अनुशासनपर्व
अध्यायः १५६
युधिष्ठिर उवाच।
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम्।
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि।।
धूपप्रदानस्य फलं प्रदीपस्य तथैव च।
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नहुषस्य च संवादमगस्त्यस्य भृगोस्तता।।
नहुषो हि महाराज राजर्षिः सुमहातपाः।
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा।।
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन्।
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः।।
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः।
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः।।
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा।
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च।।
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः।
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः।।
देवानभ्यर्चयच्चापि विधिवत्स सुरेश्वरः।
सर्वानेव यथान्यायं यथापूर्वमरिंदम।।
अथेनद्रोऽहमिति ज्ञात्वा अहङ्कारं समाविशत्।
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपतेः।।
सप्तर्षीन्वाहयामास वरदानदमान्वितः।
परिहीनक्रियश्चैव दुर्बलत्वमुपेयिवान्।।
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान्।
अहङ्काराभिभूतस्य सुमहानत्यवर्तत।।
अथ पर्यायशः सर्वान्वाहनायोपचक्रमे।
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत।।
अथागत्य महातेजा भृगुर्ब्रह्मविदांवरः।
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत्।।
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः।
नहुषस्य किमर्थं वै मर्षयाम महामुने।।
अगस्त्य उवाच।
कथमेष मया शक्यः शप्तुं यस्य महामुने।
वरदेन वरो दत्तो भवतो विदितश्च सः।।
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति।
इत्यनेन वरं देवो याचितो गच्छता दिवम्।।
एवं न दग्धः स मया भवता च न संशयः।
अन्येनाप्यृषिमुख्येन न दग्धो न च पातितः।।
अमृतं चैव पानाय दत्तमस्मै पुरा विभो।
महात्मना तदर्तं च नास्माभिर्विनिपात्यते।।
प्रायच्छत वरं देवः प्रजानां दुःखकारणम्।
द्विजेष्वधर्मयुक्तानि स करोति नराधमः।।
तत्र यत्प्राप्तकालं नस्तद्ब्रू वदतांवर।
भवांश्चापि यथा ब्रूयात्तत्कर्तास्मि न संशयः।।
भृगुरुवाच।
पितामहनियोगेन भवन्तं सोऽहमागतः।
प्रतिकर्तुं बलवति नहुषे दर्पमोहिते।।
अद्य हि त्वां सुदुर्बुद्धी रथे योक्ष्यति देवराट्।
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा।।
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम्।
सञ्चाल्य पापकर्माणमैन्द्रात्स्थानात्सुदुर्मतिम्।
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति।
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः।।
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम्।
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम्।।
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम्।
धरण्यां पातयिष्यामि पश्यतस्ते महामुने।।
नहुषं पापकर्माणमैश्वर्यबलमोहितम्।
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने।।
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः।
अगस्त्यः परमप्रीतो बभूव विगतज्वरः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः।। 156 ।।