अनुशासनपर्व

अध्यायः १६०

Anusasana Parva (Sanskrit) · Adhyaya 160
अक्षर का आकार

युधिष्ठिर उवाच।

दानं बहुविधाकारं शान्तिः सत्यमहिंसितम्।
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य वाऽपि यत्।।

पितामहस्य विदितं किमन्यत्तपसो बलात्।
तपसो यत्परं तेऽद्य तन्नो व्याख्यातुमर्हसि।।

भीष्म उवाच।

तपसः प्रक्षयो यावत्ताल्लोको युधिष्ठिर।
मतं ममात्र कौन्तेय तपो नानशनात्परम्।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः।।

अतीत्य सुरलोकं च गवां लोकं च भारत।
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतम्।।

तं तु दृष्ट्वा वचः प्राह ब्रह्मा राजन्भगीरथम्।
कथं भगीरथाऽऽगास्त्वमिमं लोकं दुरासदम्।।

न हि देवा न गन्धर्वा न मनुष्या भगीरथ।
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः।।

भगीरथ उवाच।

निश्शङ्कमन्नमददां ब्राह्मणोभ्यः
शतं सहस्राणि सदैवतानाम्।
ब्राह्मं व्रतं नित्यमास्थाय विद्व-
न्न त्वेवाहं तस्य फलादिहागाम्।।

दशैकरात्रान्दशपञ्चरात्रा-
नेकादशैकादशकान्क्रतूंश्च।
ज्योतिष्टोमानां च शतं यदिष्टं
फलेन तेनापि च नागतोऽहम्।।

यच्चावसं जाह्नवीतीरनित्यः
शतं समास्तप्यमानस्तपोऽहम्।
अदां च तत्राश्वतरीसहस्रं
नारीपुरं न च तेनाहमागाम्।।

दशायुतानि चाश्वानां गोऽयुतानि च विंशतिम्।
पुष्करेषु द्विजातिभ्यः प्रादां शतसहस्रशः।।

सुवर्णचन्द्रोत्तमधारिणीनां
कन्योत्तमानामददं सहस्रम्।
षष्टिं सहस्राणि विभूषितानां
जाम्बूनदैराभरणैर्न तेन।।

दशार्बुदान्यददं गोसवेज्या-
स्वेकैकशो दश गा ओकनाथ।
समानवत्साः पयसा समन्विताः
सुवर्णकांस्योपदुहा न तेन।।

आप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम्।
गृष्टीनां क्षीरदोग्ध्रीणां रोहिणीनां शतानि च।।

दोग्ध्रीणां वै गवां चापि प्रयुतानि दशैव ह।
प्रादां दशगुणं ब्रह्मन्न तेनाहमिहागतः।।

वाजिनां बाह्लिजातानामयुतान्यददं दश।
कर्काणां हेममालानां न च तेनाहमागतः।।

कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दशान्वहम्।
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः।।

वाजिनां श्यामकर्णानां हरितानां पितामह।
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च।।

ईषादन्तान्महाकायान्काञ्चतस्रग्विभूषितान्।
पद्मिनो वै सहस्राणि प्रादां दश च सप्त च।।

अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः।
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश।।

सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः।
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः।।

वाजपेयेषु दशसु प्रादां तेष्वपि चाप्यहम्।
शक्रतुल्यप्रभावाणामिज्यया विक्रमेण ह।।

सहस्रं निष्ककण्ठानामददं दक्षिणामहम्।
विजित्य भूपतीन्सर्वानर्थैरिष्ट्वा पितामह।
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः।।

स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते।
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते।।

वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते।
वरं ग्रामशतं चाहमेकैकस्यां तिथावदाम्।।

तपस्वी नियताहारः शममास्थाय वाग्यतः।
दीर्घकालं हिमवति गङ्गार्थमचरं तपः।।

मूर्ध्ना हरं महादेवं प्रणम्याभ्यर्चयन्नृपः।
न तेनाप्यहमागच्छं फलेनेह पितामह।।

शम्याक्षेपैरयजं यच्च देवा-
ञ्शतैः क्रतूनामयुतैश्चापि यच्च।
त्रयोदशद्वादशाहैश्च देव
सपौण्डरीकैर्न च तेषां फलेन।।

अष्टौ सहस्राणि ककुद्मिनामहं
शुक्लर्षभाणामददं द्विजेभ्यः।
एकैकं वै काञ्चनं शृङ्गमेभ्यः
पत्नीश्चैषामददं निष्ककण्ठीः।।

हिरण्यरत्ननिचयानददं रत्नपर्वतान्।
धनधान्यैः समृद्धांश्च ग्रामाञ्शतसहस्रशः।।

शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः।
इष्ट्वाऽनेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च।।

एकादशाहैरयजं सदक्षिणै-
र्द्विर्द्वादशाहैरश्वमेधैश्च देव।
गवां धनैः षोडशभिश्च ब्रह्मं-
स्तेषां फलेनेह न चागतोऽस्मि।।

निष्कैककण्ठमददं योजनायतं
तद्विस्तीर्णं काञ्चनपादपानाम्।
वनं चूतानां रत्नविभूषितानां
नचैव तेषामागतोऽहं फलेन।।

तुरायणं हि व्रतमप्यधृष्य-
मक्रोधनोऽकरवं त्रिंशदब्दान्।
शतं गवामष्टशतानि चैव
दिनेदिने ह्यददं ब्राह्मणेभ्यः।।

पयस्विनीनामथ रोहिणीनां
तथैवान्याननडुहो लोकनाथ।
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश
नेहागतस्तेन फलेन चाहम्।।

`शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं यजन्।
त्रिंशदग्नीनहं ब्रह्मन्नयजं यच्च नित्यदा।
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः।।

दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः।
न चैव तेषां देवेश फलेनाहमिहागमम्।।

सरय्वां बाहुदायां च गङ्गायामथ नैमिषे।
गवां शतानामयुतमददं न च तेन वै।।

इन्द्रेण गुह्यं निहितं वै गुहायां
यद्भार्गवस्तपसेहाभ्यविन्दत्।
जाज्वल्यमानमुशनस्तेजसेह
तत्साधयामासमहं वरेण्य।।

`ब्राह्मणार्थाय कर्माणि रणं चैव करोमि यत्।'
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते।
`पूजितैर्ब्राह्मणैर्नित्यं न च तेनाहमागतः।।'

सहस्रमृषयश्चासन्ये वै तत्र समागताः।
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो।।

प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो।
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा।।

कामं यथावद्विहितं विधात्रा
पृष्टेन वाच्यं तु मया यथावत्।
तपो हि नान्यच्चानशनान्मतं मे
नमोस्तु ते देववर प्रसीद।।

भीष्म उवाच।

इत्युक्तवन्तं ब्रह्मि तु राजानं स भगीरथम्।
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा।।

तस्मादनशनैर्युक्तो विप्रान्पूज्य नित्यदा।
विप्राणां वचनात्सर्वं परत्रेहं च सिध्यति।।

वासोभिरन्नैर्गोभिस्च शुभैर्नैवेशिकैरपि।
शुभैः सुरक्षणैश्चापि स्तोष्या एव द्विजास्तथा।
एतदेव परं गुह्यमलोभेन समाचर।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षष्ट्यधिकशततमोऽध्यायः।। 160 ।।