अनुशासनपर्व

अध्यायः १४

Anusasana Parva (Sanskrit) · Adhyaya 14
अक्षर का आकार

भीष्म उवाच।

भूयस्तु शृणु राजेन्द्र धर्मान्धर्मभृतांवर।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
इन्द्राग्न्योः सूर्यशच्योश्च तन्मे निगदतः शृणु।।

इन्द्र उवाच।

राज्ये विप्रान्प्रपश्यामि कामक्रोधविवर्जितान्।
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्।।

अग्निरुवाच।

यथाऽहं तत्र नाश्नामि यत्र नाश्नन्ति वै द्विजाः
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्।।

सूर्य उवाच।

यथा गोब्राह्मणस्यार्थे न तपामि यथाबलम्।
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्।।

शच्युवाच।

कर्मणा मनसा वाचा नावमन्ये पुरन्दरम्।
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुर्दशोऽध्यायः।। 14 ।।