अनुशासनपर्व
अध्यायः १२७
शुक उवाच।
केन वर्णविभागेन विज्ञेया कपिला भवेत्।
कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा।।
श्रीव्यास उवाच।
शृणु तात यथा गोषु विज्ञेया कपिला भवेत्।
नेत्रयोः शृङ्गयोश्चैव खुरेषु वृषणेषु च।
कर्णतो घ्राणतश्चापि षड्विधाः कपिलाः स्मृताः।।
एतेषां लक्षणानां तु यद्येकमपि दृश्यते।
कपिलां तां विजानीयादेवमाहुर्मनीषिणः।।
आग्नेयी नेत्रकपिला खुरैर्माहेश्वरी भवेत्।
ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणादजायत।।
कर्णतस्तु वसन्तेन स्वयोनिमभिजायते।
गायत्र्याश्च वृषणयोरुत्पत्तिः षड्गुणा स्मृता।।
एवं गावश्च विप्राश्च गायत्री सत्यमेव च।
वसन्तश्च सुवर्णश्च एकतः समजायत।।
नेत्रयोः कपिलां यस्तु वाहयेत दुहेत वा।
स पापकर्मा नरकं प्रतिष्ठां प्रतिपद्यते।।
नरकाद्विप्रमुक्तस्तु तिर्यग्योनिं निषेवते।
यदा लभेत मानुष्यं जात्यन्धो जायते नरः।।
शृङ्गयोः कपिलां यस्तु वाहयेत दुहेत वा।
तिर्यग्योनिं स लभते जायमानः पुनः पुनः।।
खुरेषु कपिलां यस्तु वाहयेत दुहेत वा।
तमस्यपारे मज्जेत धनहीनो नराधमः।।
कपिलां वालधानेषु वाहयेत दुहेत वा।
निराश्रयः सदा चैव जायते यदि चेत्कृमिः।।
कर्णेन कपिलां यस्तु जानन्नप्युपजीवति।
सहस्रशः शुचिर्भुत्वा मानुष्यं प्राप्नुयादथ।
चण्डालः पापयोनिश्च जायते स नराधमः।।
घ्राणेन कपिलां यस्तु प्रमादादुपजीवति।
सोऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते।।
व्याधिग्रस्तो जडो रोगी भवेन्मानुष्यमागतः।।
मधुसर्पिस्सुगन्धास्तु कपिलाः शास्त्रतः स्मृताः।
एताः समुपजीवेत सोऽपि तिर्यक्षु जायते।।
स्थावरत्वमनुप्राप्तो यदि मानुष्यतां लभेत्।
अल्पायुः स भवेज्जातो हीनवर्णकुलोद्भवः।।
ये तु पापा ह्यसूयन्ते कपिलां वाहयन्ति च।
निरयेषु प्रतिष्ठन्ते यावदाभूतसम्प्लवम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः।। 127 ।।