अनुशासनपर्व
अध्यायः १५१
`पराशर उवाच।
ततः श्रुतिसमापन्नः संस्कृश्च यथाविधि।
चौलोपनयनं तस्य यथावत्क्रियते द्विजैः।।
ततोऽष्टमे स वर्षे तु व्रतोपनयनादिभिः।
क्रियाभिर्विधिदृष्टाभिर्ब्रह्मत्वमुपनीयते।।
गायत्रेण छन्दसा तु संस्कृतश्चरितव्रतः।
अधीयमानो मेधावी शुद्धात्मा नियतव्रतः।।
अचिरेणैव कालेन साङ्गान्वेदानवाप्नुते।
समावृत्तः स धर्मात्मा समावृत्तिक्रियस्तथा।।
याजनाध्यापनरतः कुशले कर्मणि स्थितः।
अग्निहोइत्रपरो नित्यं देवतातिथिपूजकः।।
यजते विविधैर्यज्ञैर्जपयज्ञैस्तथैव च।
न्यायागतधनान्वेषी न्यायवृत्तस्तपोधनः।।
सर्वभूतहितश्चैव सर्वशास्त्रविशारदः।
स्वदारपरितुष्टात्मा क्रतुगामी जितेन्द्रियः।।
परापवादविरतः सत्यव्रतपरः सदा।
स कालपरिणामात्तु संयुतः कालधर्मणा।।
संस्कृतश्चाग्निहोत्रेण यथावद्विधिपूर्वकम्।
सोमलोकमवाप्नोति देहन्यासान्न संशयः।।
तत्र सोमप्रभैर्देवैरग्निष्वात्तैश्च भास्वरैः।
तथा बर्हिषदैश्चैव देवैराङ्गिरसैरपि।।
विश्वेभिश्चैव देवैश्च तथा ब्रह्मर्षिभिः पुनः।
देवर्षिभिश्चाप्रतिमैस्तथैवाप्सरसां गणैः।
साध्यैः सिद्धैश्च सततं सत्कृतस्तत्र मोदते।।
जातरूपमयं दिव्यमर्कतुल्यं मनोजवम्।
देवगन्धर्वसंकीर्णं विमानमधिरोहति।।
सौम्यरूपा मनःकान्तास्तप्तकाञ्चनभूषणाः।
सोमकन्या विमानस्थं रमयन्ति मुदान्विताः।।
स तत्र रमते प्रीतः सह देवैः सहर्षिभिः।
लोकान्सर्वाननुचरन्दीप्ततेजा मनोजवः।।
सभां कामजवीं चापि नित्यमेवाभिगच्छति।
सर्वलोकेश्वरमृषिं नमस्कृत्य पितामहम्।।
परमेष्ठिरनन्तश्रीर्लोकानां प्रभवाप्ययः।
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
स तत्र वर्तते श्रीमान्द्विशतं द्विजसत्तम।।
अथ कालक्षयात्तस्मात्स्थानादावर्तते पुनः।
जातिधर्मांस्तथा सर्वान्सर्गादावर्तनानि च।।
अशाश्वतमिदं सवेमिति चिन्त्योपलभ्य च।
शाश्वतं दिव्यमचलमदीनमपनर्भवम्।।
आस्थास्यत्यभयं नित्यं यत्रावृत्तिर्न विद्यते।
यत्रि गत्वा न म्रियते जन्म चापि न विद्यते।।
गर्भक्लेशामयाः प्राप्ता जायता च पुनः पुनः।
कायक्लेशाश्च विविधा द्वन्द्वानि विविधानि च।।
शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च।
तत्रतत्रोपभुक्तानि न क्वचिच्छाश्वती स्थितिः।।
एवं स निश्चयं कृत्वा निर्मुच्यि ग्रहबन्धनात्।
छित्त्वा भार्यामयं पाशं तथैवापत्यसम्भवम्।।
यतिधर्ममुपाश्रित्यि गुरुशुश्रूषणे रतः।
अचिरेणैव कालेन श्रेयः समभिगच्छति।।
योगशास्त्रं च साङ्ख्यं च विदित्वा सोऽर्थतत्वतः।
अनुज्ञातश्च गुरुणा यथाशास्त्रमवस्थितः।।
पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः।
शून्यागारनिकेतश्च वनवृक्षगुहाशयः।।
अरण्यानुचरो नित्यं देवारण्यनिकेतनः।
एकरात्रं द्विरात्रं वा न क्वचित्सज्जते द्विजः।।
शीर्णपर्णभुगेवापि वने चरति भिक्षुकः।
न भोगार्थमनुप्रेत्य यात्रामात्रं समश्नुते।।
धर्मलब्धं समश्नाति न कामात्किञ्चिदश्नुते।
युगमात्रदृगध्वानं क्रोशादूर्ध्वं न गच्छति।।
समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः।
सर्वभूताभयकरस्तथैवाभयदक्षिणः।।
निर्द्वन्द्वो निर्नमस्कारो निरानन्दपरिग्रहः।
निर्ममो निरहङ्कारः सर्वभूतनिराश्रयः।।
परिसङ्ख्यानतत्वज्ञस्तदा सत्यरतः सदा।
ऊर्ध्वं नाधो न तिर्यक्च न किञ्चिदभिकामयेत्।।
एवं हि रममाणस्तु यतिधर्मं यथाविधि।
कालस्य परिणामात्तु यथा पक्वफलं तथा।।
स विसृज्य स्वकं देहं प्रविशेद्ब्रह्म शाश्वतम्।
निरामयमनाद्यन्तं गुणसौम्यमचेतनम्।।
निरक्षरमबीजं च निरिन्द्रियमजं तथा।
अजय्यमक्षयं यत्तदभेद्यं सूक्ष्ममेव च।।
निर्गुणं च प्रकृतिमन्निर्विकारं च सर्वशः।
भूतभव्यभविष्यस्य कालस्य परमेश्वरम्।
अव्यक्तं पुरुषं क्षेत्रमानन्त्याय प्रपद्यते।।'।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः।। 151 ।।