अनुशासनपर्व

अध्यायः १२०

Anusasana Parva (Sanskrit) · Adhyaya 120
अक्षर का आकार

युधिष्ठिर उवाच।

कः फेनपेति नाम्नाऽसौ कथं वा भक्षितः पुरा।
मृत उज्जीवितः कस्मात्कथं गोलोकमाश्रितः।।

विरुद्वे मानुषे लोके तथा समयवर्त्मसु।
क्रते दैवं हि दुष्प्रपं मानुषेषु विशेषतः।
संशयो मे महानत्र तन्मे व्याख्यातुमर्हसि।।

भीष्म उवाच।

श्रूयते भार्गवे वंशे सुमित्रो नाम भारत।
वेदाध्ययनसम्पन्नो विपुले तपसि स्थितः।।

वानप्रस्थाश्रमे युक्तः स्वकर्मनिरतः सदा।
विनयाचारतत्वज्ञः सर्वधर्मार्थकोविदः।।

यत्नात्त्रिषवणस्नायी संध्योपासनतत्परः।
अग्निहोत्ररतः क्षान्तो जपञ्जुह्वच्च नित्यदाः।।

पितृदेवांश्च नियतमतिर्थींश्च स पूजयन्।
प्राणसन्धारणार्थं च यत्किंचिदुपहारयन्।।

गिरिस्त्रिशिखरो नाम यतः प्रभवते नदी।
कुलजेति पुराणेषु विश्रुता रुद्रनिर्मिता।।

तस्यास्तीरे समे देशे पुष्पमालासमाकुले।
वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते।।

व्यपेतदंशमशके ध्वाङ्क्षगृध्रैरसेविते।
कृष्णदर्भतृणप्राये सुरम्ये ज्योतिरश्मिनि।।

सर्वोन्नतैः समैः श्यामैर्याज्ञीयैस्तरुभिर्वृते।
तत्राश्रमपदं पुण्यं भृगूणामभवत्पुरा।

उवास तत्र नियतः सुमित्रो नाम भार्गवः।
यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मना।।

तस्मा आङ्गिरसः कश्चिद्ददौ गां शर्करीं शुभाम्।
वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः।।

स तां लब्ध्वा धर्मशीलश्चिन्तयामास तत्परः।
सुमित्रः परया भक्त्या जननीमिव मातरम्।।

तेन सन्धुक्ष्यमाणा सा रोहिणी कामरूपिणी।
प्रवृद्धिमगमच्छ्रेष्ठा प्राणतश्च सुदर्शना।।

सिराविमुक्तपार्श्वान्ता विपुलां कान्तिमुद्वहत्।
श्यामपार्श्वान्तपृष्ठा सा सुरभिर्मधुपिङ्गला।।

बृहती सूक्ष्मरोमान्ता रूपोदग्रा तनुत्वचा।
कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा।।

पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना।
दीर्घजिह्वा ह्रस्वशृङ्गी सम्पूर्णदशनान्तरा।।

मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना।
नित्यं शमयुता स्निग्धा सम्पूर्णोदात्तनिस्वना।।

प्राजापत्यैर्गवां नित्यं प्रशस्तैर्लक्षणैर्युता।
यौवनस्थेव वनिता शुशुभे रूपशोभया।।

वृषेणोपगता सा तु कल्या मधुरदर्शना।
मिथुनं जनयामास तुल्यरूपमिवात्मनः।।

संवर्धयामास स तां सवत्सां भार्गवो मुनिः।
तयोः प्रजाधिसंसर्गात्सहस्रं च गवामभूत्।।

गवां जातिसहस्राणि सम्भूतानि परस्परम्।
ऋषभाणां च राजेन्द्र नैवान्तः प्रतिदृश्यते।।

तैराश्रमपदं रम्यमरण्यं चैव सर्वशः।
समाकुलं समभवन्मेघैरिव नभस्थलम्।।

कानि चित्पद्मवर्णानि किंशुकाभानि कानिचित्।
रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च।।

तथा राजतवर्णानि कानिचिल्लोहितानि वै।
नीललोहितताम्राणि कृष्णानि कपिलानि च।
नानारागविचित्राणि यूथानि कुलयूथप।।

न च क्षीरं सुतस्नेहाद्वत्सानामुपजीवति।
भार्गवः केवलं चासीद्गवां प्राणायने रतः।।

तथा शुश्रूषतस्तस्य गवां हितमवेक्षतः।
व्यतीयात्सुमाहान्कालो वत्सोच्छिष्टेन वर्ततः।।

क्षुत्पिपासापरिश्रान्तः सततं प्रस्रवं गवाम्।
वत्सैरुच्छिष्टमुदितं बहुक्षीरतया बहु।।

पीतवांस्तेन नामास्य फेनपेत्यभिविश्रुतम्।
गौतमस्याभिनिष्पन्नमेवं नाम युधिष्ठिर।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि विंशत्यधिकशततमोऽध्यायः।। 120 ।।