अनुशासनपर्व
अध्यायः १४५
युधिष्ठिर उवाच।
एवं प्रयाचति तदा भास्करे मुनिसत्तमः।
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत।।
भीष्म उवाच।
स तथा याचमानस्य मुनिरग्निसमप्रभः।
जमदग्निः शमं नैव जगाम कुरुनन्दन।।
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्।
कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशाम्पते।।
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः।
कतं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम्।।
जमदग्निरुवाच।
स्थिरं चापि चलं चापि जाने त्वां ज्ञानचक्षुषा।
अवस्यं विनयाधानं कार्यमद्य मया तव।।
मध्याह्ने वै निमेषार्धं तिष्टसि त्वं दिवाकर।
तत्र भेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा।।
सूर्य उवाच।
असंशयं मां विप्रर्षे भेत्स्यसे धन्विनांवर।
अपकारिणं मां विद्दि भगवञ्शरणागतम्।।
भीष्म उवाच।
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम्।
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि।।
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले।
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च।।
दीप्तिमग्नेः प्रभां मेरोः प्रतापं धनदस्य च।
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम्।।
भवेत्स गुरुतल्पी च ब्रह्मिहा च स वै भवेत्।
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम्।।
एतस्य त्वपनीतस्य समाधिं तात चिन्तय।
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः।।
भीष्म उवाच।
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः।
अथ सूर्योऽददत्तस्मै छत्रोपानहमाशु वै।।
सूर्य उवाच।
महर्षे शिरसस्त्राणां छत्रं मद्रश्मिवारणम्।
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके।
अद्यप्रभृति चैवेह लोके सम्प्रचरिष्यति।
पुण्यकेषु च सर्वेषु परमक्षय्यमेव च।।
भीष्म उवाच।
उपानहौ च च्छत्रं च सूर्येणैतत्प्रवर्तितम्।
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत।।
तस्मात्प्रयच्छ विप्रेषु छत्रोपानहमुत्तमम्।
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा।।
छत्रं हि भरतश्रेष्ठः यः प्रदद्याद्द्विजातये।
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते।।
स शक्रलोके वसति पूज्यमानो द्विजातिभिः।
अप्सरोभिश्च सततं देवैश्च भरतर्षभ।।
उपानहौ च यो दद्याच्छ्लक्ष्णौ स्नेहसमन्वितौ।
स्नातकाय महाबाहो संशिताय द्विजातये।।
सोपि लोकानवाप्नोति देवतैरभिपूजितान्।
गोलोके स मुदा युक्तो वसति प्रेत्य भारत।।
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्।
छत्रोपानहदानस्य फलं भरतसत्तम।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः।। 145 ।।