अनुशासनपर्व

अध्यायः १३३

Anusasana Parva (Sanskrit) · Adhyaya 133
अक्षर का आकार

युधिष्ठिर उवाच।

उक्ताः पितामहेनेह सुवर्णस्य विधानतः।
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः।।

यत्तु कारणमुत्पत्तेः सुवर्णस्य प्रकीर्तितम्।
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे।।

उक्तं स दैवतानां हि अवध्य इति पार्थिव।
कथं तस्याभवन्मृत्युर्विस्तरेण प्रकीर्तय।।

एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह।
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे।।

भीष्म उवाच।

विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा।
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै।।

न देवतानां काचिद्धि समर्था जातवेदसः।
एता हि शक्तास्तं गर्भं सन्धारयितुमोजसा।।

षण्णां तासां ततः प्रीतः पावको गर्भधारणात्।
स्वेन तेजोविसर्गेण वीर्येण परमेण च।।

तास्तु षट् कृत्तिका गर्भं पुपुषुर्जातवेदसः।
षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो।।

ततस्ता वर्धमानस्य कुमारस्य महात्मनः।
तेजसाऽभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे।।

ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते।
समं गर्भं सुषुविरे कृतिकास्ता नरर्षभ।।

ततस्तं ष॰धिष्ठानं गर्भमेकत्वमागतम्।
पृथिवी प्रतिजग्राह कृत्तिकानां समीपतः।।

स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः।
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः।।

ददृशुः कृत्तिकास्तं तु बालमर्कसमद्युतिम्।
जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्तविस्रवैः।।

अभवत्कार्तिकेयः स त्रैलोक्ये सचराचरे।
स्कन्नत्वात्स्कन्दतां प्राप्तो गुहावासाद्गुहोऽभवत्।।

ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः।
रुद्रो धाता च विष्णुश्च यमः पूषाऽर्यमा भगः।।

अंशो मित्रश्च साध्याश्च वासवो वसवोऽश्विनौ।
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः।।

पृथग्भूतानि चान्यानि यानि देवगणानि वै।
आजग्मुस्तेऽद्भुतं द्रष्टुं कुमारं ज्वलनात्मजम्।।

ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा।
षडाननं कुमारं तु द्विषडक्षं द्विजप्रियम्।।

पीनांसं द्वादशभुजं पावकादित्यवर्चसम्।
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः।
लेभिरे परमं हर्षं मेनिरे चासुरं हतम्।।

ततो देवाः प्रियाण्यस्य सर्व एव समाहरन्।
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह।।

सुपर्णोऽस्य ददौ पुत्रं मयूरं चित्रबर्हिणम्।
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ।।

कुक्कुटं चाग्निसङ्काशं प्रददावरुणः स्वयम्।
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम्।।

गवां माता च गा देवी ददौ शतसहस्रशः।
छागमग्निर्गुणोपेतमिला पुष्पफलं बहु।।

सुधन्वा शकटं चैव रथं चाञ्चितकूबरम्।
वरुणो वारुणान्दिव्यान्सगजान्प्रददौ शुभान्।।

सिंहान्सुरेन्द्रो व्याघ्रांश्च द्विपानन्यांश्च दंष्ट्रिणः।
श्वापदांश्च बहून्घोराञ्शस्त्राणि विविधानि च।।

राक्षसासुरसङ्घाश्च अनुजग्मुस्तमीश्वरम्।।

वर्धमानवधोपायं प्रार्थयामास तारकः।
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम्।।

सैनापत्येन तं देवाः पूजयित्वा गुहालयम्।
शशंसुर्विप्रकारं तं तस्मै तारककारितम्।।

स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः।
जघानामोघया शक्त्या दानवं तारकं गुहः।।

तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे।
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः।।

स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान्।
ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च।।

हिरण्यमूर्तिर्भगवानेव एव च पावकिः।
सदा कुमारो देवानां सैनापत्यमवाप्तवान्।।

तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम्।
सहजं कार्तिकेयस्य वह्नेस्तेजः परं मतम्।।

एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा।
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप।।

रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः।
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः।।