अनुशासनपर्व

अध्यायः १२३

Anusasana Parva (Sanskrit) · Adhyaya 123
अक्षर का आकार

`भीष्म उवाच।

ता गावो रन्तिदेवस्य गत्वा यज्ञं मनीषिणः।
आत्मानं ज्ञापयामासुर्महर्षीणां समक्षतः।।

रन्तिदेवस्ततो राजा प्रयतः प्राञ्जलिः शुचिः।
उवाच गावः प्रणतः किमागमनमित्यपि।।

गाव ऊचुः।

इच्चामस्तव राजेन्द्र सत्रेऽस्मिन्विनियोजनम्।
पशुत्वमुपसम्प्राप्तुं प्रसादं कर्तुमर्हसि।।

रन्तिदेव उवाच।

नास्ति शक्तो गवां घातं कर्तुं शतसहस्रशः।
घातयित्वा त्वहं युष्मान्कथमात्मानमुत्तरे।।

यः पशुत्वेन संयोज्य युष्मान्स्वर्गं नयेदिह।
आत्मानं चैव तपसा गावः समुपगम्यताम्।।

गाव ऊचुः।

अस्माकं तारणे युक्तो धर्मात्मा तपसि स्थितः।
श्रुतोऽस्माभिर्भवान्राजंस्ततस्तु स्वयमागताः।।

रन्तिदेव उवाच।

मम सत्रे पशुत्वं वो यद्येवं हि मनीषितम्।
समयेनाहमेतेन जुहुयां वो हुताशने।।

कदाचिद्यदि वः काचिदकामा विनियुज्यते।
तदा समाप्तिः सत्रस्य गवां स्यादिति नैष्ठिकी।।

गाव ऊचुः।

एवमस्तु महाराज यथा त्वं प्रब्रवीषि नः।
अकामाः स्युर्यदा गावस्तदा सत्रं समाप्यताम्।।

भीष्म उवाच।

ततः प्रवृत्ते गोसत्रे रन्तिदेवस्य धीमतः।
गोसहस्राण्यहरहर्नियुज्यन्ते शमीतृभिः।।

एवं बहनि वर्षाणि व्यतीतानि नराधिप।
गवां वै वध्यमानानां न चान्तः प्रत्यदृश्यत।।

गवां चर्मसहस्रैस्तु राशयः पर्वतोपमाः।
बभूवुः कुरुशार्दूल बहुधा मेघसंनिभाः।।

मेदःक्लेदवहा चैव प्रावर्तत महानदी।
अद्यापि भुवि विख्याता नदी चर्मण्वती शुभा।।

ततः कदाचित्स्वं वत्सं गौरुपामन्त्र्य दुःखिता।
एहि वत्स स्तनं पाहि मा त्वं पश्चात्क्षुदार्दितः।।

तप्स्यसे विमना दुःखं घातितायां मयि ध्रुवम्।
एते ह्यायान्ति चण्डालाः सशस्त्रामां जिघांसवः।।

अथ शुश्राव तां वाणीं मानुषीं समुदाहृताम्।
रन्तिदेवो महाराज ततस्तां समवारयत्।।

स्थापयामास गोसत्रमथ तं पार्तिवर्षभ।
सत्रोत्सृष्टाः परित्यक्ता गावोऽन्याः समुपाश्रिताः।।

यास्तस्य राज्ञो निहता गावो यज्ञे महात्मनः।
ता गोलोकमुपाजग्मुः प्रेक्षिता ब्रह्मवादिभिः।।

रन्तिदेवोपि राजर्षिरिष्ट्वा यज्ञं यथाविधि।
ततः सख्यं सुरपतेस्त्रिदिवं चाक्षयं ययौ।।

फेनपो दिवि गोलोके मुमुदे शाश्वतीः समाः।
अवशिष्टश्च या गवस्ता बभूवुर्वनेचराः।।

फेनपाख्यानमेतत्ते गवां माहात्म्यमेव च।
कथितं पावनं पुण्यं कृष्णद्वैपायनेरितम्।।

नारायणोऽपि भगवान्दृष्ट्वा गोषु परं यशः।
शुश्रूषां परमां चक्रे भक्तिं च भरतर्षभ।।

तस्मात्त्वमपि राजेन्द्र गा वै पूजय भारत।
द्विजेभ्यश्चैव सततं प्रयच्छ कुरुसत्तम।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः।। 123 ।।