अनुशासनपर्व
अध्यायः १३२
वसिष्ठ उवाच।
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्।
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः।।
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम्।
ऐश्वर्ये वारुणेवाऽथ रुद्रस्येशस्य वै प्रभो।।
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः।
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान्।।
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः।
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः।।
लक्षणानि स्वरास्तोभा निरुक्ताः स्वरभक्तयः।
ओंकारश्छन्दसां नेत्रं निग्रहप्रग्रहौ तथा।।
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च।
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः।।
संजुहावात्मनाऽऽत्मानं स्वयमेव तदा प्रभो।
यज्ञं च शोभयामास बहुरूपं पिनाकधृत्।।
द्यौर्नभः पृथिवी खं च तथा चैवैष भूपतिः।
सर्वविद्येश्वरः श्रीमानेष चापि विभावसुः।।
एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः।
कीर्त्यते भगवान्देवः सर्वभूतपतिः शिवः।।
तस्य यज्ञः पशुपतेस्तपः क्रतव एव च।
दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः।।
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः।
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह।
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः।।
स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि।।
तस्य शुक्रस्य निष्यन्दान्पांसून्सङ्गृह्य भूमितः।
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने।।
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके।
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूवह।।
स्कन्नमात्रं च तच्छुक्रं स्रुवेण परिगृह्य सः।
आज्यवन्मन्त्रतश्चापि सोऽजुहोद्भृगुनन्दन।।
ततः स जनयामास भूतग्रामं च वीर्यवान्।
तस्य तत्तेजसस्तस्माज्जज्ञे लोकेषु तैजसम्।।
तमसस्तामसा भावा व्यापि सत्वं तथोभयम्।
स गुणस्तेजसो नित्यं तमस्याकाशमेव च।
सर्वभूतेषु च तथा सत्वं तेजस्तथोत्तमम्।।
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो।
पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः।।
भर्जनाद्भृगुरित्येवमङ्गारेभ्योऽङ्गिराऽभवत्।
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्।
सह ज्वालाभइरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः।।
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्।
अङ्गोरभ्योऽङ्गिरास्तात वालखिल्याः कुशोच्चयात्।।
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि।।
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसम्मताः।
वैखानसाः समुत्पन्नास्तपः श्रुतगुणेप्सवः।।
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसम्मतौ।
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे।
ऋषयो रोमकूपेभ्यः स्वेदाच्छन्दो बलान्मनः।।
एतस्मात्कारणादाहुरग्निः सर्वास्तु देवताः।
ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात्।।
यानि दारूणि निर्यासास्ते मासाः पक्षसंज्ञिताः।
अहोरात्रा मुहूर्ताश्च वीतज्योतिश्च वारुणम्।।
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम्।
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः।।
अर्चिषो याश्च ते रुद्रास्तथाऽऽदित्या महाप्रभाः।
उद्दीप्तास्ते तथाऽङ्गारा ये धिष्ण्येषु दिवि स्थिताः।।
अग्निर्नाथश्च लोकस्य तत्परं ब्रह्म तद्भुवम्।
सर्वकामदमित्याहुस्तत्र हव्यमुपावहन्।।
ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः।
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह।।
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः।
इति जानीत खगमा मम यज्ञफलं हि तत्।।
अग्निरुवाच।
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च।
ममैव तान्मपत्यानि मम शुक्लं हुतं हि तत्।।
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः।
ममैव तान्यपत्यानि मम शुक्लं हुतं हि तत्।।
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह।
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम्।।
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै।
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च।।
वयं च भगवन्सर्वे जगच्च सचराचरम्।
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः।
वरुणश्चेश्वरो देवो लभतां काममीप्सितम्।।
निसर्गाद्ब्रह्मणश्चापि वरुणो यादसाम्पतिः।
जग्राह वै भृगु पूर्वमपत्यं सूर्यवर्चसम्।।
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थमकल्पयत्।
पितामहस्त्वपत्यं वैकविं जग्राह तत्त्ववित्।।
तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत्।
आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः।
