अनुशासनपर्व
अध्यायः १४६
*युधिष्ठिर उवाच।
शूद्राणामिह शुश्रूषा नित्यमेवानुवर्णिता।
कैः कारणैः कतिविधा शुश्रूषा समुदाहृता।।
के च शुश्रूषया लोका विहिता भरतर्षभ।
शुद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम्।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शूद्राणामनुकम्पार्थं यदुक्तं ब्रह्मवादिना।।
वृद्धः पराशरः प्राह धर्मं शुभ्रमनामयम्।
अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम्।।
धर्मोपदेशमकिलं यथावदनुपूर्वशः।
शिष्यानध्यापयामास शास्त्रमर्थवदर्थवित्।।
क्षान्तेन्द्रियेण मानेन शुचिनाऽचापलेन वै।
अदुर्बलेन धीरेण शान्तेनोत्तरवादिना।।
अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना।
चारित्रतत्परेणैव सर्वभूतहितात्मना।।
अरयः षड्विजेतव्या नित्यं स्वं देहमाश्रिताः।
कामक्रोधौ च लोभश्च मानमोहौ मदस्तथा।।
विधिना धृतिमास्थाय शुश्रूषुरनहंकृतः।
वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम्।।
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम्।
आस्थाय नियमं धीमाञ्शान्तो दान्तो जितेन्द्रियः।।
रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः।
वर्णत्रयान्मधु यथा भ्रमरो धर्ममाचरेत्।।
यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मणा।।
इह चास्य परिक्लेशः प्रेत्य चास्यासुभागतिः।।
अधर्म्यमयशस्यं च तपः शूद्रे प्रतिष्ठितम्।
अमार्गेण तपस्तप्त्वा म्लेच्छेषु फलमश्नुते।।
अन्यथा वर्तमानो हि न शूद्रो धर्ममर्हति।
अमार्गेणि प्रयातानां प्रत्यक्षादुपलभ्यते।
चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः।।
तथा ते हि शकाश्चीनाः काम्भोजाः पारदास्तथा।
शबराः पप्लवाश्चैव तुषारयवनास्तथा।।
दार्वाश्च दरदाश्चैव उज्जिहानास्तथेतराः।
वेणाश्च कङ्कणाश्चैव सिम्हला मद्रकास्तथा।।
किष्किन्धकाः पुलिन्दाश्च कह्वाश्चान्ध्राः सनीरगाः।
गन्धिका द्रमिडाश्चैव बर्बराश्चूचुकास्तथा।।
किराताः पार्वतेयाश्च कोलाश्चोलाः सकाषकाः।
आरूकाश्चैव दोहाश्च याश्चान्याम्लेच्छजातयः।।
विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः।
अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः।।
अमार्गोपार्जितस्यैतत्तपसो विदितं फलम्।
न नश्यति कृतं कर्म शुभं वा यदि वाऽशुभम्।।
अत्राप्येते वसु प्राप्य विकर्म तपसार्जितम्।
पाषण्डानर्चयिष्यन्ति धर्मकामा वृथा श्रमाः।।
एवं चतुर्णां वर्णानामाश्रमाणां च पार्थिव।
विपरीतं वर्तमाना म्लेच्छा जायन्त्यबुद्धयः।।
अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम्।
वणिक्कृषिश्च वैश्यानां शूद्राणां परिचारिका।।
व्युच्छेदात्तस्य धर्मस्य निरयायोपपद्यते।
ततो म्लेच्छा भवन्त्येते निर्घृणा धर्मवर्जिताः।
पुनश्च निरयं तेषां तिर्यग्योनिश्च शाश्वती।।
ये तु सत्यथमास्थाय वर्णाश्रमकृतं पुरा।
सर्वान्विमार्गानुत्सृज्य स्वधर्मविधिमाश्रिताः।।
सर्वभूतदयावन्तो दैवतद्विजपूजकाः।
शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः।।
तेषां विधिं प्रवक्ष्यामि यथावदनुपूर्वशः।
उपादानविधइं कृत्स्नं शुश्रूषाधिगमं तथा।।
शिष्टोपनयनं चैव मन्त्राणि विविधानि च।
तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात्।।
प्रवक्ष्यामि यथातत्वं यथावदनुपूर्वशः।
शौचकृत्यस्य शौचार्थान्सर्वानेव विशेषतः।।
महाशौचप्रभृतयो दृष्टास्तत्वार्थदर्शिभिः।
तत्रापि शूद्रो भिक्षूणामिदं शेष च कल्पयेत्।।
भिक्षुभिः सुकृतप्रज्ञैः केवलं दर्ममाश्रितैः।
सम्यद्गर्शनसम्पन्नैर्गताध्वनि हितार्थिभिः।
अवकाशमिमं मेध्यं निर्मितं तामवीरुधम्।।
निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः।
सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम्।।
परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः।
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः।।
अन्तर्हितायां भूमौ तु अन्तर्हितशिरास्तथा।
असमाप्ते तथा शौचे न वाचं किञ्चिदीरयेत्।।
कृतकृत्यस्तथाऽऽचम्य गच्छन्नोदीरयेद्वचः।
शौचार्थमुपविष्टस्तु मृद्गाजनपुरस्कृतः।।
स्थाप्यं कमण्डलुं गृह्यि पार्श्वोरुभ्यामथान्तरे।
शौचं कुर्याच्छनैर्वीरो बुद्धिपूर्वमसङ्करम्।।
पाणिना शुद्धमुदकं सङ्गृह्य विधिपूर्वकम्।
विप्रुषश्च यता न स्युर्यथा चोरू न संस्पृशेत्।।
अपाने मृत्तिकास्तिस्रः प्रदेयास्त्वनुपूर्वशः।
हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत्
अपाने नव देयाः स्युरिति वृद्धानुशासनम्।
मृत्तिका दीयमाना हि शोधयेद्देशमञ्जसा।।
तस्मात्पाणितले देया मृत्तिकास्तु पुनः पुनः।
बृद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत्स्फिजौ।।
यथा घातो हि न भवेत्क्लेदजः परिधानके।
तथा गुदं प्रमार्जेत शौचार्थं तु पुनःपुनः।।
प्रतिपादं ततस्त्यक्त्वा शौचमुत्थाय कारयेत्।
सव्ये द्वादश देयाः स्युस्तिस्रस्तिस्रः पुनः पुनः।
देया कूर्परके हस्ते पृष्ठे बन्धे पुनः पनः।
तथैवादर्शके दद्याच्चतस्रस्तूभयोरपि।
उभयोर्हस्तयोरेवं सप्तसप्त प्रदापयेत्।।
ततोऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस्तयोः।
हस्तयोरेवमेतद्धि महाशौच विधीयते।
ततोऽन्यथा न कुर्वीत विधिरेष सनातनः।।
उपस्थे मूत्रशौचं स्यादत ऊर्ध्वं विधीयते।
अतोऽन्यथा तु यः सुर्यात्प्रायश्चित्तीयते तु सः।।
मलोपहतचेलस्य द्विगुणं तु विधीयते।
सहपादमथोरुभ्यां हस्तशौचमसंशयम्।।
अवधीरयमाणस्य सन्देह उपजायते।
यथायथा विशुद्ध्येत तत्तथा तदुपक्रमे।।
सकर्दमं तु वर्षासु गृहमाविश्य सङ्कटम्।
हस्तयोर्मृत्तिकास्तिस्रः पादयोः षट् प्रदापयेत्।।
कामं दत्त्वा गुदे दद्यात्तिस्रः पद्भ्यां तथैव च।
हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस्तथा।।
मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः।
नैष्ठिके स्थानशौचे तु महाशौचं विधीयते।।
क्षारौषराभ्यां वस्त्रस्य कुर्याच्छौचं मृदा सह।
लेपगन्धापनयनममेध्यस्य विधीयते।।
स्नानशाट्यां मृदस्तिस्रो हस्ताभ्यां चानुपूर्वशः।
शौचं प्रयत्नतः कृत्वा कम्पमानः समुद्धरेत्।।
देयाश्चतस्रस्तिस्रो वा द्वे वाऽप्येकां तथाऽऽपदि।
कालमासाद्य देशं च शौचस्य गुरुलाघवम्।।
विधिनाऽनेन शौचं तु नित्यं कुर्यादतन्द्रितः।
अविप्रेक्षन्नसम्भ्रान्तः पादौ प्रक्षाल्य तत्परः।।
अप्रक्षालितपादस्तु पाणिमामणिबन्धनात्।
अधस्तादुपरिष्टाच्च ततः पाणिमुपस्पृशेत्।।
मनोगतास्तु निश्शब्दा निश्शब्दं त्रिरपः पिबेत्।
द्विर्मुखं परिमृज्याच्च खानि चोपस्पृशेद्बुधः।।
ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेदपः।
द्वितीयं तु यजुर्वेदं तृतीयं साम एव च।।
मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात्।
द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः।।
यच्चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत्।
प्रीणाति वायुं घ्राणं च दिशश्चाप्यथ श्रोत्रयोः।।
ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समापयेत्।
समुत्क्षिपति चापोर्ध्वमाकाशं तेन प्रीणयेत्।।
प्रीणाति विष्णुः पद्भ्यां तु सलिलं वै समादधत्।।
प्राङ्मुखोदङ्मुखो वाऽपि अन्तर्जानुरुपस्पृशेत्।
सर्वत्र विधिरित्येष भोजनादिषु नित्यशः।।
अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनराचमेत्।
विधिरेष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम्।।
शूद्रस्यैव विधिर्दृष्टो गृहान्निष्क्रमतस्ततः।
नित्यं त्वलुप्तशौचेन वर्तितव्यं कृतात्मना।
यशस्कामेन भिक्षुभ्यः शुद्रेणात्महितार्थिना'।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः।।