांश्च रहस्येकासनो भवेत्।
इन्द्रियाणि सदा यच्छेत्स्वग्ने शुद्धमना भवेत्।।

उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च।
प्राक्शिरास्तु स्वपेद्विद्वांस्तथा वै दक्षिणाशिराः।।

न भग्ने नावशीर्णो च शयने प्रस्वपीत च।
नान्तर्धानेन संयुक्ते न च तिर्यक्कदाचन।।

न चापि गच्छेत्कार्येण समयाद्वाऽपि नास्तिकैः।
आसनं तु पदाऽऽकृष्य न प्रसज्जेत्तथा नरः।।

न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन।
स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः।
न निशायां पुनः स्नायादापद्यग्निद्विजान्तिके।।

न चानुलिम्पेदस्नात्वा वासश्चापि न निर्धुनेत्।
आर्द्र एव तु वासांसि नित्यं सेवेत मानवः।।

स्रजश्च नावकृष्येत न बहिर्धारयीत च।
उदक्यया च सम्भाषां न कुर्वीत कदाचन।।

नोत्सृजेत पुरिषं च क्षेत्रे मार्गस्य चान्तिके।
उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन।।

देवालयेऽथ गोवृन्दे चैत्ये सस्येषु विश्रमे।
भोक्ष्यं भुक्त्वा क्षुतेऽध्वानं गत्वा मूत्रपुरीषयोः।
द्विराचामेद्यथान्यायं हृद्गतं तु पिबन्नपः।।

अन्नं बुभुक्षमाणस्तु त्रिमुखेन स्पृशेदपः।
भुक्त्वा चान्नं तथैव त्रिर्द्विः पुनः परिमार्जयेत्।।

प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन्।
प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत्।।

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः।
धन्यं पश्चान्मुखो भुङ्क्त ऋतं भुङ्क्त उदङ्मुखः।।

`अग्रासनो जितक्रोधो बालपूर्वस्त्वलङ्कृतः।
घृताहुतिविशुद्धान्नं हुताग्निश्च क्षिपन्ग्रसेत्।।'

अग्निमालभ्य तोयेन सर्वान्प्राणानुपस्पृशेत्।
गात्राणि चैव सर्वाणि नाभिं पाणितले तथा।।

नाधितिष्ठेत्तुषं जातु केशभस्मकपालिकाः।
अन्यस्य चाप्यवस्नातं दूरतः परिवर्जयेत्।।

शान्तिहोमांश्च कुर्वीत सावित्राणि च धारयेत्।
निषष्णश्चापि खादेन न तु गच्छन्कदाचन।।

मूत्रं नोत्तिष्ठता कार्यं न भस्मनि न गोव्रजे।
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत्।।

आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम्।
त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन।
अग्निं गां ब्राह्मणं चैव तता ह्यायुर्न रिष्यते।।

त्रीणि ज्योतींषि नोच्छिष्ट उदीक्षेत कदाचन।
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः।।

ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आगते।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते।।

अभिवादयीत वृद्धांश्च दद्याच्चैवासनं स्वयम्।
कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात्।।

न चासीतासने भिन्ने भिन्नकांस्यं च वर्जयेत्।
नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति।।

स्पप्तव्यं नैव नग्नेन न चोच्छिष्टोपि संविशेत्।
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः।।

केशग्रहं प्रहारांश्च सिरस्येतान्विवर्जयेत्।
न संहाताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः।
न चाभीक्ष्णं शिरःस्नायात्तथा स्यायुर्न रिष्यते।।

शिरःस्नातस्तु तैलैश्च नाङ्गं किञ्चिदपि स्पृशेत्।
तिलपिष्टं न चाश्नीयाद्गतसर्वरसं तथा।।

नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन।
वाते च पूतिगन्धे च मनसाऽपि न चिन्तयेत्।।

अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः।
आयुरस्य निकृन्तामि प्रज्ञामस्याददे तथा।।