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ।।
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः।
सर्वं सन्तानमेतेषामिदमित्युपधारय।।
भृगोस्तु पुत्राः सप्तासन्सर्वे तुल्या भृगोर्गुणैः।
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च।।
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते।
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि।।
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्यवारुणाः।
बृहस्पतिरुचथ्यश्च वयस्यः शान्तिरेव च।।
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः।
एतेऽष्टौ वह्निजाः सर्वे ज्ञाननिष्ठा निरामयाः।।
ब्राह्मणाश्च कवेः पुत्रा वारुणास्तेऽप्युदाहृताः।
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः।।
कविः काव्यश्च विष्णुश्च बुद्धिमानुशना तथा।
भृगुश्च वरुणश्चैव काश्यपोऽग्निश्च धर्मवित्।।
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम्।
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः।।
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः।
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत्।।
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः।
कविं तात भृगुं चापि तस्मात्तौ वारुणौ स्मृतौ।।
जग्राहाङ्गिरसं देवः शिखी तस्माद्भुताशनः।
तस्मादाङ्गिरसा ज्ञेयाः सर्व एव तदन्वयाः।।
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः।
इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः।।
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः।
त्वत्प्रसादादिमं लोकं धारयिष्यन्ति शाश्वतं।।
तथैव वंशकर्तारस्तव तेजोविवर्धनाः।
भवेयुर्वेदविदुषः सर्वे च कृतिनस्तथा।।
देवपक्षचराः सौम्याः प्राजापत्या महर्षयः।
अनन्तं ब्रह्म सत्यं च तपश्च परमं भुवि।।
सर्वे हि वयमेते च तवैव प्रसवाः प्रभो।
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह।।
मारीचमादितः कृत्वा सर्वे चैवाथ भार्गवाः।
अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह।।
अथ स्वेनैव रूपेणि प्रजनिष्यन्ति वै प्रजाः।
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा।।
इत्युक्तः स तदा तैस्तु ब्रह्मा लोकपितामहः।
ततेत्येवाब्रवीत्प्रीतस्तेऽपि जग्मुर्यथागतम्।।
एवमेतत्पुरावृत्तं तस्य यज्ञे महात्मनः।
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम्।।
अग्निर्ब्रह्म पशुपतिः शर्वो रुद्रः प्रजापतिः।
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणाः।।
अग्न्यभावे च कुरुते वह्निस्थानेषु काञ्चनम्।
जामदग्न्यप्रमाणज्ञो वेदश्रुतिनिदर्शनात्।।
कुशस्तम्बे जुहोत्यग्निं सुवर्णे तत्र च स्थिते।
वल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे।।
शकटोर्व्या परस्याप्सु ब्राह्मणस्य करे तथा।
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते।।
तस्मादग्निपराः सर्वे देवता इति शुश्रुम।
ब्रह्मणो हि प्रभूतोऽग्निरग्नेरपि च काञ्चनम्।।
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम्।।
तस्य वा तपसो लोकान्गच्छतः परमां गतिम्।
स्वर्लोके राजराज्येन सोभिषिच्येत भार्गव।।
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम्।
ददाति काञ्चनं यो वाः दुःस्वप्नं प्रतिहन्ति सः।।
ददात्युदितमात्रे यस्यस्य पाप्मा विधूयते।
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम्।।
ददाति पस्चिमां सन्ध्यां यः सुवर्णं यतव्रतः।
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः।।
सेन्द्रेषु चैव लोकेषु प्रतिष्ठा विन्दते शुभाम्।
इह लोके यशः प्राप्य शान्तपाप्मा च मोदते।।
ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा।
अनावृतगतिश्चैव कामचारो भवत्युत।।
न च क्षरति तेभ्यश्च यशश्चैवाप्नुते महत्।
सुवर्णमक्षयं दत्त्वा लोकांश्चाप्नोति पुष्कलान्।।
यस्तु सञ्जनयित्वाऽग्निमादित्योदयनं प्रति।
दद्याद्वै व्रतमुद्दिश्य सर्वकामान्समश्नुते।।
अग्निरित्येव तत्प्राहुः प्रदानं च सुखावहम्।
यथेष्टगुणसंवृत्तं प्रवर्तकमिति स्मृतम्।।
एषा सुवर्णस्योत्पत्तिः कथिता ते मयाऽनघ।
कार्तिकेयस्य च विभो तद्विद्धि भृगुनन्दन।।
कार्तिकेयस्तु संवृद्धः कालेन महता तदा।
देवैः सेनापतित्वेन वृतः सेन्द्रैर्भृगूद्वह।।
जघान तारकं चापि दैत्यमन्यांस्तथाऽसुरान्।
त्रिदशेन्द्राज्ञया ब्रह्मँल्लोकानां हितकाम्यया।।
सुवर्णदाने च मया कथितास्ते गुणा विभो।
तस्मात्सुवर्णं विप्रेभ्यः प्रयच्छ तदतांवर।।
भीष्म उवाच।
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान्।
ददौ सुवर्णं विप्रभ्यो व्यमुच्यत च किल्बिषात्।।
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते।
प्रदानस्य फलं चैव जन्म चास्य युधिष्ठिर।।
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहुः।
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः।। 132 ।।