अनुशासनपर्व

अध्यायः १२५

Anusasana Parva (Sanskrit) · Adhyaya 125
अक्षर का आकार

`शुक उवाच।

क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः।
कपिलामुपजीवन्ति कथमेतत्पितर्भवेत्।।

श्रीव्यास उवाच।

क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः।
कपिलामुपजीवन्ति तेषां वक्ष्यामि निर्णयम्।।

कपिलास्तूत्तमा लोके गोषु चैवोत्तमा मताः।
तासां दाता लभेत्स्वर्गं विधिना यश्च सेवते।।

स्पृशेत कपिलां यस्तु दण्डेन चरणेन वा।
स तेन स्पर्शमात्रेण नरकायोपपद्यते।।

मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेणैव प्रमुञ्चते।
मन्त्रिहीनं तु यो युञ्जात्कृमियोनौ प्रसूयते।।

प्रहाराहतमर्माङ्गा दुःखेन च जडीकृता।
पदानि यावद्गच्छेत तावल्लोकान्कृमिर्भवेत्।।

यावन्तो बिन्दवस्तस्याः शोणितस्य क्षितिं गताः।
तावद्वर्षसहस्राणि नरकं प्रतिपद्यते।।

मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेण विनियोजयेत्।
मन्त्रहीनैरनुयुतो मञ्जयेत्तमसि प्रभो।।

कपिलां येऽपि जीवन्ति बुद्धिमोहान्विता नराः।
तेऽपि वर्षसहस्राणि पतन्ति नरके नृप।।

अथ न्यायेन ये विप्राः कपिलामुपयुञ्जते।
तस्मिंल्लोके प्रमोदन्ते लोकाश्चैषामनामयाः।।

विधिना ये न कुर्वन्ति शूद्रास्तानुपधारय।।'

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः।। 125 ।।