अनुशासनपर्व
अध्यायः १३४
युधिष्ठिर उवाच।
चातुर्वर्ण्यस्य धर्मात्मन्धर्माः प्रोक्ता यथा त्वया।
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव।।
वैशम्पायन उवाच।
युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा।
इमं श्राद्धविधिं कृत्स्नं वक्तुं समुपचक्रमे।।
भीष्म उवाच।
शृणुष्वावहितो राजञ्श्राद्धकर्मविधिं शुभम्।
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप।।
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्।
पिशाचकिन्नराणां च पूज्या वै पितरः सदा।।
पितॄन्पूज्यादितः पश्चाद्देवतास्तर्पयन्ति वै।
तस्मात्तान्सर्वयत्नेन पुरुषः पूजयेत्सदा।।
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते।
तस्माद्विशेषविधिना विधिः प्रथमकल्पितः।।
सर्वेष्वहःसु प्रीयन्ते कृते श्राद्धे पितामहाः।
`पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्।
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान्।।
पिण्डानां मासिकश्राद्धमन्वाहार्यं विदुर्बुधाः।
तदामिषेण कुर्वीत प्रयतः प्राञ्जलिः शुचिः।।'
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यांतिथ्यां दिने गुणान्।
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ।
तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे।।
पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः।
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः।।
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वाजिनः।
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे।।
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप।
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः।।
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप।
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात्।।
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु।
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः।।
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि।।
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते।
रजतं बहुवित्तं च सुवर्णं च मनोरमम्।।
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम्।।
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे।
युद्धभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं चतुर्दशीम्।।
अमावास्यां तु निवपन्सर्वकामानवाप्नुयात्।।
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्।
श्राद्धकर्मणि तिथ्यस्तु प्रशस्ता न तथेतराः।।
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः।। 134 ।।