अनुशासनपर्व

अध्यायः १५८

Anusasana Parva (Sanskrit) · Adhyaya 158
अक्षर का आकार

युधिष्ठिर उवाच।

ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ।
नृशंसकारिणो योनिं कां ते गच्छन्ति मानवाः।।

भीष्य उवाच।

पातकानां परं ह्येतद्ब्रह्मस्वहरणं बलात्।
सान्वयास्ते विनश्यन्ति चण्डालाः प्रेत्य चेह च।।

अत्राप्युदाहरन्तीममितिहासं पुरातनमम्।
चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत।।

राजोवाच।

वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे।
श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम्।।

साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते।
कस्माद्गोरजसा ध्वस्तमङ्गं तोयेन सिञ्चसि।।

चण्डाल उवाच।

ब्राह्मणस्य गवां राजन्प्रयान्तीनां रजः पुरा।
सोममुद्ध्वंसयामास तं सोममपिबन्द्विजाः।।

भृत्यानामपि राज्ञस्तु रजसा ध्वंसितं मखे।
तत्पानाच्च द्विजाः सर्वे क्षिप्रं नरकमाविशन्।।

दीक्षितश्च स राजाऽपि क्षिप्रं नरकमाविशत्।
सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत्।।

येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः।
ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन्।।

जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधूय तान्।
पशूनवेक्षमाणश्च साधुवृत्तेन दंपती।।

अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः।
तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप

चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं नृप।
ब्रह्मस्वहारी न नृपः सोऽप्रतिष्ठां गतिं ययौ।।

तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन।
न पश्येन्नानुमोदेच्च न हर्तुं किञ्चिदाहरेत्।।

ब्रह्मस्वं रजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम्।
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता।।

एतद्धि धनमुत्कृष्टं द्विजानामविशेषतः।
विक्रयं त्विह सोमस्य गर्हयन्ति मनीषिणः।।

ये चैनं क्रीणते तात ये च विक्रीणते जनाः।
ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः।।

सोमं तु रजसा ध्वस्तं विक्रीणन्विधिपूर्वकम्।
श्रोत्रियो वार्धुषी भूत्वा नचिरं स विनश्यति।।

नरकं त्रिंशतं प्राप्य स्वविष्ठामुपजीवति।
ब्रह्मस्वहारी नरकान्यातनाश्चानुभूय तु।
मलेषु च कृमिर्भूत्वा श्वविष्ठामुपजीवती।।

श्वचर्यामतिमानं च सखिदारेषु विप्लवम्।
तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते।।

म्लानं मां विकलं पश्य विवर्णं हरिणं कृशम्।
अतिमानेनि मां पश्य पापां गतिमुपागतम्।।

अहं वै विपुले तात कुले दनसमन्विते।
पौराणे जन्मनि विभो ज्ञानविज्ञानपारगः।।

अभवं तत्र जानानो ह्येतान्दोषान्मदात्सदा।
संरब्ध एव भूतानां पृष्ठमांसमभक्षयम्।।

सोऽहं वै विदितः सर्वैर्दूरगो वनिनो वने।
साधूनां परिभावेप्सुर्विप्राणां गर्वितो धनैः।
इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम्।।

आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम्।
धावमानं सुसंरब्दं फश्य मां रजसाऽन्वितम्।।

स्वाध्यायैस्तु महात्पापं हरन्ति गृहमेधिनः।
दानैः पृथग्विधैश्चापि विप्रजात्यां मनीषिणः।।

तथा पापकृतं विप्रमाश्रमस्तं महीपते।
सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत।।

अहं हि पापयोन्यां वै प्रसूतः क्षत्रियर्षभ।
निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत।।

जातिस्मरत्वं च मम केनचित्पूर्वकर्मणा।
शुभने येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप।।

त्वमिमं सम्प्रपन्नाय संशयं ब्रूहि पृच्छते।
चण्डालत्वात्कथमहं मुच्येयमिति सत्तम।।

राजोवाच।

चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि।
ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि।।

दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम्।
हित्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि।।

भीष्म उवाच।

इत्युक्तः स तदा तेन ब्रह्मस्वार्थे परन्तप।
हित्वा रणमुखे प्राणान्गतिमिष्टामवाप ह।।

तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ।
यदीच्छसि महाबाहो शाश्वतीं गतिमात्मनः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः।। 158 ।।