अनुशासनपर्व
अध्यायः १४४
युधिष्ठिर उवाच।
यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ।
छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम्।।
कथं चैतत्समुत्पन्नं किमर्थं चैव दीयते।
न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते।।
बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते।
एतद्विस्तरतो ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः।।
भीष्म उवाच।
शृणु राजन्नवहितश्छत्रोपानहविस्तरम्।
यथैतत्प्रथितं लोके यथा चैतत्प्रवर्तितम्।।
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथागतम्।
सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप।।
`इतिहासं पुरावृत्तमिदं शृणु नराधिप।'
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः।।
पुरा स भगवान्साक्षाद्धनुषा क्रीडति प्रभो।
सन्धायसन्धाय शरांश्चिक्षेप किल भार्गवः।।
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः।
आनीय सा तदा तस्मै प्रादादसकृदच्युत।।
अथ तेन स शब्देनि ज्यायाश्चैव शरस्य च।
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान्।।
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे।
स सायकान्द्विजो मुक्त्वा रेणुकामिदमब्रवीत्।।
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान्।
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप।।
सा गच्छन्त्यन्तरा छायां वृक्षमाश्रित्य भामिनी।
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च।।
स्थिता सा तु मूहूर्तं वै भर्तुः शापभयाच्छुभा।
ययावानयितुं भूयः सायकानसितेक्षणा।
प्रत्याजगाम च शरांस्तानादाय यशस्विनी।।
सा वै प्रस्विन्नसर्वाङ्गी पद्भ्यां दुःखं नियच्छती।
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती।।
स तामृषिस्तदा क्रुद्धो वाक्यमाह शुभाननाम्।
रेणुके किं चिरेण त्वमागतेति पुनःपुनः।।
रेणुकोवाच।
शिरस्तप्तं प्रदीप्तौ मे पादौ चैव तपोधन।
सूर्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता।।
एतस्मात्कारणाद्ब्रह्मंश्चिरायैतत्कृतं मया।
एतच्छ्रुत्वा मम विभो मा क्रुधस्त्वं पतोधन।।
जमदग्निरुवाच।
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम्।
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा।।
भीष्म उवाच।
स विष्फार्य धनुर्दिव्यं गृहीत्वा च शरान्बहूंन्।
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः।।
अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य वचोऽब्रवीत्।
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यति।।
आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः।
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः।।
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते।।
अथाऽभ्रेषु निगूढश्च रश्मिभिः परिवारितः।
सप्तद्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति।।
ततस्तदौषधीनां च वीरुधां पुष्पपत्रजम्।
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो।।
जातकर्माणि सर्वाणि व्रतोपनयनानि च।
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः।।
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः।
अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव।।
रमणीयानि यावन्ति यावदारम्भिकाणि च।
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते।।
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया।
प्रसादये त्वां विप्रर्षे किं ते सूर्यो निपात्यते।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः।। 144 ।।