अनुशासनपर्व
अध्यायः १३८
युधिष्ठिर उवाच।
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम्।
भृग्वङ्गिरसिके काले मुनिना कतरेण वा।।
`येन सङ्कल्पितं चैव तन्मे ब्रूहि पितामह।
कानि श्राद्धेषु वर्ज्यानि कानि मूलफलानि च।
धान्यजात्यश्च का वर्ज्यास्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले सदात्मकम्।
येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप।।
स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्।
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः।।
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः।
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः।।
पूर्णो वर्षसहस्रान्ते स कृत्वा दुष्करं तपः।
कालधर्मपरीतात्मा निधनं समुपागतः।।
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा।
सन्तापमगमत्तीप्रं पुत्रशोकपरायणः।।
अथ कृत्वोपकार्याणि चतुर्दश्यां महामतिः।
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत।।
तस्यासीत्प्रतिबुद्धस्य शोकेन व्यथितात्मनः।
मनः संहृत्य विषये बुद्धिर्विस्तारगामिनी।।
ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः।
यानि तस्यैव भोज्यानि मूलानि च फलानि च।।
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह।
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः।।
अमावास्यां महाप्राज्ञो विप्रानानाय्य पूजितान्।
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत्।।
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत्।
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः।।
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः।
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते।।
कृत्वा च दक्षिणाग्नान्वै दर्भान्स प्रयतः शुचिः।
प्रददौ श्रीमते पिण्डान्नामगोत्रमुदाहरन्।।
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः।
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत्।।
अकृतं मुनिभिः पूर्वं किं मयेदमनुष्ठितम्।
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति।।
ततः सञ्चिन्तयामास वंशकर्तारमात्मनः।
`बुद्ध्वाऽत्रिं मनसा दध्यौ भगवन्तं समाहितः।
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः।।
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम्।
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः।।
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधन।
मतो मे पूर्वदृष्टोऽत्र धर्मोऽयं ब्रह्मणा स्वयम्।।
सोयं स्वयभुविहितो धर्मः सङ्कल्पितस्त्वया।
ऋते स्वयम्भुवः कोऽन्यः श्राद्धे संविधिमाहरेत्।।
अथाख्यास्यामि ते पुत्र श्राद्दे यं विधिमुत्तमम्।
स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे।।
कृत्वाऽग्निशरणं पूर्वं मन्त्रपूर्वं तपोधन।
ततोऽग्नयेऽथ सोमाय वरुणाय च नित्यशः।।
विश्वेदवाश्च यि नित्यं पितृभिः सह गोचराः।
तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा।।
स्तोतव्या चेह पृथिवी लोकस्यैव तु धारिणी।
वैष्णवी काश्यपि चेति तथैवेहाक्षयेति च।।
उदकानयने चैव स्तोतव्यो वरुणो विभुः।
ततोऽग्निश्चैव सोमश्च आराध्याविह तेऽनघ।।
देवास्तु पितरो नाम निर्मिता ये स्वयम्भुवा।
ऊष्मपा ये महाभागास्तेषां भागः प्रकल्पितः।।
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात्।
सप्तकाः पितृवंशास्तु पूर्वदृष्टाः स्वयंभुवा।।
विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते।
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम्।।
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा।
ग्राम्यः क्षेम्यः समूहश्च दिव्यसानुस्तथैव च।।
विवस्वान्वीर्यवाञ्श्रीमान्कीर्तिमान्कृत एव च।
जितात्मा मुनिवीर्यश्च दीप्तरोमा भयङ्करः।।
अनुकर्मा प्रतीतश्च प्रदाताऽप्यंशुमांस्तथा।
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा।।
स्रजो वज्रीवरी चैव विश्वेदेवाः सनातनाः।
विद्युद्वर्चाः सोमवर्चाः सूर्यश्रीश्चेति नामतः।।
सोमपः सूर्यसावित्रो दत्तात्मा पुण्डरीयकः।
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च।।
चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः।
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत्।।
गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा।
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च।।
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च।
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः।।
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा।
हिङ्गुद्रवेषु शाकेषु मूलानां लशुनं तथा।।
पलाण्डुः सौभाञ्जनकस्तथा गृञ्जनकादयः।
कूश्माण्डजात्यलाबुं च कृष्णं लवणमेव च।।
ग्राम्यवाराहमांसं च यच्चैवाप्रोक्षितं भवेत्।
कृष्णाजं जीरकं चैव शीतपाकी तथैव च।
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च।।
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च।
अवक्षुतावरुदितं तथा श्राद्धे च वर्जयेत्।
निवापे हव्यकव्ये वा गर्हितं च सुदर्शनम्।
पितरश्च हि देवाश्च नाभिनन्दन्ति तद्धविः।।
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते।
काषायवासाः कुष्ठी वा पतितो ब्रह्महाऽपि वा।।
सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः।
वर्जनीय बुधैरेते निवापे समुपस्थिते।।
इत्येवमुक्त्वा भगवान्स्ववंश्यं तमृषिं पुरा।
पितामहसभां दिव्या जगामात्रिस्तपोधनः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः।। 138 ।।