अनुशासनपर्व

अध्यायः १५५

Anusasana Parva (Sanskrit) · Adhyaya 155
अक्षर का आकार

युधिष्ठिर उवाच।

आलोकदानं नामैतत्कीदृशं भरतर्षभ।
कथमेतत्समुत्पन्नं फलं वा तद्ब्रवीहि मे।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत।।

तपस्वी कश्चिदभवत्सुवर्णो नाम भारत।
वर्णतो हेमवर्णः स सुवर्ण इति विश्रुतः।।

कुलशीलगुणोपेतः स्वाध्यायोपरमं गतः।
बहून्सुवंशप्रभवान्समतीतः स्वकैर्गुणैः।।

स कदाचिन्मनुं विप्रो ददर्शोपससर्प च।
कुशलप्रश्नमन्योन्यं तौ चोभौ तत्र चक्रतुः।।

ततस्तौ सत्यसंकल्पौ मेरौ काञ्चनपर्वते।
देवर्षिभिः सदा जुष्टे सहितौ संन्यषीदताम्।।

तत्र तौ कथयन्तौ स्तां कथा नानाविधाश्रयाः।
ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम्।।

सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रति।
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि।।

सुमनोगन्धधूपाद्यैरिज्यन्ते दैवतानि च।
किमेतत्कथमुत्पन्नं फलं योगं च शंस मे।।

मनुरुवाच।

बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः।
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः।।

तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः।
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः।।

कथेयमभवत्तत्र त्वया या परिकीर्तिता।
सुमनोधूपदीपानां सम्प्रदाने फलं प्रति।।

ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम्।।

सुमनोधूपदीपानां किं फलं ब्रह्मिवित्तम।
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति।।

शुक्र उवाच।

अग्नीषोमादिसृष्टौ तु विष्णोः सर्वात्मनः प्रभोः।
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम्।।

एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च।
सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले।
अमृतं च विषं चैव याश्चान्यास्तृणजातयः।।

अमृतं मनसः प्रीतिं सद्यस्तृप्तिं ददाति च।
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः।।

अमृतं मङ्गलं विद्धि महद्विषममङ्गलम्।
ओषध्यो ह्यमृतं सर्वा विषं तेजोग्निसम्भवम्।।

अमृतं मनो ह्लादयते श्रियं चापि ददाति च।
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः।।

देवताभ्यः सुमनसो यो ददाति नरः शुचिः।
तस्मै सुमनसो देवास्तस्मात्सुमनसः स्मृताः।।

यंयमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो।
मङ्गलार्तं स तेनास्य प्रीतो भवति दैत्यप।।

ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक्।
ओषध्यो बहुवीर्या हि बहुरूपास्तथैव च।।

यज्ञियानां च वृक्षाणामयज्ञीयान्निबोध मे।
आसुराणि च माल्यानि दैवतेभ्यो हितानि च।।

रक्षसामुरगाणां च यक्षाणां च तथा प्रियाः।
मनुष्याणां पितॄणां च कान्ता यास्त्वनुपूर्वशः।।

वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः।
अकण्टकाः कण्टकिनो गन्धरूपरसान्विताः।।

द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः।
इष्टगन्धानि देवानां पुष्पाणीति विभावय।।

अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः।
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो।।

`पद्मं च तुलसी जातिरापः सर्वेषु पूजिता।'
जलजानि च माल्यानि पद्मादीनि च यानि वै।
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः।।

ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः।
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः।।

तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः।
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत्।।

मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः।
चारुररूपाः सुमनसो मानुपाणां स्मृता विभो।।

न तु श्मशानसम्भूता न देवायतनोद्भवाः।
सन्नयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च।।

गिरिसानुरुहाः सौम्या देवानामुपधारयेत्।
प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति।।

गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः।
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः।।

सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत।
सङ्कल्पसिद्धा मर्त्यानामीप्सिताश्च मनोरथाः।।

देवाः प्रीणन्ति सततं मानिता मानयन्ति च।
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान्।।

अत ऊर्ध्वं प्रवक्ष्यामि धूपदानविधेः फलम्।
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे।।

निर्यासाः सरलाश्चैव कृत्रिमाश्चैव ते त्रयः।
इष्टोऽनिष्टो भवेद्गन्धस्तन्मे विस्तरशः शृणु।।

निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते।
गुग्गुलुः प्रवरस्तेषां सर्वेपामिति निश्चयः।।

अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम्।
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः।।

अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः।
फाणितासवसंयुक्तैर्मनुष्याणां विधीयते।।

देवदानवभूतानां सद्यस्तुष्ठिकरः स्मृतः।
येऽन्ये वैहारिकास्तत्र मानुषाणामिति स्मृताः।।

य एवोक्ताः सुमनसां प्रदाने गुणहेतवः।
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः।।

दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम्।
यथा येन यदा चैव प्रदेया यादृशाश्च ते।।

ज्योतिस्तेजः प्रकाशं वाऽप्यूध्वगं चापि वर्धते।
प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम्।।

अन्धतमस्तमिस्रं च दक्षिणायनमेव च।
उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते।।

यस्मादूर्ध्वगमे तत्तु तमसश्चैव भेषजम्।
तस्मादूर्ध्वगतेर्दाता भवेदत्रेति निश्चयः।।

देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः।
तामसा राक्षसाश्चैव तस्माद्दीपः प्रदीयते।।

आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः।
तान्दत्त्वा नोपहिंसेन न हरेन्नोपनाशयेत्।।

दीपहार्ता भवेदन्धस्तमोगतिरसुप्रभः।
दीपप्रदः स्वर्गलोके दीपमाली विराजते।।

हविपा प्रथमः कल्पो द्वितीयश्चौषधीरसैः।
वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता।।

देवालये सभायां च गिरौ चैत्यचतुष्पथे।
दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः।।

कुलोद्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति।
ज्योतिषां चैव सालोक्यं दीपदाता भवेन्नरः।।

बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान्।
देवयक्षोरगनृणां भूतानामथ रक्षसाम्।।

येषां नाग्रभुजो विप्रा देवतातिथिबालकाः।
राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान्।।

तस्मादग्रं प्रयच्छेत देवभ्यः प्रतिपूजितम्।
शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः।।

गृह्णन्ति देवता नित्यमाशंसन्ति सदा गृहान्।
बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः।।

इतो दत्तेन जीवन्ति देवताः पितरस्तथा।
ते प्रीताः प्रीणयन्त्येनमायुषा यशसा धनैः।।

बलयः सह पुष्पैस्तु देवानामुपहारयेत्।
दधिदुग्धमयाः पुण्याः सुगन्धाः प्रियदर्शनाः।।

कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम्।
सुरासवपुरस्कारा लाजोल्लापिकभूषिताः।।

नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः।
तिलान्गुडसुसम्पन्नान्भूतानामुपहारयेत्।।

अग्रदाताऽग्रभोगी स्याद्बलवीर्यसमन्वितः।
तस्मादग्रं प्रयच्छेत देवभ्यः प्रतिपूजितम्।।

ज्वलन्त्यहरहो वेश्म याश्चास्य गृहदेवताः।
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना।।

इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः।
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च।।

नारदोऽपि मयि प्राह गुणानेतान्महाद्युते।
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः।। 155 ।।