अनुशासनपर्व
अध्यायः १२२
भीष्म उवाच।
यास्तु गोमातरस्तस्य कामचारिण्य आगताः।
समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः।।
अभिप्रशस्य चैवाहुस्तमृषिं पुण्यदर्शनाः।
गोलोकादागता वेद वृषगोमातरो वयम्।।
सुप्रीताः स्म वरं गृह्ण यमिच्छसि महामुने।
यद्भि गोषु परां बुद्धिं कृतवानसि नित्यदा।।
सुमित्र उवाच।
प्रीतोस्म्यनुगृहीतोस्मि यन्मां गोमातरः शुभाः।
सुप्रीतमनसः सर्वास्तिष्ठन्ते च वरप्रदाः।।
भवेद्गोष्वेव मे भक्तिर्यथैवाद्य तथा सदा।
गोघ्नाश्चैवावसीदन्तु नरा ब्रह्मद्विषश्च ये।।
गोमातर ऊचुः।
एवमेतदृषिश्रेष्ठ हितं वदसि नः प्रियम्।
एहि गच्छ सहाऽस्माभिर्गोलोकमृषिसत्तम।।
सुमित्र उवाच।
यूयमिष्टां गतिं यान्तु न ह्यहं गन्तुमुत्सहे।
इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः।।
भीष्म उवाच।
तास्तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम्।
नित्युस्तमृषिमुत्क्षिप्य भार्गवं नभ उद्वहन्।।
कलेवरं तु तत्रैव तस्य संन्यस्य मातरः।
निष्कृष्य करणं योगादानयन्भार्गवस्य वै।।
सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम्।
यदर्थं हरणं गोभिर्गोलोकं लोकमातरः।।
ततस्तु कपिलास्तत्र तस्य दृष्ट्वा कलेवरम्।
तथाप्रतिज्ञं शृङ्गैश्च खुरैश्चाप्यवचूर्णयन्।।
ततः संछिद्य बहुधा भार्गवं नृपसत्तम।
युयुर्यत्रेतरा गावस्तच्च सर्वं न्यवेदयन्।।
अथ गोमातृभिः शप्तास्ता गावः पृथिवीचराः।
अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः।।
एवं कृतज्ञा गावो हि यता गोमातरो नृप।
ऋषिश्च प्राप्तवाँल्लोकं गावश्च परिमोक्षिताः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः।। 122 ।।