अनुशासनपर्व
अध्यायः १३९
भीष्म उवाच।
तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः।
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा।।
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत।
तर्पणं चापि कुर्वन्त तीर्थांभोभिर्यतव्रताः।।
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत।
तर्पिताः पितरो देवास्तत्रान्नं जरयन्ति वै।।
अजीर्णैस्त्वभिहन्यन्ते ते देवाः पितृभिः सह।।
सोममेवाभ्यपद्यन्त तदा ह्यन्नाभिपीडिताः।।
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः।
निवापान्नेन पीड्यामः श्रेयो नोत्र विधीयताम्।।
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः।
स्वयंभूसदनं यात स वः श्रेयोऽभिधास्यति।।
ते सोमवचनाद्देवाः पितृभिः सह भारत।
मेरुशृङ्गे समासीनं पितामहमुपागमन्।।
पितर ऊचुः।
निवापान्नेन भगवन्भृशं पीड्यामहे वयम्।
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम्।।
इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत्।
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति।
अग्निरुवाच।
सहितास्तस्य भोक्ष्यामो निवापे समुपस्थिते।
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः।।
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराऽभवन्।
एतस्मात्कारणाच्चाग्नेः प्राग्भागो दीयते नृप।।
निवापे चाग्निपूर्वं वै निवृत्ते पुरुषर्षभ।
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत।।
रक्षांसि नाभिवर्धन्ते स्थिते देवे हुताशने।
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे।।
प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः।
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः।
सोमायेति च वक्तव्यं तथा पितृमतेति च।।
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या।
निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजा।।
जलं प्रतरमाणस्च कीर्तयेत पितामहान्।
नदीमासाद्य कुर्वीत पितॄणां पितृतर्पणम्।।
पूर्वं स्ववंशजानां तु कृत्वा।?द्भिस्तर्पणं पुनः।
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम्।।
कल्माषगोयुगेनाथ युक्तेन तरतो जलम्।
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहिताः।।
सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः।
मासार्धे कृष्णपक्षस्य कुर्यान्निर्वपणानि वै।।
पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृभक्तितः।।
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा।
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः।
एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः।।
एते च पितरो राजन्नेष श्राद्धविधिः परः।
प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा।।
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्।
व्याख्याता पूर्वनिर्दिष्टा किं ते वक्ष्याम्यतः परम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः।। 139 ।।