अनुशासनपर्व

अध्यायः १४७

Anusasana Parva (Sanskrit) · Adhyaya 147
अक्षर का आकार

`पुराशर उवाच।

क्षत्रा आरम्भयज्ञास्तु वीर्ययज्ञा विशः स्मृताः।
शूद्रा परिचरायज्ञा जपयज्ञास्तु ब्राह्मणाः।।

शुश्रूषाजीविनः शूद्रा वैश्या विपणिजीविनः।
अनिष्टनिग्रहः क्षत्रा विप्राः स्वाध्यायजीविनः।।

तपसा शोभते विप्रो राजन्यः पालनादिभिः।
आतिथ्येन तथा वैश्यः शूद्रो दास्येन शोभते।।

यतात्मना तु शूद्रेण शुश्रूषा नित्यमेव च।
कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु।।

अशक्तेन त्रिवर्गस्य सेव्या ह्याश्रमवासिनः।
यथाशक्यं यथाप्रज्ञं यथाधर्मं यथाश्रुतम्।।

विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे।।

आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम्।
प्रधानमिति वर्ण्यन्ते शिष्टाः शास्त्रविनिश्चये।।

यच्चोपदिश्यते शिष्टैः श्रुतिस्मृतिविधानतः।
तथाऽऽस्थेयमशक्तेन स धर्म इति निश्चितः।।

अतोऽन्यथा तु कुर्वाणः श्रेयो नाप्नोति मानवः।
तस्माद्भिक्षुषु शूद्रेण कार्यमात्महितं सदा।।

इह यत्कुरुते श्रेयस्तत्प्रेत्य समुपाश्नुते।
तच्चानसूयता कार्यं कर्तव्यं यद्धि मन्यते।।

असूयता तु तस्येह फलं दुःखादवाप्यते।
प्रियवादी जितक्रोधो वीततन्द्रीरमत्सरः।।

क्षमावाञ्शीलसम्पन्नः सत्यधर्मपरायणः।
आपद्भावेन कुर्याद्धि शुश्रूषां भिक्षुकाश्रमे।।

अयं मे परमो धर्मस्त्वनेनेदं सुदुष्करम्।
संसारसागरं घोरं तरिष्यामि न संशयः।।

विभयो देहमुत्सृज्य यास्यामि परमां गतिम्।
नातः परं ममाप्यन्य एष धर्मः सनातनः।।

एवं सञ्चिन्त्य मनसा शूद्रो बुद्धिसमाधिना।
कुर्यादविमना नित्यं शुश्रूषाधर्ममुत्तमम्।।

शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा।
शमान्वितेन दान्तेन कार्याकार्यविदा सदा।।

सर्वकार्येषु कृत्यानि कृतान्येव तु दुर्शयेत्।
यथा प्रियो भवेद्भिक्षुस्तथा कार्यं प्रसाधयेत्।।

यदकल्प्यं भवेद्भिक्षोर्न तत्कार्यं समाचरेत्।
यथाऽऽश्रमस्याविरुद्धं धर्ममात्राभिसंहितम्।।

तत्कार्यमविचारेण नित्यमेव शुभार्थिना।
मनसा कर्ममा वाचा नित्यमेव प्रसादयेत्।।

स्थातव्यं तिष्ठमानेषु गच्छमानाननुव्रजेत्।
आसीनेष्वासितव्यं च नित्यमेवानुवर्तता।।

धर्मलब्धेन स्नेहेन पादौ सम्पीडयेत्सदा।
उद्वर्तनादींश्च तथा कुर्यादप्रतिचोदितः।।

नैजकार्याणि कृत्वा तु नित्यं चैवानुचोदितः।
यथाविधिरुपस्पृश्य संन्यस्य जलभाजनम्।।

भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम्।
ब्रह्मपूर्वान्गुरूंस्तत्र प्रणम्यि नियतेन्द्रियः।।

तथाऽऽचार्यपुरोगाणामनुकुर्यान्नमस्क्रियाम्।
स्वधर्मचारिणां चापि सुखं पृष्ट्वाऽभिवाद्य च।।

यो भवेत्पूर्वसंसिद्धस्तुल्यकर्मा भवेत्सदा।
तस्मै प्रणामः कर्तव्यो नेतरेषु कदाचन।।

अनुक्त्वा तेषु चोत्थाय नित्यमेव यतव्रतः।
सम्मार्जनमथो गत्वा कृत्वा चाप्युपलेपनम्।।

ततः पुष्पबलिं दद्यापुष्पाण्यादाय धर्मतः।
निष्क्रम्यावसथात्तूर्णमन्यत्कर्म समाचरेत्।।

यथोपघातो न भवेत्स्वाध्यायेऽऽश्रमिणां तथा।
उपघातं तु कुर्वाण एनसा सम्प्रयुज्यते।
तथाऽऽत्मा प्रणिधातव्यो यथा ते प्रीतिमाप्नुयुः।।

परिचारकोऽहं वर्णानां त्रयाणां धर्मतः स्मृतः।
किमुताश्रमवृद्धानां यथालब्धोपजीविनाम्।।

भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनम्।
विशेषेण मया कार्या शुश्रूषा नियतात्मना।।

तेषां प्रसादात्तपसा प्राप्स्यामीष्टां शुभां गतिम्।
एवमेतद्विनिश्चित्य यदि सेवेत भिक्षुकान्।
विधिना स्वोपदिष्टेन प्राप्नोति परमां गतिम्।।'

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः।। 147 ।।