अनुशासनपर्व

अध्यायः १२९

Anusasana Parva (Sanskrit) · Adhyaya 129
अक्षर का आकार

भीष्म उवाच।

ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये।
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर।।

ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते।
तेन यज्ञस्य यज्ञत्वमतो मूलं च लक्ष्यते।।

दानानामपि सर्वेषां गवां दानं प्रशस्यते।
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम्।।

पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह।
पयो दधि घृतं चासां सर्वपापप्रमोचनम्।।

गावस्तेजः परं प्रोक्तमिह लोके परत्र च।
न गोभ्यः परमं किञ्चित्पवित्रं भरतर्षभ।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर।।

पराभूतेषु दैत्येषु शक्रस्त्रिभुवनेश्वरः।
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः।।

अथर्षयः सगन्धर्वाः किन्नरोरगराक्षसाः।
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा।
पर्युपासत कौन्तेय कदाचिद्वै पितामहम्।।

नारदः पर्वतश्चैव विश्वावसुहहाहुहूः।
दिव्यतानेषु गायन्तः पर्युपासत तं प्रभुम्।।

तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तदा।
आजह्रुर्ऋतवश्चापि सुगन्धीनि पृथक्पृथक्।।

तस्मिन्देवसमावाये सर्वभूतसमागमे।
दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते।
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च।।

देवानां भगवन्कस्माल्लोकेशानां पितामह।
उपरिष्ठाद्गवां लोक एतदिच्छामि वेदितुम्।।

किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर।।
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम्।।

ततः प्रोवाच ब्रह्मा तं शक्रं बलनिषूदनम्।
अवज्ञातास्त्वया नित्यं गावो बलनिषूदन।।

तेन त्वमासां माहात्म्यं न वेत्सि शृणु यत्प्रभो।
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ।।

यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव।
एताभिश्च विना विज्ञो न वर्तेत कथञ्चन।।

धारयन्ति प्रजाश्चैताः पयसा हविषा तथा।
एतासां तनयाश्चापि कृषियोगमुपासते।।

जनयन्ति च धान्यानि बीजानि विविधानि च।
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः।।

पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप।
वहन्ति विविधान्भोगान्क्षुत्तृष्णापरिपीडिताः।।

मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा।
वासवाऽकूटवाहिन्यः कर्मणा सुकृतेन च।।

उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि।
एतत्ते कारणं शक्र निवासकृतमध्य वै।
गावो देवोपरिष्टाद्धि समाख्याताः शतक्रतो।।

एता हि वरदत्ताश्च वरदाश्चापि वासव।
सुरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः।।

यदर्थं गां गताश्चैव सुरभ्यः सुरसत्तम।
तच्च मे शृणु कार्स्न्येन वदतो बलसूदन।।

पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु।
त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते।।

अदित्यां तप्यमानायां तपो घोरं सुदुश्चरम्।
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा।।

तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः।
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः।।

अतप्यत तपो घोरं हृष्टा धर्मपरायणा।
कैलासशिखरे रम्ये देवगन्धर्वसेविते।।

व्यतिष्ठदेकपादेन परमं योगमास्थिता।
दशवर्षसहस्राणि दशवर्षशतानि च।।

सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः।
तत्र गत्वा मया सार्धं पर्युपासत तां शुभां।।

अथाहमब्रवं तत्र देवीं तां तपसाऽन्विताम्।
किमर्थं तप्यसे देवि तपो घोरमनिन्दिते।।

प्रीतस्तेऽहं महाभागो तपसाऽनेन शोभने।
वरयस्व वरं देवि दातास्मीति पुरन्दर।।

सुरभिरुवाच।

वरेण भगवन्मह्यं कृतं लोकपितामह।
एष एव वरो मेऽद्य यत्प्रीतोसि ममानघ।।

ब्रह्मोवाच।

तामेव ब्रुवतीं देवीं सुरभिं त्रिदशेश्वर।
प्रत्यब्रवं यद्देवेन्द्र तन्निबोध शचीपते।।

अलोभकाम्यया देवि तपसा शुचिना च ते।
प्रसन्नोऽहं वरं तस्मादमरत्वं दादामि ते।।

त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि।
मत्प्रसादाच्च विख्यातो गोलोकः सम्भविष्यति।।

मानुषेषु च कुर्वाणाः प्रजाः कर्म शुभास्तव।
निवत्स्यन्ति महाभागो सर्वा दुहितरश्च ते।।

मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः।
यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे।।

तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः।
न तत्र क्रमते मृत्युर्न जरा न च पावकः।
न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव।।

तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च।
विमानानि सुयुक्तानि कामगानि च वासव।।

ब्रह्मचर्येण तपसा सत्येन च दमेन च।
दानैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात्।।

तपसा महता चैव सुकृतेन च कर्मणा।
शक्यः समासादयितुं गोलोकः पुष्करेक्षण।।

एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते।
न ते परिभवः कार्यो गवामसुरसूदन।।

भीष्म उवाच।

एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा।
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर।।

एतत्ते सर्वमाख्यातं पावनं च महाद्युते।
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम्।

कीर्तितं पुरुषव्याघ्र सर्वपापविमोचनम्।
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः।।

हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह।
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठते।।

गोषु भक्तश्च लभते यद्यदिच्छति मानवः।
स्त्रियोपि भक्ता या गोषु ताश्च काममवाप्नुयुः।।

पुत्रार्थीं लभते पुत्रं कन्यार्थी तामवाप्नुयात्।
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात्।।

विद्यार्थी चाप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम्।
न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः।। 128 ।।