अनुशासनपर्व
अध्यायः १४९
`पराशर उवाच।
एवं प्रयतितव्यं हि शुश्रूषार्थमतन्द्रितैः।
सर्वाभिरूपसेवाभिस्तुष्यन्ति यतयो यथा।।
नापराध्येत भिक्षोस्तु न चैनमवधीरयेत्।
उत्तरं च न सन्दद्यात्क्रुद्धं चैव प्रसादयेत्।।
श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत्।
तूष्णींभावेन वै तत्र न क्रुद्धमभिसंवदेत्।।
नाददीत परस्वानि न गृह्णीयादयाचितम्।
लब्धालब्धेन जीवेत तथैव परितोषयेत्।।
कोपिनं तु न याचेत ज्ञानविद्वेषकारितः।
स्थावरेषु दयां कुर्याज्जङ्गमेषु चु प्राणिषु।।
यथाऽऽत्मनि तथाऽन्येषु समां दृष्टिं निपातयेत्।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
सम्पश्यमानो विचरन्ब्रह्मभूयाय कल्पते।।
हिंसा वा यदि वाऽहिंसां न कुर्यादात्मकारणात्।
यत्रेतरो भवेन्नित्यं दोषं तत्र न कारयेत्।।
एवं स मुच्यते दोषात्परानाश्रित्य वर्तयन्।
आत्माश्रयेण दोषेण लिप्यते ह्यल्पबुद्धिमान्।।
जरायुजाण्डजाश्चैव उद्भिज्जाः स्वेदजाश्व ये।
अवध्याः सर्व एतैते बुधैः समनुवर्णिताः।।
निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते।
हिंसा यथाऽन्या विहिता तथा दोष प्रयोजयेत्।
तथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम्।।
न हि लोभः प्रभवति हिंसा वाऽपि तदात्मिका।
शास्त्रदर्शनमेतद्धि विहितं विश्वयोनिना।।
यद्येतदेवं मन्येत शूद्रो ह्यपि च बुद्धिमान्।
कृतं कृतवतां गच्छेत्किं पुनर्यो निषेवते।।
न शूद्रः पतते कश्चिन्न च संस्कारमर्हति।
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम्।।
अनुग्रहार्तं मनुना सर्ववर्णेषु वर्णितम्।
यदापवादस्तु भवेत्स्त्रीकृतः परिचारके।
अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम्।
तेन तस्य भवेच्छान्तिस्ततो भूयोप्युपाव्रजेत्।।
सवर्णाया भवेदेतद्धीनायास्त्वर्धमर्हति।
वर्षत्रयं तु वैश्यायाः क्षत्रियायास्तु षट् समाः।
ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः।
कटाग्निना वा दग्धव्यस्तस्मिन्नेव क्षणे भवेत्।
शिश्नावपातनाद्वाऽपि विशुद्धिं समवाप्नुयात्।।
अनस्थिबन्धमेकं तु यदि प्राणैर्वियोजयेत्।
उपोष्यैकाहमादद्यात्प्राणायामांस्तु द्वादश।।
त्रिः स्नानमुदके कृत्वा तस्मात्पापात्प्रमुच्यते।
अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते।।
अनेन विधिना वाऽपि स्थावरेषु न संशयः।
कायेन पद्भ्यां हस्ताभ्यामपराधात्तु मुच्यते।।
अदुष्टं क्षपयेद्यस्तु सर्ववर्णेषु यश्चरेत्।
तस्याप्यष्टगुणं विद्यात्प्रायश्चित्तं तदेव तु।।
चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते।
कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम्।।
तस्मादेतानि सर्वाणि विदित्वा न समाचरेत्।
सर्वभूतहितार्थं हि कुशलानि समाचरेत्।।
एवं समाहितमनाः सेवते यदि यत्तमान्।
तद्गतिस्तत्समाचारस्तन्मनास्तत्परायणः।।
नाभिनन्देत मरणं नाभिनन्देत जीवितम्।
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा।।
एवं प्रवर्तमानस्तु विनीतः प्रयतात्मवान्।
निर्णयं पुण्यपापाभ्यामचिरेणोपगच्छति'।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः।। 149 ।।