अनुशासनपर्व

अध्यायः १३७

Anusasana Parva (Sanskrit) · Adhyaya 137
अक्षर का आकार

युधिष्ठिर उवाच।

कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह।
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि।।

भीष्म उवाच।

ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित्।
दैवे कर्मणि पित्र्ये तु न्यायमाहुः परीक्षणम्।।

देवताः पावयन्तीह दैवेनैवेह तेजसा।
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः।।

श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः।
कुलशीलवयोरूपैर्विद्ययाऽभिजनेन च।।

तेषामन्ये पङ्क्तिदूष्यास्तथाऽन्ये पङ्क्तिपावनाः।
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु।।

कितवो भ्रूणहा यक्ष्मीं पशुपालो निराकृतिः।
ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी।।

अगारदाही गरदः कुण्डाशी सोमविक्रयी।
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः।।

पित्रा विभजमानश्च यस्य चोपपतिर्गृहे।
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवती।।

पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः।
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च।।

श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च।
परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः।

कुशीलवो देवलको नक्षत्रैर्यश्च जीवती।।
ईदृशैर्ब्राह्मणैर्भुक्तमपाङ्क्तेयैर्युधिष्ठिर।

रक्षांसि गच्छते हव्यमित्याहुर्ब्रह्मवादिनः।।
श्राद्धं भुक्त्वा त्वधीयीत वृषलीतल्पगश्च यः।

पुरीषे तस्य ते मासं पितरस्तस्य शेरते।
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम्।।

नष्टं देवलके दत्तमप्रतिष्ठं च वार्धुषे।
यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत्।
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे।।

ये तु धर्मव्यपेतेषु चारित्रापगतेषु च।
हव्यं कव्यं प्रयच्छन्ति येषां तत्प्रेत्य नश्यति।।

ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः।
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चयः।।

एतानिमान्विजानीयादपाङ्क्तेयान्द्विजाधमान्।
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः।।

षष्टिं काणः शतं षण्डः श्वित्री यावत्प्रपश्यति।
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप।।

यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः।
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम्।।

असूयता च यदत्तं यच्च श्रद्धाविवर्जितम्।
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत्।।

श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन।
तस्मात्परिसृते दद्यात्तिलांश्चान्ववकीरयेत्।।

तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च।
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः।।

अपाङ्क्तो यावतः पाङ्क्तान्भुञ्जानाननुपश्यति।
तावत्फलाद्धंशयति दातारं तस्य बालिशम्।।

इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः।
हेतुतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान्।।

विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व एव हि।
सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः।।

पाङ्क्तेयांस्तु प्रवक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः।
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्।।

ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः।
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः।।

ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा।
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत।।

अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः।
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च सः।।

ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः।
मखेषु च समन्त्रेषु भन्त्यवभृथप्लुताः।।

अक्रोधना ह्यचपलाः क्षान्ताः दान्ता जितेन्द्रियाः।
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत्।।

एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः।
इमे परे महाभागा विज्ञेयाः पङ्क्तिपावनाः।।

यतयो मोक्षधर्मज्ञा योगिनश्चरितव्रताः।
`पञ्चरात्रविदो मुख्यास्तथा भागवताः परे।।

वैखानसाः कुलश्रेष्ठा वैदिकाचारचारिणः।'
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान्।।

ये च भाष्यविदः केचिद्ये च व्याकरणे रताः।
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च।।

अधीत्य च यथान्यायं विधिवत्तस्य कारिणः।
उपपन्नो गुरुकुले सत्यवादी सहस्रशः।।

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च।
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत।।

ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते।
क्रोशादर्धतृतीयाच्च पावयेदेक एव हि।
ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः।।

अनुत्विगनुपाध्यायः स चेदग्रासनं व्रजेत्।
ऋत्विग्भिरभ्यनुज्ञातः पङ्क्त्या हरति दुष्कृतम्।।

अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः।
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः।।

तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान्।
स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रतान्।।

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च।
न प्रीणन्ति पितॄन्देवान्स्वर्गं च न स गच्छति।।

यश्च श्राद्धे कुरुते सङ्गतानि
न देवयानेन पथा स याति।
स वै मुक्तः पिप्पलं बन्धनाद्वा
स्वर्गाल्लोकच्च्यवते श्राद्धमित्रः।।

तस्मान्मित्रं श्राद्धकृन्नाद्रियेत
दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि।
यन्मन्यते नैव शत्रुं न मित्रं
तं मध्यस्थं भोजयेद्धव्यकव्ये।।

यथोषरे बीजमुप्तं न रोहे-
न्नचावप्ता प्राप्नुयाद्बीजभागम्।
एवं श्राद्धं भुक्तमनर्हमाणै-
र्न चेह नामुत्र फलं ददाति।।

ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति।
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते।।

सम्भोजनी नाम पिशाचदक्षिणा
सा नैव देवान्न पितॄनुपैति।
इहैव सा भ्राम्यति हीनपुण्या
शालान्तरे गौरिव नष्टवत्सा।।

यथाऽग्नौ शान्ते घृतमाजुहोति
तन्नैव देवान्न पितॄनुपैति।
तथा दत्तं नर्तके गायके च
यां चानृते दक्षिणामावृणोति।।

उभौ हिनस्ति न भुनक्ति चैषा
या चानृते दक्षिणा दीयते वै।
आघातिनी गर्हितैषा पतन्ती
तेषां प्रेतान्पातयेद्देवयानात्।।

ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर।
निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः।।

स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च।
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत।।

कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत।
तत्र ये ब्राह्मणान्केचिन्न सीदन्ति हि ते नराः।।

ये तु निन्दन्ति जल्पेषु न ताञश्राद्धेषु भोजयत्।
ब्राह्मणा निन्दिता राजन्हन्युस्त्रैपुरुषं कुलम्।।

वैखानसानां वचनमृषीणां श्रूयते नृप।
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान्।।

प्रियो वा यदि वा द्वेष्यस्तेषां तु श्राद्धमावपेत्।।

यः सहस्रं सहस्राणां भोजयदेनृचो नरः।
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः।। 137 ।।