अनुशासनपर्व

अध्यायः १५०

Anusasana Parva (Sanskrit) · Adhyaya 150
अक्षर का आकार

`पराशर उवाच।

शुश्रूषानिरतो नित्यमरिष्टान्युपलक्षयेत्।
त्रैवार्षिकं द्विवार्षिकं वा वार्षिकं वा समुत्थितम्।।

षाण्मासिकं मासिकं वा साप्तरात्रिकमेव वा।
सर्वांस्तदर्थान्वा विद्यात्तेषां चिह्नानि लभयेत्।।

पुरुषं हिरण्मयं यस्तु तिष्ठन्तं दक्षिणामुखम्।
लक्षयेदुत्तरेणैव मृत्युस्त्रैवार्षिको भवेत्।।

शुद्धमण्डलमादित्यमरश्मिं सम्प्रपश्यतः।
संवत्सरद्वयेनैव तस्य मत्युं समादिशेत्।।

ज्योत्स्नायामात्मनश्छायां सच्छिद्रां यः प्रपश्यति।
मृत्युं संवत्सरेणैव जानीयात्सुविचक्षणः।।

विशिरस्कां यदा छायां पश्येत्पुरुष आत्मनः।
जानीयादात्मनो मृत्युं षाण्मासेनेह बुद्धिमान्।।

कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुते यदि।
जानीयादात्मनो मृत्युं मासेनैव विचक्षणः।।

शवगन्धमुपाघ्राति अन्यद्वा सुरभिं नरः।
देवतायतनस्थो वै सप्तरात्रेण मृत्युभाक्।।

कर्णनासापनयनं दन्यदृष्टिविरागता।
लुप्तसंज्ञं हि करणं सद्यो मृत्युं समादिशेत्।।

एवमेषामरिष्टानां पश्येदन्यतमं यदि।
न तं कालं परीक्षेत यथाऽरिष्टं प्रकल्पितम्।।

अभ्यासेन तु कालस्य गच्छेत पुलिनं शुचि।
तत्र प्राणान्प्रमुञ्चेत तमीशानमनुस्मरन्।।

ततोऽन्यदेहमासाद्य गान्धर्वं स्थानमाप्नुयात्।
तत्रस्थो वसते विंशत्पद्मानि सुहहाद्युतिः।।

गन्धर्वैश्चित्रसेनाद्यैः सहितः सत्कृतस्तथा।
नीलवैडूर्यवर्णेन विमानेनावभासयन्।।

नभस्थलमदीनात्मा सार्धमप्सरसां गणैः।
छन्दकामानुसारी च तत्रतत्र महीयते।।

मोदतेऽमरतुल्यात्मा सदाऽमरगणैः सह।
पतितश्च क्षये काले क्षणेन विमलद्युतिः।।

वैश्यस्य बहुवित्तस्य कुलेऽग्र्ये बहुगोधने।
अवाप्य तत्र वै जन्म स पूतो देवकर्मणा।।

छन्दसा जागतेनैव प्राप्तोपनयनं ततः।
क्षौमवस्त्रोपकरणं द्विजत्वं समवाप्य तु।।

अधीयमानो वेदार्थान्गुरुशुश्रूषणे रतः।
ब्रह्मचारी जितक्रोधस्तपस्वी जायते ततः।।

अधीत्य दक्षिणां दत्त्वा गुरवे विधिपूर्वकम्।
कृतदारः समुपैति गृहस्थव्रतमुत्तमम्।।

ददाति यजते चैव चज्ञैर्विपुलदक्षिणैः।
अग्निहोत्रमुपासन्वै जुह्वच्चैव यथाविधिः।।

धर्मं सञ्चिनुते नित्यं मृदुगामी जितेन्द्रियः।
स कालपरिणामात्तु मृत्युना सम्प्रयुज्यते।।

संस्कृतश्चाग्निहोत्रेण कृतपात्रोपधानवान्।
संस्कृतो देहमुत्सृज्य मरुद्भिरुपपद्यते।।

मरुद्भिः सहितश्चापि तुल्यतेजा महाद्युतिः।
बालार्कसमवर्णेन विमानेन विराजता।।

सुखं चरति तत्रस्तो गन्थर्वाप्सरसां गणैः।
विरजोम्बरसंवीतस्तप्तकाञ्चनभूषणः।।

छन्दकामानुसारी च द्विगुणं कालमावसेत्।
सन्निवर्तेत कालेन स्थानादस्मात्परिच्युतः।।

अवितृप्तविहारार्थो दिव्यभोगान्विहाय तु।
सञ्जायते नृपकुले गजाश्वरथसंकुले।।

पार्थिवीं श्रियमापन्नः श्रीमान्धर्मपतिर्यथा।
जन्मप्रभृति संस्कारं चौलोपनयनानि च।।

प्राप्य राजकुले तत्र यथावद्विधिपूर्वकम्।
छ्दसा त्रैष्टुभेनेह द्विजत्वमुपनीयते।।

अधीत्य वेदमखिलं धनुर्वेदं च मुख्यशः।
समावृत्तस्ततः पित्रा यौवराज्येऽभिषिच्यते।।

कृतदारक्रियः श्रीमान्राज्यं सम्प्राप्य धर्मतः।
प्रजाः पालयते सम्यक् षड्भागकृतसंविधिः।।

यज्ञैर्बहुभिरीजानः सम्यगाप्तार्थदक्षिणैः।
प्रशासति महीं श्रीमान्राज्यमिन्द्रसमुद्युतिः।।

स्वधर्मनिरतो नित्यं पुत्रपौत्रसहायवान्।
कालस्य वशमापन्नः प्राणांस्त्यजति संयुगे।।

देवराजस्य भवनमिन्द्रलोकमवाप्नुते।
सम्पूज्यमानस्त्रिदिवैर्विचचार यथासुखम्।।

राजर्षिभिः पुण्यकृद्भिर्यथा देवपतिस्तथा।
तैः स्तूयते बन्दिभिस्तु नानावाद्यैः प्रबोध्यते।।

दिव्यजाम्बूनदमयं भ्राजमानं समन्ततः।
वराप्सरोभिः सम्पूर्णं देवगन्धर्वसेवितम्।।

यानमारुह्य विचरेद्यथा शक्रः शचीपतिः।
स तत्र वसते षष्टिं पद्मानीह मुदान्वितः।।

सर्वाँल्लोकाननुचरन्महर्द्धिरवभासयन्।
अथ पुण्यक्षयात्तस्मात्स्थाप्यते भुवि भारत।
जायते च द्विजकुले वेदवेदाङ्गपारगे।।'

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चाशदधिकशततमोऽध्यायः।। 150 ।।