उच्छिष्टो यः प्राद्रवति स्वाध्यायं चाधिगच्छति।
यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः।।

तस्य वेदः प्रणश्येत आयुश्चि परिहीयते।
तस्माद्युक्तो ह्यनध्याये नाधीयीत कदाचन।।

प्रत्यादित्यं प्रत्यनलं प्रतिगां च प्रतिद्विजान्।
ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः।।

उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः।
दक्षिणाभिमुखो रात्रौ तथा हन्युर्न रिष्यते।।

त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषु।
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः।।

दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा।
क्षत्रियोपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा।।

ब्राह्म्णिस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च।
तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः।।

गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन।
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युदिष्ठिर।।

सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह।
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः।।

दूरादावसथान्मूत्रं दूरात्पादावसेचनम्।
उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा।।

रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः।
वर्जयित्वा तु कमलं तथा कुवलयं प्रभो।।

रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि।
काञ्चनीयाऽपि माला या न सा दुष्यति कर्हिचित्।।

स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशांपते।।

विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः।
तथा नान्यधृतं धार्यं न चातिविकृतं तथा।।

अन्यदेव भवेद्वासः शयनीये नरोत्तम।
अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि।।

प्रियङ्गुचन्दनाभ्यां च बिल्वेन स्थगरेण च।
पृथगेवानुलिम्पेत केसरेण च बुद्धिमान्।।

उपवासं च कुर्वीत स्नातः शुचिरलङ्कृतः।
`नोपवासं वृथा कुर्याद्धनं नापहरेदिह।।'

पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत्।
समानमेकपात्रे तु भुञ्जेन्नान्नं जनेश्वर।।

नावलीढमवज्ञातमाघ्रातुं भक्षयेदपि।
तथा नोद्धृतसाराणि प्रेक्षतामप्रदाय च।।

नासंनिविष्टो मेधावी नाशुचिर्नि च सत्यु च।
प्रतिषिद्धान्नं धर्मेषु भक्ष्यान्भुञ्जीत पृष्ठतः।।

पिप्पलं च वटं चैव शणशाकं तथैव च।
उदुम्बरं न खादेश्च भवार्थी पुरुषो नृप।।

आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत्।
वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत्।।

न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु।
दधिसक्तून्न दोषायां पिबेन्मधु च नित्यशः।।

सायं प्रातश्च भुञ्जीत नान्तराले समाहितः।
वालेन तु न भुञ्जीत परश्राद्धं तथैव च।।

वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन।
भूमौ सदैव नाश्नीयान्नाशौचं न च शब्दवत्।।

तोयपूर्वं प्रदायान्नमतिथिभ्यो विशाम्पते।
पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः।।

समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर।
विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने।।

पानीयं पायसं सक्तून्दधि सर्पिर्मधून्यपि।
निरस्य शेषमन्येषां न प्रदेयं तु कस्यचित्।।

भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत्।
दधि चाप्यनु पानं वै न कर्तव्यं भवार्थिना।।

आचम्य चैकहस्तेन परिस्राव्य तथोदकम्।
अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत्।।

पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः।
ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः।।

अद्भिः प्राणान्समालभ्य नाभिं पाणितले तथा।
स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना।।

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्तमुदाहृतम्।
कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते।।

अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत।
तेन पित्र्याणि कुर्वीत स्पृष्ट्वाऽऽपो न्यायतः सदा।।

परापवादं न ब्रूयान्नाप्रियं च कदाचन।
न मन्युः कश्चिदुत्पाद्यः पुरुषेणि भवार्थिना।।

एतितैस्तु कथां नेच्छेद्दर्शनं च विवर्जयेत्।
संसर्गं च न गच्छेत तथाऽऽयुर्विन्दते महत्।।

न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम्।
न चास्नातां स्त्रियं गच्छेत्तथाऽऽयुर्विन्दते महत्।।

स्वेस्वे तीर्थे समाचम्य कार्ये समुपकल्पिते।
त्रिः पीत्वाऽऽपो द्विः प्रमृज्य कृतशौचो भवेन्नरः।।

इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः।
कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा।।

ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव।
प्रवृत्तं चाहितं चोक्त्वा बहुभोजनवत्तदा।।

सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत्।
निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत्।।

निष्ठिवने मैथुने च क्षुते अक्ष्याविमेचने।
उदक्या दर्शने तद्वन्नग्नस्याचमनं स्मृतम्।
स्पृशेत्कर्णं सप्रणवं सूर्यमीक्षेत्सदा तदा।।

वृद्धो ज्ञातिस्तथा मित्रमनाथा च स्वसा गुरुः।
कुलीनः पण्डित इति रक्ष्या निःस्वः स्वशक्तितः।
गृहे वासयितव्यास्ते धन्यमायुष्यमेव च।।

गृहे पारावता धार्याः शुकाश्च सहशारिकाः।
`देवताप्रतिमाऽऽदर्शश्चन्दनाः पुष्पवल्लिकाः।।

शुद्धं जलं सुवर्णं च रजतं गृहमङ्गलम्।'
गृहेष्वेते न पापाय यथा वै तैलपायिकाः।।

उद्दीपकाश्च गृध्रास्च कपोता भ्रमरास्तथा।
निविशेयुर्यदा तत्र शान्तिमेव तदाऽऽचरेत्।।

अमङ्गल्यः सतां शापस्तथाऽऽक्रोशो महात्मनाम्।
महात्मनोतिगुह्यानि न वक्तव्यानि कर्हिचित्।

अगम्याश्च न गच्छेत राज्ञः पत्नीं सखीस्तथा|
वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर

बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च।
सम्बन्धिनां च राजेन्द्र तथाऽऽयुर्विन्दते महत्।।

ब्राह्मणस्तपतिभ्यां च निर्मितं यन्निवेशनम्।
तदा वसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर।।

सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत्।
न भुञ्जीत च मेधावी तथाऽऽयुर्विन्दते महत्।।

नक्तं न कुर्यात्पित्र्याणि नक्तं चैव प्रसाधनम्।
पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता।।

वर्जनीयाश्चैव नित्यं सक्तवो निशि भारत।
शेषाणि चावदातानि पानीयं चापि भोजने।।

सौहित्यं न च कर्तव्यं रात्रौ न च समाचरेत्।
न भुक्त्वा मैथुनं गच्छेन्न धावेन्नातिहासकम्।'
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत्।।

महाकुले प्रसूतां च प्रशस्तां लक्षणैस्तथा।
वयसाऽवरां सुनक्षत्रां कन्यामावोढुमर्हति।।

<अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा।
पुत्राः प्रदेया जातेषु कुलधर्मेषु भारत।।

कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते।
पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत।।

शिरःस्नातोथ कुर्वीत दैवं पित्र्यमथापि च।।

तैलं जन्मदिनेऽष्टम्यां चतुर्दश्यां च पर्वसु।'
नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः।
न प्रोष्ठपदयोः कार्यं तथाऽऽग्नेये च भारत।।

दारुणेषु च सर्वेषु प्रत्यरिं च विवर्जयेत्।
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत्।।

प्राङ्मुखः श्मश्रुकर्माणि कारयेत्सुसमाहितः।
उदङ्मुखो वा राजेन्द्र तथाऽऽयुर्विन्दते महत्।।

सामुद्रेणाम्यसा स्नानं क्षौरं श्राद्धेषु भोजनम्।
अन्तर्वत्नीपतिः कुर्वन्न पुत्रफलमश्नुते।।

सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः।'
परिवादं न च ब्रूयात्परेषामात्मनस्तथा।
परिवादो ह्यधर्माय प्रोच्यते भरतर्षभ।।

वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम।
समार्षां व्यङ्गिकां श्चैव मातुः सकुलजां तथा।।

वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम्।
तथा निकृष्टवर्णा च वर्णोत्कृष्टां च वर्जयेत्।

