अनुशासनपर्व
अध्यायः १५३
`युधिष्ठिर उवाच।
केषां देवा महाभागाः सन्नमन्ते महात्मनाम्।
लोकेऽस्मिंस्तनृषीन्सर्वञ्श्रोतुमिच्छामि सत्तम।।
भीष्म उवाच।
इतिहासमिमं विप्राः कीर्तयन्ति पुराविदः।
अस्मिन्नर्थे महाप्राज्ञास्तं निबोध युधिष्ठिर।।
वृत्रं हत्वाऽप्युपावृत्तं त्रिदशानां पुरस्कृतम्।
महेन्द्रमनुसम्प्राप्तं स्तूयमानं महर्षिभिः।।
श्रिया परमया युक्तं रथस्थं हरिवाहनम्।
मातलिः प्राञ्जलिर्भूत्वा देवमिन्द्रमुघाच ह।।
नमस्कृतानां सर्वेषां भगवंस्त्वं पुरस्कृतः।
येषां लोके नमस्कुर्यात्तान्ब्रवीतु भवान्मम।।
तस्य तद्वचनं श्रुत्वा देवराजः शचीपतिः।
यन्तारं परिपृच्छन्तं तमिन्द्रः प्रत्युवाच सः।।
धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः।
नाधर्मे वर्तते नित्यं तान्नमस्यामि मातले।।
ये रूपगुणसम्पन्नाः प्रमदाहृदयंगमाः।
निवृत्ताः कामभोगेषु तान्नमस्यामि मातले।।
स्वेषु भोगेषु सन्तुष्टाः सुवाचो वचनक्षमाः।
अमानकामाश्चार्घार्हास्तान्नमस्यामि मातले।।
धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम्।
चलितां ये निगृह्णन्ति तान्नित्यं पूजयाम्यहम्।।
इष्टैर्दारैरुपेतानां शुचीनामग्निहोत्रिणाम्।
चतुष्पादकुटुम्बानां मातिले प्रणमाम्यहम्।।
महतस्तपसा प्राप्तौ धनस्य विपुलस्य च।
कत्यागस्तस्य न वै कार्यो योऽऽत्मानं नावबुध्यते।।
येषामर्थस्तथा कामो धर्ममूलविवर्धितः।
धर्मार्थौ तस्य नियतौ तान्नमस्यामि मातले।।
धर्ममूलार्थकामानां ब्राह्मणानां गवामपि।।
पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम्।।
ये भुक्त्वा मानुषान्भोगान्पूर्वे वयसि मातले।
तपसा स्वर्गमायान्ति शश्वत्तान्पूजयाम्यहम्।।
असंभोगान्नचासक्तान्धर्मनित्याञ्जितेन्द्रियान्।
संन्यस्तानचलप्रख्यान्मनसा पूजयामि तान्।।
ज्ञानप्रसन्नविद्यानां निरूढं धर्ममीप्सितम्।
परैः कीर्तितशौचानां मातले तान्नमाम्यहम्'।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः।। 153 ।।