अनुशासनपर्व

अध्यायः १२

Anusasana Parva (Sanskrit) · Adhyaya 12
अक्षर का आकार

युधिष्ठिर उवाच।

यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद।
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृपः।।

उत्तमापद्गतस्यापि यत्र ते वर्तते मनः।
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत।।

भीष्म उवाच।

स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम्।
येषां संप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनम्।।

येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम्।
उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम्।।

विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्।
श्रुतवृत्तोपपन्नानां सदाऽक्षरविदां सताम्।।

संसत्सु वदतां तात हंसानामिव सङ्घशः।
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः।।

सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर।
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः।।

ये चापि तेषां श्रोतारः सदा सदसि सम्मताः।
विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम्।।

सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च।
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठर।
ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम्।।

शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितुम्।।

शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर।
तेषां संख्यायमानानां दानशूरो विशिष्यते।।

`भद्रं तु जन्म सम्प्राप्य भूयो ब्राह्मणको भवेत्।
बन्धुमध्ये कुले जातः सुदुरापमवाप्नुयात्।।'

धन्यः स्यां यद्यहं भूयः सौम्यब्राह्मणकोपि वा।
कुले जातो धर्मगतिस्तपोविद्यापरायणः।।

न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन।
त्वत्तश्चापि प्रियतरा ब्राह्मणा एव भारत।।

यथा मम प्रियतमास्त्वत्तो विप्राः कुरूत्तम।
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः।।

न मे पिता प्रियतरो ब्रह्मणेभ्यस्तथाऽभवत्।
न मे पितुः पिता वाऽपि ये चान्येऽपि सुहृञ्जनाः।।

न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह।
अणु वा यदि वा स्थूलं विद्यते साधुकर्मसु।।

कर्मणा मनसा वाऽपि वाचा वाऽपि परंतप।
यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम्।।

ब्रह्मण्य इति मामाहुस्तया वाचाऽस्मि तोषितः।
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम्।।

पश्यामि लोकानमलाञ्शुचीन्ब्राह्मणतोषणात्।
तेषु मे तात गन्तव्यमह्नाय च चिराय च।।

यथा भर्त्राश्रयो धर्मः स्त्रीणां लोके युदिष्ठिर।
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः।।

क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः।।

नारी तु पत्यभावे वै देवरं कुरुते पतिम्।
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम्।।

`ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः।
तद्रक्षणेन स्वर्गोऽस्य तत्कोपान्नरकोऽक्षयः।।'

पुत्रवच्चैव ते रक्ष्या उपास्या गुरुवच्च ते।
अग्निवच्चोपचार्या वै ब्राह्मणाः कुरुसत्तम्।।

ऋजुन्सतः सत्यशीलान्सर्वभूतहिते रतान्।
आशीविषानिव क्रुद्धान्द्विजान्परिचरेत्सदा।।

तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर।
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा।।

व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते।
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः।।

`दूरतो मातृवत्पूज्या विप्रदाराः सुरक्षया।
अकोपनापराधेन भूयो नरकमश्नुते।।

भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात्।
कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत्।।

दण्डपाणिर्यथा गोष्ठं पालो नित्यं हि रक्षयेत्।
ब्राह्मणेषु स्थितं ब्रह्म क्षत्रियः परिपालयेत्।।

पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः।
गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्वादशोऽध्यायः।। 12 ।।