अनुशासनपर्व
अध्यायः १२८
युधिष्ठिर उवाच।
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम्।
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान्।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गोभिर्नृपेहं संवादं श्रिया भारतसत्तम।।
श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह।
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम्।।
गाव ऊचुः।
काऽसि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि।
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा।।
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि।
तत्त्वेन हि सुवर्णाभे सर्वमेतद्ब्रवीहि नः।।
श्रीरुवाच।
लोकस्य कान्तिर्भद्रं वः श्रीर्नामाहं परिश्रुता।
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः।।
मयाऽभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः।
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च।।
मयाऽभिपन्ना दीप्यन्ते ऋषयो देवतास्तथा।
यान्नाविशाम्यहं गावस्ते विनश्यन्ति सर्वशः।।
धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः।
एवंप्रभावां मां गावो विजानीत सुखप्रदाम्।।
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा।
आगत्य प्रार्थये युष्माञ्श्रीजुष्टा भवताऽनघाः।।
गाव ऊचुः।
अध्रुवा चपला च त्वं सामान्या बहुभिः सह।
न त्वामिच्छाम भद्रं ते गम्यतां यत्र रोचते।।
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽद्य वै।
यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया।।
श्रीरुवाच।
किमेतद्वः क्षमं गावो यन्मां नेहाभिनन्दथ।
न मां सम्प्रतिगृह्णीध्वं कस्माद्वै दुर्लभां सतीम्।।
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः।
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः।।
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः।।
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह।
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे।।
गाव ऊचुः।
नावमान्यामहे देवि न त्वां परिभवामहे।
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे।।
बहुना च किमुक्तेन गम्यतां यत्र वाञ्छसि।
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽनघे।।
श्रीरुवाच।
अवज्ञाता भविष्यामि सर्वलोकेषु मानवैः।
प्रत्याख्यातेति युष्माभिः प्रसादः क्रियतां मम।।
महाभागा भवत्यो वै शरण्याः शरणागताम्।
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम्।।
माननामहमिच्छामि भवत्यः सततं शिवाः।
अप्येकाङ्गेष्वधो वस्तुमिच्छामि च सुकुत्सिते।।
न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः।
पुण्याः पवित्राः सुभगा अवाग्देशं प्रयच्छथ।
वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ।।
एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः।
सम्मान्य सहिताः सर्वाः श्रियमुचुर्नराधिप।।
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि।
शकृन्मूत्रे निवसतां पुण्यमेतद्धि नः शुभे।।
श्रीरुवाच।
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः।
एवं भवतु भद्रं वः पूजिताऽस्मि सुखप्रदाः।।
भीष्म उवाच।
एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत।
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत।।
एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्।
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टविंशत्यधिकशततमोऽध्यायः।। 128 ।।