अनुशासनपर्व
अध्यायः १२४
`युधिष्ठिर उवाच।
पवित्राणां पवित्रं यच्छ्रेष्ठं लोकेषु पूजितम्।
महाव्रतं महाभाग तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च।।
ऋषीणामुत्तमं कृष्णं भावितात्मानमच्युतम्।
पारम्पर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम्।।
कृतशौचः शुकस्तत्र कृतजप्यः कृताह्निकः।
परं नियममास्थाय परं धर्ममुपाश्रितः।।
प्रणम्य शिरसा व्यासं सूक्ष्मतत्वार्थदर्शिनम्।
शुकः पप्रच्छ वै प्रश्नं दानधर्मकुतूहलः।।
बहुचित्राणि दानानि बहुशः शंससे मुने।
महार्थं पावनं पुण्यं किंस्विद्दानं महाफलम्।।
केन दुर्गाणि तरति केन लोकानवाप्नुते।
केन वा महदाप्नोति इह लोके परत्र च।।
के वा यज्ञस्य वोढारः केषु यज्ञः प्रतिष्ठितः।
किञ्च यज्ञस्य यज्ञत्वं किञ्च यज्ञस्य भेषजम्।
यज्ञानामुत्तमं किञ्च तद्भवान्प्रब्रवीतु मे।।
स तस्मै भजमानाय जातकौतूहलाय च।
व्यासो व्रतनिधिः प्राह गवामिदमनुत्तमम्।।
धन्यं यशस्यमायुष्यं लोके श्रुतिसुखावहम्।
यत्पवित्रं पवित्राणां मङ्गलानां च मङ्गलम्।।
सर्वपापप्रशमनं तत्समासेन मे शृणु।
यदिदं तिष्ठते लोके जगत्स्थावरजङ्गमम्।
गावस्तत्प्राप्य तिष्ठन्ति गोलोके पुण्यदर्शनाः।।
मातरः सर्वभूतानां विश्वस्य जगतश्च ह।
रुद्राणामिह साध्यानां गाव एव तु मातरः।।
रुद्राणां मातरो ह्येता ह्यादित्यानां स्वसा स्मृताः।
वसूनां च दुहित्रस्ता ब्रह्मसन्तानमूलजाः।।
यासामधिपतिः पूषा मरुतो वालबन्धनाः।
ऐश्वर्यं वरुणो राजा विश्वेदेवाः समाश्रिताः।।
य एवं वेद ता गावो मातरो देवपूजिताः।
स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः।।
गावस्तु नावमन्येत कर्मणा मनसा गिरा।
गवां स्थानं परं लोके प्रार्थयेद्यः परां गतिम्।।
न पद्भ्यां ताडयेद्गा वै न दण्डेन न मुष्टिना।
इमां विद्यामुपाश्रित्य पावनीं ब्रह्मनिर्मिताम्।।
मातॄणामन्ववाये च न गोमध्ये न गोव्रजे।
नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद्विसर्जनम्।।
शुद्धाश्चन्दनशीताङ्ग्यश्चन्द्ररश्मिसमप्रभाः।
सौम्याः सुरभ्यः सुभगा गावो गुग्गुलुगन्धयः।।
सर्वे देवाऽविशन्गा वै समुद्रमिव सिन्धवः।
दिवं चैवान्तरिक्षं च गवां व्युष्टिं समश्नुते।।
दधिना जुहुयादग्निं दधिना स्वस्ति वाचयेत्।
दधि दद्याच्च प्राशेत गवां व्युष्टिं समश्नुते।।
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्।
घृतमालभ्य प्राश्नीयाद्गवां व्युष्टिं समश्नुते।।
गावः संजीवना यास्तु गावो दानमनुत्तमम्।
ताः पुण्यगोपाः सुफला भजमानं भजन्तु माम्।।
येन देवाः पवित्रेण स्वर्गलोकमितो गताः।
तत्पवित्रं पवित्राणां मम मूर्ध्नि प्रतिष्ठितम्।।
वीणामृदङ्गपणवा गवां गात्रं प्रतिष्ठिताः।
क्रीडारतिविहारार्थे त्रिषु लोकेषु वर्तते।।
न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति।
न यज्ञैरिज्यते चात्र यत्र गौर्वै न दृश्यते।।
क्षीरं दधि घृथं यासां रसानामुत्तमो रसः।
अमृतप्रभवा गावस्त्रैलोक्यं येन जीवति।।
इमामाहूय धेनुं च सवत्सां यज्ञमातरम्।
उपाह्वयन्ति यां विप्रा गावो यज्ञहविष्कृतम्।।
या मेध्या प्रथमं कर्म इयं धेनुः सरस्वती।
पौर्णमासेन वत्सेन कामं कामगुणान्विता।।
यत्र सर्वमिदं प्रोतं यत्किंचिज्जङ्गमं जगत्।
स गौर्वै प्रथमा पुण्या सर्वभूतहिते रता।।
धारणाः पावनाः पुण्या भावना भूतभावनाः।
गावो मामभिरक्षन्तु इह लोके परत्र च।।
एष यज्ञः सहोपाङ्ग एष यज्ञः सनातनः।
वेदाः सहोपनिषदो गवां रूपाः प्रतिष्ठिताः।।
एतत्तात मया प्रोक्तं गवामिह परं मतम्।
सर्वतः श्रावयेन्नित्यं प्रयतो ब्रह्मसंसदि।।
श्रुत्वा लभेत ताँल्लोकान्ये मया परिकीर्तिताः।
श्रावयित्वापि प्रीतात्मा लोकांस्तान्प्रतिपद्यते
धेनुमेकां समादद्यादहन्यहनि पावनीम्।
तत्तथा प्राप्नुयाद्विप्रः पठन्वै गोमतीं सदा।।
अथ धेनुर्न विद्यते तिलधेनुमनुत्तमाम्।
दद्याद्गोमतिकल्पेन तां धेनुं सर्वपावनीम्।।
आह्निकं गोमतीं नित्यं यः पठेत सदा नरः।
सर्वपापात्प्रमुच्येत प्रयतात्मा य आचरेत्।।
घृतं वा नित्यमालभ्य प्राश्य वा गोमतीं जपेत्।
स्नात्वा वा गोकरीषेण पठन्पापात्प्रमुच्यते।।
मनसा गोमतीं जप्येद्गोमत्या नित्यमाह्निकम्।
न त्वेन दिवसं कुर्याद्व्यर्थं गोमत्यपाठकः।।
गोमतीं जपमाना हि देवा देवत्वमाप्नुवन्।
ऋषित्वमृषयश्चापि गोमत्या सर्वमाप्नुवन्।।
बद्धो बन्धात्प्रमुच्येत कृच्छ्रान्मुच्येत सङ्कटात्।
गोमतीं सेवते यस्तु लभते प्रियसङ्गमम्।।
एतत्पवित्रं कार्त्स्न्येन एतद्व्रतमनुत्तमम्।
एतत्तु पृथिवीपाल पावनं शृण्वतां सदा।।
पुत्रकामाश्च ये केचिद्धनकामाश्च मानवाः।
अद्धाने चोरवैरिभ्यो मुच्यते गोमतीं पठन्।।
पूर्ववैरानुबन्धेषु रणए चाप्याततायिनः।
लभेत जयमेवाशु सदा गोमतिपाठकः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः।। 124 ।।