अनुशासनपर्व
अध्यायः १३
Anusasana Parva (Sanskrit) · Adhyaya 13
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
चतुर्णामपि वेदानां संवादं शृणु पुत्रक।।
ऋग्वेद उवाच।
गृहानाश्रयमाणस्य अग्निहोत्रं च जुह्वतः।
सर्वं सुकृतमादत्ते यः साये नुद्यतेऽतिथिः।।
न स्कन्दते न व्यथते नास्योर्ध्वं सर्पते रजः।
वरिष्ठमग्निहोत्राच्च ब्राह्मणस्य मुखे हुतम्।।
सामवेद उवाच।
न चेद्धन्ति पितरं मातरं वा
न ब्राह्मणं नापवादं करोति।
यत्किंचिदन्यद्वृजिनं करोति।
प्रीतोऽतिथिस्तदुपहन्ति पापम्।।
अथर्ववेद उवाच।
यत्क्रोधनो यजते यद्ददाति
यद्वा तपस्तप्यति यज्जुहोति।
वैवस्वतो हरते सर्वमस्य
मोघं चेष्टं भवति क्रोधनस्य।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रयोदशोऽध्यायः।। 13 ।।