अनुशासनपर्व
अध्यायः १३५
युधिष्ठिर उवाच।
किंस्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वरः।
किंस्विद्वहुफलं प्रोक्तं किमानन्त्याय कल्पते।।
भीष्म उवाच।
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः।
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर।।
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा।
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप।।
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत्।
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः।।
द्वौ मासौ तु भवेत्तुप्तिर्मत्स्यैः तितृगणस्य ह।
त्रीन्मासानाविकेनाहुश्चतुर्मासं शशेन ह।।
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप।
वाराहेण तु षण्मासान्सप्त वै शाकुलेन तु।।
मासानष्टौ पार्षतेन रौरवेण नव प्रभो।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी।।
मांसेनेकादश प्रीतिः पितॄणां माहिषेण तु।
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते।।
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह।
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी।।
आन्त्याय भवेद्दतं खङ्गमांसं पितृक्षते।
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते।।
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर।
सनत्कुमारो भगवान्पुरा मध्यभ्यभाषत।।
अपि नः स्वकुले जायाद्यो नो दद्यात्त्रयोदशीम्।
मघासु सर्पिःसंयुक्तं पायसं दक्षिणायने।।
आजेन वाऽपि लौहेन मघास्वेव यतव्रतः।
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम्।।
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्।
यत्रासौ प्रथितो लोकेष्वक्ष्यकरणो वटः।।
आपो मूलं फलं मांसमन्नं वाऽपि पितृक्षये।
यत्किञ्चिन्मधुसंमिश्रं तदानन्त्याय कल्पते।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः।। 135 ।।