अनुशासनपर्व
अध्यायः १५७
युधिष्ठिर उवाच।
कथं वै स विपन्नश्च कथं वै पातितो भुवि।
कथं देवेन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति।।
भीष्म उवाच।
एवं तयोः संवदतोः क्रियास्तस्य महात्मनः।
सर्वा एव प्रवर्तन्ते या दिव्या याश्च मानुषाः।।
तथैव दीपदानानि सर्वोपकरणानि वै।
बलिकर्म च यच्चान्यद्वत्सकाश्च पृथग्विधाः।।
सर्वास्तस्य समुत्पन्ना देवेन्द्रस्य महात्मनः।
देवलोके नृलोके च सदाचारपुरस्कृताः।।
ताश्चोद्भवन्ति राजेन्द्र समृद्ध्यै गृहमेधिनः।
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च।।
यथा सिद्धस्य चान्नस्य गृह्य चाग्रं प्रदीयते।
बलयश्च गृहोद्देशे ततः प्रीयन्ति देवताः।।
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणि।
तथा शतगुणा प्रीतिर्देवतानां प्रजायते।।
एवं धूपप्रदानं च दीपदानं च साधवः।
प्रयच्छति नमस्कारैर्युक्तमात्मगुणावहम्।।
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता।
नमस्कारप्रयुक्तेन तेन प्रीणन्ति देवताः।।
पितरश्च महाभागा ऋषयश्च तपोधनाः।
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनाऽर्चिताः।।
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः।
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम्।।
कस्य चित्त्वथ कालस्य भाग्यक्षय उपस्थिते।
सर्वमेतदवज्ञाय न चकार यथाविधि।।
ततः स परिहीणोऽभूत्सुरेन्द्रो बलदर्पतः।
धूपदीपादिकविधिं न यथावच्चकार ह।
ततोऽस्य यज्ञविषयो रक्षोभिः परिबाध्यते।।
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह।
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः।।
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत्।
निमीलयस्व नयने जटां यावद्विशामि ते।
`सुरेन्द्रपतनायेति स च नेत्र न्यमीलयत्।।'
ततोऽगस्त्यस्याथ जटां दृष्ट्वा प्राविशदच्युतः।
भृगुः स सुमहातेजाः पातनाय नृपस्य च।।
ततः स देवराट् प्राप्तस्तमृषिं वाहनाय वै।
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशाम्पते।
योजयस्वेति मां क्षिप्रं कं च देशं वहामि ते।।
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप।
इत्युक्तो नरहुषस्तेन योजयामास तं मुनिम्।।
भृगुस्तस्य जटान्तस्थो बभूव हृषितो भृशम्।
न चापि दर्शनं तस्य चकार स भृगुस्तदा।
वरदानप्रभावज्ञो नहुषस्य महात्मनः।।
न चुकोप तदाऽगस्त्यो युक्तोऽपि नहुषेण वै।
तं तु राजा पदैकेन चोदयामास भारत।
`श्रुतिः स्मृतिः प्रमाणं वा नेतिवादेन देवराट्।।'
न चुकोप स धर्मात्मा ततः पादेन देवराट्।
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः।।
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः।
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम्।।
यस्मात्पदाऽवधीः क्रोधाच्छिरसीमं महामुनिम्।
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते।।
शप्तोऽथ स तदा तेन सर्पो भूत्वा पपात ह।
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ।।
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते।
स शक्तोनाऽभविष्यद्वै पातने तस्य तेजसा।।
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा।
पतितोऽपि महाराज भूतले स्मृतिमानभूत्।।
प्रसादयामास भृगुं शापान्तो मे भवेदिति।
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम्।
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः।।
भृगुरुवाच।
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः।
स त्वां मोक्षयिता शापादित्युक्त्वाऽन्तरधीयत।।
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः।
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः।।
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः।
जगाम ब्रह्मभवनं पश्यतस्ते जनाधिप।।
तदा स पातयित्वा तं नहुषं भूतले भृगुः।
जगाम ब्रह्मभवनं ब्रह्मणे च न्यवेदयत्।।
ततः शक्रं समानाय्य देवानाह पितामहः।
वरदानान्मम सुरा नहुषो राज्यमाप्तवान्।
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः।।
न च शक्यं विना राज्ञा सुखं वर्तयितुं क्वचित्।
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम्।।
एवं सम्भाषमाणं तु देवाः पार्थ पितामहम्।
एवमस्त्विति संहृष्टाः प्रत्यूचुस्तं नराधिप।।
सोऽभिषिक्तो भगवता देवराज्ये च वासवः।
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत।।
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात्।
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः।।
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः।
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपस्य दायकः।
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत।।
यावदक्षिनिमेषाणि ज्वलन्ते तावतीः समाः।
रूपवान्बलवांश्चापि नरो भवति दीपदः।।
य इदं शृणुयाद्वापि पठते यो द्विजोत्तमः।
ब्रह्मलोकमवाप्नोति स च वै नात्र संशयः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः।। 157 ।।