अनुशासनपर्व
अध्यायः १५४
`युधिष्ठिर उवाच।
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ।
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव।।
भीष्म उवाच।
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप।
वासुदेवस्य संवादं पृथिव्याश्चैव भारत।।
संस्तुत्य पृथिवीं देवीं वासुदेवः प्रतापवान्।
पप्रच्छ भरतश्रेष्ठ मां त्वं यत्पृच्छसेऽद्य वै।।
वासुदेव उवाच।
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा।
किमवश्यं धरे कार्यं किं वा कृत्वा सुखं भवेत्।।
पृथिव्युवाच।
ऋषयः पितरो देवा मनुष्याश्चैव माधव।
पूज्याश्चैवार्चनीयाश्च यथा चैव निबोध मे।।
सदा यज्ञेन देवांश्च सदाऽऽतिथ्येन मानुषान्।
छन्दतस्तर्पणेनापि पितॄन्युञ्जन्ति नित्यशः।।
तेन ह्यृषिगणाः प्रीता ब्रह्मचयेणि चानघ।
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च।।
कुर्यात्तथैव देवान्वै प्रियं मे मधुसूदन।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च।।
पयोमूलफलैर्वाऽपि पितॄणां प्रीतिमावहेत्।
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि।।
आग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम्।
प्रजानां पतये चैव पृथग्घोमो विधीयते।।
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत्।
दक्षिणायां यमायेति प्रतीच्यां वरुणाय च।।
सोमाय चाप्युदीच्यां वै वास्तुमध्ये प्रजापतेः।
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव।।
मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै।
मरुद्भ्यो दैवतेभ्यश्च बलिमन्तर्गृहे हरेत्।।
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं यथा हरेत्।।
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजाय वै।
अलाभे ब्राह्मणस्याग्नावग्रमुद्धृत्य निक्षिपेत्।।
यदा श्राद्धं पितृभ्योपि दातुमिच्छेत मानवः।
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि।।
पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः।
वेश्वदैवं ततः कुर्यात्पश्चाद्ब्राह्म्णभोजनम्।।
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि।
अर्घ्यपूर्वं महाराज ततः प्रीणाति मानवान्।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते।।
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः।
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत्।।
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते।
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत्।।
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च।
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान्।।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि।।
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते।।
एतांस्तु धर्मान्गार्हस्थ्यान्यः कुर्यादनसूयकः।
स इहर्द्धिं परां प्राप्य प्रेत्य लोके महीयते।।
भीष्म उवाच।
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान्।
तथा चकार सततं त्वमप्येवं सदाऽऽचर।।
एतद्गृहस्थधर्मं त्वं चेष्टमानो जनाधिप।
इह लोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुःपञ्चाशददिकशततमोऽध्यायः।। 154 ।।