अयोनिं च वियोनिं च न गच्छेत विचक्षणः।
पिङ्गलां कुष्ठिनीं नारीं न त्वमुद्वोढुमर्हसि।।

अपस्मारिकुले जातां निहीनां चापि वर्जयेत्।
श्वित्रिणां च कुले जातां क्षयिणां मनुजेश्वर।।

`सुरोमशामतिस्थूलां कन्यां मातृपितृस्थिताम्।
अलज्जां भ्रातृजां तुष्टां वर्जयेद्रक्तकेशिनीम्।।'

लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः।
मनोज्ञां दर्शनीयां च तां भवान्वोढुमर्हति।।

महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर।
अवरा पतिता चैव न ग्राह्या भूतिमिच्छता।।

अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः।
वेदे च ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत्।।

न चेर्ष्या स्त्रीषु कर्तव्या रक्ष्या दाराश्च सर्वशः।
अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत्।।

अनायुष्यं दिवा स्वप्नं तथाऽभ्युदितशायिता।
प्रातर्निशायां च तथा ये चोच्छिष्टा भवन्ति च।।

पारदार्यमनायुष्यं नापितोच्छिष्टता तथा।
यत्नतो वै न कर्तव्यमत्याशश्चैव भारत।।

सन्ध्यां न भुञ्ज्यान्न स्नायेन्न पुरीषं समुत्सृजेत्।
प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत्।।

ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप।
देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत्।।

अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः।
अनर्चिते ह्यनायुष्यं गमनं तत्र भारत।।

न चैकेन परिव्रज्यं न गन्तव्यं तथा निशि।
नानापदि परस्यान्नमनिमन्त्रितमाहरेत्।।

एकोद्दिष्टं न भुञ्जीत प्रथमं तु विशेषतः।
सपिण्डीकरणं वर्ज्यं सविधानं च मासिकम्।।

अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत्।।

मातुः पितुर्गुरूणां च कार्यमेवानुशासनम्।
हितं चाप्यहितं चापि न विचार्यं नरर्षभ।।

`क्षत्रियस्तु विशेषेण धनुर्वेदं समभ्यसेत्।'
धनुर्वेदे च वेदे च यत्नः कार्यो नाराधिप।।

हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह।
यत्नवान्भव राजेन्द्र यत्नवान्सुवमेधते।।

अप्रधृष्यश्च शत्रूमां भृत्यानां स्वजनस्य च।
प्रजापालनयुक्तश्च नारतिं लभते क्वचित्।।

युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत।
गान्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप।।

पुराणमितिहासाश्च तथाऽऽख्यानानि यानि च।
महात्मनां च चरितं श्रोतव्यं नित्यमेव ते।।

`मान्यानां माननं कुर्यान्निन्द्यानां निन्दनं तथा।
गोब्राह्मणार्थे युध्येत प्राणानपि परित्यजेत्।।

न स्त्रीषु सज्जेद्द्रष्टव्यं शक्त्या दानरुचिर्भवेत्।
न ब्राह्मणान्परिभवेत्कार्पण्यं ब्राह्मणैर्वृतम्।
पतितान्नाभिभाषेत नाह्वयेत रजस्वलाम्।।'

पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत्।
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः।।

पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत्।
`आषोडशादृतुर्मुख्यः पुत्रजन्मनि शब्दितः'

एतेन विधिना पत्नीमुपगच्छेत पण्डितः।
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्वशः।।

यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः।
अत ऊर्ध्वमरण्यं च सेवितव्यं नराधिप।।

एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः।
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर।।

एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः।
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर।।

आचारो भूतिजनन आचारः कीर्तिवर्धनः।
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम्।।

आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते।
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते।।

एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्।
अनुकम्प्य सर्ववर्णान्ब्रह्मणा समुदाहृतम्।।

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
स शुभान्प्राप्नुयाल्लोकान्सदाचारपरो नृप।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकषष्ट्यधिकशततमोऽध्यायः।। 161 ।।