अनुशासनपर्व

अध्यायः १२१

Anusasana Parva (Sanskrit) · Adhyaya 121
अक्षर का आकार

भीष्म उवाच।

कदाचित्कामरूपिण्यो गावः स्त्रीवेषमाश्रिताः।
ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः।।?

ददृशुस्तस्य गावो वै विस्मयोत्फुल्ललोचनाः।
ऊचुश्च का यूयमिति स्त्रियो मानुषया गिरा।।

स्त्रिय ऊचुः।

गाव एव वयं सर्वकर्मभिः शोभनैर्युताः।
सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामेहे।

गाव ऊचुः।

गवां गावः परं दैवं गवां गावः परा गतिः।
कथयध्वमिहास्माकं केन वः सुकृतां गतिः।।

स्त्रिय ऊचुः।

अस्माकं हविषा देवा ब्राह्मणास्तर्पितास्तथा।
कव्येन पितरश्चैव हव्येनाग्निश्च तर्पितः।।

प्रजया च तथाऽस्माकं कृषिरभ्युद्धृता सदा।
शकटैश्चापि संयुक्ता दशवाहशतेन वै।।

तदेतैः सुकृतैः स्फीतैर्वयं याश्चैव नः प्रजाः।
गोलोकमनुसम्प्राप्ता यः परं कामगोचरः।।

यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुङ्गवाः।
अधोगामिन्य इत्येव पश्यामो दिव्यचक्षुषा।।

गाव ऊचुः।

एवं गवां परं दैवं गाव एव परायणम्।
स्वपक्ष्यास्तारणीया वः शरणाय गता वयम्।।

किमस्माभिः करणीयं वर्तितव्यं कथञ्चन।
प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः।।

स्त्रिय ऊचुः।

वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम्।
तत्र तस्य नृपस्याशु पशुत्वमुपगच्छतः।।

ततस्तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः।
गोलोकान्प्राप्स्यथ शुभांस्तेन पुण्येन संयुताः।।

भीष्म उवाच।

एतत्तासां वचः श्रुत्वा गवां संहृष्टमानसाः।
गमनाय मनश्चक्रुरौत्सुक्यं चागमन्परम्।।

न हि नो भार्गवो दाता पशुत्वेनोपयोजनम्।
यज्ञस्तस्य नरेन्द्रस्य वर्तते धर्मतस्तथा।।

वयं न चाननुज्ञाताः शक्ता गन्तुं कथञ्चन।
अवोचन्नथ तत्रत्या भार्गवो वध्यतामयम्।।

एतत्सर्वा रोचयत न हि शक्यमतोऽन्यथा।
लोकान्प्राप्तुं सहास्माभिर्निश्चयः क्रियतामयम्।।

न तु तासां समेतानां काचिद्धोरेण चक्षुषा।
शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता।।

अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः।
जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः।।

रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः।
मेघस्तनितनिर्घोषास्तेजोभिरभिरञ्चिताः।।

वयं हि तं वधिष्यामः सुमित्रं नात्रं संशयः।
सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ।।

गाव ऊचुः।

कपिलाः सर्ववर्णेषु प्रधानत्वमवाप्स्यथ।
गवां शतफला चैकां दत्त्वा फलमवाप्स्यति।।

भीष्म उवाच।

एतद्गवां वचः श्रुत्वा कपिला हृष्टमानसाः।
चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकविंशत्यधिकशततमोऽध्यायः।। 121 ।।