अनुशासनपर्व

अध्यायः १३०

Anusasana Parva (Sanskrit) · Adhyaya 130
अक्षर का आकार

युधिष्ठिर उवाच।

उक्तं पितामहेनेदं गवां दानमनुत्तमम्।
विशेषेण नरेन्द्राणामिह धर्ममवेक्षताम्।।

राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः।
परिचारेषु वै दुःखं दुर्धरं चाकृतात्मभिः।
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः।।

पूयन्ते तत्र नियतं प्रयच्छन्तो वसुन्धराम्।
सर्वे च कथिता धर्मास्त्वया मे कुरुनन्दन।।

एवमेव गवामुक्तं प्रदानं ते नृगेण ह।
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम्।।

वेदोपनिषदे चैव सर्वकर्मसु दक्षिणाः।
सर्वक्रतुषु चोद्दिष्टा भूमिर्गावोऽथ काञ्चनम्।।

तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै।
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम्।।

किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम्।
किंदैव किंफलं चैव कस्माच्च परमुच्यते।।

कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः।
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते।।

कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्।
परमं दक्षिणार्थे च तद्ब्रवीहि पितामह।।

भीष्म उवाच।

शृणु राजन्नवहितो बहुकारणविस्तरम्।
जातरूपसमुत्पत्तिमनुभूतं च यन्मया।।

पिता मम महातेजाः श्तनुर्निधनं गतः।
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम्।।

तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम्।
मातो मे जाह्नवी चात्र साहाय्यमकरोत्तदा।।

तत्रागतांस्तपस्सिद्धानुपवेश्य बहूनृषीन्।
तोयप्रदानात्प्रभृति कार्याण्यहमथारभम्।।

तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः।
दातुं निर्वपणं सम्यग्यथावदहमारभम्।।

ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः।
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशाम्पते।।

मुहूर्तमपि तं दृष्ट्वा परं विस्मयमागमम्।
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ।।

ततो मे पुनरेवासीत्संज्ञा सञ्चिन्त्य शास्त्रतः।
नायं वेदेषु विहितो विधिर्हस्त इति प्रभो।
पिण्डो देयो नरेणेह ततो मतिरभून्मम।।

साक्षान्नेह मनुष्यस्य पिण्डं हि पितरः क्वचित्।
गृह्णन्ति विहितं चेत्थं पिण्डो देयः कुशेष्विति।।

ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम्।
शास्त्रप्रामाण्यसूक्ष्मं तु विधइं पिण्डस्य संस्मरन्।।

ततो दर्भेषु तत्सर्वमददं भरतर्षभ।
शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ।।

ततः सोऽन्तर्हितो बाहुः पितुर्मम जनाधिप।
ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तथा।।

प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ।
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः।।

त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव।
आत्मा धर्मः श्रुतं वेदाः पितरश्चर्षिभिः सह।।

साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः।
प्रमाणमुपनीता वै स्थिताश्च न विचालिताः।।

तदिदं सम्यगारब्धं त्वयाऽद्य भरतर्षभ।
किन्तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति।।

एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः।
पाविता वै भविष्यन्ति पावनं हि परं हि तत्।।

दश पूर्वान्दशैवान्यांस्तथा सन्तारयन्ति ते।
सुवर्णं ये प्रयच्छन्ति एवं मत्पितरोऽब्रुवन्।।

ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशाम्पते।
सुवर्णदानेऽकरवं मतिं च भरतर्षभ।।

इतिहासमिमं चापि शृणु राजन्पुरातनम्।
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च।।

जामदग्न्येन रामेण तीव्ररोषान्वितेन वै।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा।।

ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः।
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम्।।

वाजिमेधं महाराज सर्वकामसमन्वितम्।
पावनं सर्वभूतानां तेजोद्युतिविवर्धनम्।।

विपाप्मा च स तेजस्वी तेन क्रतुफलेन च।
नैवात्मनोऽथ लघुतां जामदग्न्योऽध्यगच्छत।।

स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता।
पप्रच्छागमसम्पन्नानृषीन्देवांश्च भारत।।

पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम्।
तदुच्यतां महाभागा इति जागघृणोऽब्रवीत्।।

इत्युक्ता वेदशास्त्रज्ञास्तमूचुस्ते महर्षयः।
राम विप्राः सत्क्रियन्तां वेदप्रामाण्यदर्शनात्।।

भूयश्च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति।
ते यद्ब्रूर्महाप्राज्ञास्तच्चैव समुदाचर।।

ततो वसिष्ठं देवर्षिमगस्त्यमथ काश्यपम्।
तमेवार्तं महातेजाः पप्रच्छ भृगुनन्दनः।।

जाता मतिर्मे विप्रेन्द्राः कथं पूयेयमित्युत।
केन वा कर्मयोगेन प्रदानेनेह केन वा।।

यदि वोऽनुग्रहकृता बुद्धिर्मां प्रति सत्तमाः।
प्रबूत पावनं किं मे भवेदिति तपोधनाः।।

ऋषय ऊचुः।

गाश्च भूमिं च वित्तं च दत्त्वेह भृगुनन्दन।
पापकृत्पूयते मर्त्य इति भार्गव शुश्रुम।।

