अनुशासनपर्व

अध्यायः १५२

Anusasana Parva (Sanskrit) · Adhyaya 152
अक्षर का आकार

`पराशर उवाच।

एवं स भिक्षुर्निर्वाणं प्राप्नुयाद्दग्धकिल्बिषः।
इहस्थो देहमुत्सृज्य नीडं शकुनिवद्यथा।।

सत्पथालम्बनादेव शूद्रः प्राप्नोति सद्गतिम्।
ब्रह्मणः स्थानमचलं स्थानात्स्थानमवाप्नुयात्।।

यथा खनन्खनित्रेण जाङ्गले वारि विन्दति।
अनिर्वेदात्ततः स्थानमीप्सितं प्रतिपद्यते।।

सैषा गतिरनाद्यन्ता सर्वैरप्युपधारिता।
तस्माच्छूद्रैरनिर्वेदाच्छ्रद्दधानैस्तु नित्यदा।
वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः।

यत्करोति तदश्नाति शुभं वा यदि वाऽशुभम्।
नाकृतं भुज्यते कर्म न कृतं नश्यते फलम्।।

तथा शुभसमाचारः शुभमेवाप्नुते फलम्।
तथाऽशुभसमाचारो ह्यशुभं समवाप्नुते।
शुभान्येव समादद्याद्य इच्छेद्भूतिमात्मनः।।

भूतिश्च नान्यतः शक्त्या शूद्राणामिति निश्चयः।
क्रते यतीनां शुश्रूषामिति सन्तो व्यवस्थिताः।।

तस्मादागमसम्पन्नो भवेत्सुनियतेन्द्रियः।
शक्यते ह्यागमादेव गतिं प्राप्तुमनामयाम्।।

वरा चैषा गतिर्दृष्टा यामन्वेपन्ति साधवः।
यत्रामृतत्वं लभते त्यक्त्वा दुःखमनन्तरम्।।

इमं हि धर्मिमास्थाय येऽपि स्युः पापयोनयः।
स्त्रियो वैश्याश्च शूद्राश्च प्राप्नुयुः परमां गतिम्।
किं पुनर्ब्राह्मणो विद्वान्क्षत्रियो वा बहुश्रुतः।।

न चाप्यक्षीणपापस्य ज्ञानं भवति देहिनः।
ज्ञानोपलब्धिर्भवति कृतकृत्यो यदा भवेत्।।

उपलभ्य तु विज्ञानं ज्ञानं वाऽप्यनसूयकः।
तथैव वर्तेद्गुरुषु भूयांसं वा समाहितः।।

अथावमन्येत गुरुं तथा तेषु प्रवर्तते।
व्यर्थमस्य श्रुतं भवति ज्ञानमज्ञानतां व्रजेत्।।

गतिं चाप्यशुभां गच्छेन्निरयाय न संशयः।
प्रक्षीयते तस्य पुण्यं ज्ञानमस्य विरुध्यते।।

अदृष्टपूर्वकल्याणो यथा दृष्ट्वा विधिं नरः।
उत्सेकान्मोहमापद्य तत्वज्ञानमवाप्तवान्।।

एवमेवि हि नोत्सेकः कर्तव्यो ज्ञानसम्भवः।
फलं ज्ञानस्य हि शमः प्रशामाय यतेत्सदा।।

उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा।
शुश्रूषा प्रतिपत्तव्या नित्यमेवानसूयता।।

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा।
इन्द्रियार्थांश्च मनसा मनो बुद्धौ समादधेत्।।

धृत्याऽऽसीत ततो गत्वा शुद्धदेशं सुसंवृतम्।
लब्धासनं यथा दृष्टं विधिपूर्वं समाचरेत्।।

ज्ञानयुक्तस्तथा देवं हृदिस्थमुपलक्षयेत्।
आदीप्यमानं वपुषा विधूममनलं यथा।।

रश्मिमन्तमिवादित्यं वैद्युताग्निमिवाम्बरे।
संस्थितं हृदये पश्येदीशं शाश्वतमव्ययम्।।

न चायुक्तेन शक्येत द्रष्टुं देहे महेश्वरः।
युक्तस्तु पश्यते बुद्ध्या सन्निवेश्य मनो हृदि।।

अथ त्वेवं न शक्नोति कर्तुं हृदयधारणम्।
यथासांख्यमुपासीत यथावद्योगमास्थितः।।

पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाणि वै।
पञ्च भूतविशेषाश्च मनश्चैव तु षोडश।।

तन्मात्राण्यपबि पञ्चैव मनोऽहङ्कार एव च।
अष्टमं चाप्यथाव्यक्तमेताः प्रकृतिसंज्ञिताः।
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश।।

एवमेतदिहस्थेन विज्ञेयं तत्वबुद्धिना।
एवं वर्ष्म समुत्तीर्य तीर्णो भवति नान्यथा।।

परिसंख्यानमेवैतन्मन्तव्यं ज्ञानबुद्धिना।।

अहन्यहनि शान्तात्मा पावनाय हिताय च।
एवमेव प्रसंख्याय तत्वबुद्धिर्विमुच्यते।
निष्पलं केवलं भवति शुद्धतत्वार्थतत्ववित्।।

भिक्षुकाश्रममास्थाय शुश्रूषानिरतो बुधः।
शूद्रो निर्मुच्यते सत्वसंसर्गादेव नान्यथा।।

सत्संनिक्रषे परिवर्तितव्यं
विद्याधिकाश्चापि निषेवितव्याः।
सवर्णतां गच्छति सन्निकर्षा-
न्नीलः खगो मेरुमिवाश्रयन्वै।।

भीष्म उवाच।

इत्येवमाख्याय महामुनिस्तदा
चतुर्षु वर्णेषु विधानमर्थवित्।
शुश्रूषया वृत्तगतिं समाधिना
समाधियुक्तः प्रययौ स्वमाश्रमम्।।'

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः।। 152 ।।