अन्यद्दानं तु विप्रर्षे श्रूयतां पावनं महत्।
दिव्यमत्यद्भुताकारमपत्यं जातवेदसः।।

दग्ध्वा लोकान्पुरा वीर्यात्सम्भूतमिह शुश्रुम।
सुवर्णमिति विख्यातं तद्ददत्सिद्धिमेष्यसि।।

ततोऽब्रवीद्वसिष्ठस्तं भगवान्संशितव्रतः।
शृणु राम यथोत्पन्नं सुवर्णमनलप्रभम्।।

फलं दास्यति ते यत्तु दाने परमिहोच्यते।
सुवर्णं यच्च यस्माच्च यथा च गुणवत्तमम्।।

तन्निबोध महाबाहो सर्वं निगदतो मम।
अग्निषोमात्मकमिदं सुवर्णं विद्दि निश्चये।।

अजोऽग्निर्वरुणो मेषः सूर्योऽश्च इति दर्शनम्।
कुञ्जराश्च मृगा नागा महिषाश्चासुरा इति।।

कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन।
इडा गावः पयः सोमो भूमिरित्येव च स्मृतिः।।

जगत्सर्वं च निर्मथ्य तेजोराशिः समुत्थितः।
सुवर्णमेभ्यो विप्रर्षे रत्नं परममुत्तमम्।।

एतस्मात्कारणाद्देवा गन्धर्वोरगराक्षसाः।
मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत्।।

मुकुटैरङ्गदयुतैरलङ्कारैः पृथग्विधैः।
सुवर्णविकृतैस्तत्र विराजन्ते भृगूत्तम।।

तस्मात्सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम्।
भूमेर्गोभ्योऽथ रत्नेभ्यस्तद्विद्धि मनुजर्षभ।।

पृथिवीं गाश्च दत्त्वेह यच्चान्यदपि किञ्चन।
विशिष्यते सुवर्णस्य दानं परमकं विभो।।

अक्षयं पावनं चैव सुवर्णममरद्युते।
प्रयच्छ द्विजमुख्येभ्यः पावनं ह्येतदुत्तमम्।।

सुवर्णमेव सर्वासु दक्षिणासु विधीयते।
सुवर्णं ये प्रयच्छन्ति सर्वदास्ते भवन्त्युत।।

देवतास्ते प्रयच्छन्ति ये सुवर्णं ददत्यथ।
अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम्।।

तस्मात्सुवर्णं ददता दत्ताः सर्वाः स्म देवताः।
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः।।

भूय एव च महात्म्यं सुवर्णस्य निबोध मे।
गदतो मम विप्रर्षे सर्वशस्त्रभृतांवर।।

मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन।
प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै।।

शूलपाणेर्भगवतो रुद्रस्य च महात्मनः।
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह।।

देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन।
समागमे भगवतो देव्या सह महात्मनः।।

ततः सर्वे समुद्विग्रा देवा रुद्रमुपागमन्।।
ते महादेवमासीनं देवीं च वरदामुमाम्।

प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह।।
अयं समागमो देव देव्या सह तवानघ।

तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः।।
अमोघतेजास्त्वं देव देवी चेयमुमा तथा।

अपत्यं युवयोर्देव बलवद्भविता विभो।
तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति।।

तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन।
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया।।

अपत्यार्थं निगृह्णीष्व तेजः परमकं विभो।
[त्रैलोक्यसारौ हि युवां लोकं सन्तापयिष्यथ।।

तदपत्यं हि युवयोर्देवानभिभवेद्ध्रुवम्।
न हि ते पृथिवी देवी न च द्यौर्न दिवं विभो।।

नेदं धारयितुं शक्ताः समस्ता इति मे मतिः।
तेजःप्रभावनिर्दग्धं तस्मात्सर्वमिदं जगत्।।

तस्मात्प्रसादं भगवन्कर्तुमर्हसि नः प्रभो।
न देव्यां सम्भवेत्पुत्रो भवतः सुरसत्तम।
धैर्यादेव निगृह्णीष्व तेजो ज्वलितमुत्तमम्।।

इति तेषां कथयतां भगवान्वृषभध्वजः]।
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत।।

इत्युक्त्वा चोर्ध्वमनयद्रेतो वृषभवाहनः।
ऊर्ध्वरेषः समभवत्ततः प्रभृति चापि सः।।

रुद्राणीति ततः क्रुद्धा प्रजोच्छेद तदा कृते।
देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः।।

यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः।
तस्मात्सर्वे सुरा भूयमनपत्या भविष्यथ।।

प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै।
तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति।।

पावकस्तु न तत्रासीच्छापकाले भृगूद्वह।
देवा देव्यास्तथा शापादनपत्यास्ततोऽभवन्।।

रुद्रस्तु तेजोऽप्रतिमं धारयामास वै तदा।
प्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि।।

उत्पपात तदा वह्नौ ववृधे चाद्भुतोपमम्।
तेजस्तेजसि संयुक्तमेकयोनित्वमागतम्।।

एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः।
असुरस्तारको नाम तेन सन्तापिता भृशम्।।

आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि।
साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात्।।

स्थानानि देवतानां हि विमानानि पुराणि च।
ऋषीणां चाश्रमाश्चैव बभूवुरसुरैर्हृताः।।

ते दीनमनसः सर्वे देवता ऋषयश्च ये।
प्रजग्मुः शरणं देवं ब्रह्माणमजरं विभुम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिंशदधिकशततमोऽध्यायः।। 130 ।।