अनुशासनपर्व
अध्यायः ११९
`युधिष्ठिर उवाच।
सुरभ्यास्तु तदा देव्याः कीर्तिर्लक्ष्मीः सरस्वती।
मेधा च प्रवरा देवी याश्चतस्रोऽभिविश्रुताः।।
पृथग्गोभ्यः किमेताः स्युरुताहो गोषु संश्रिताः।
देवाः के वाऽऽश्रिता गोषु तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
यं देवं संश्रिता गावस्तं देवं देवसंज्ञितम्।
यद्यद्देवाश्रितं दैवं तत्तद्दैवं द्विजा विदुः।।
सर्वेषामेव देवानां पूर्वं किल समुद्भवे।
अमृतार्थे सुरपतिः सुरभिं समुपस्थितः।।
इन्द्र उवाच।
इच्छेयममृतं दत्तं त्वया देवि रसाधिकम्।
त्वत्प्रसादाच्छिवं मह्यममरत्वं भवेदिति।।
सुरभिरुवाच।
वत्सो भूत्वा सुपरते पिबस्व प्रस्रवं मम।
ततोऽमरत्वमपि तस्थानमैन्द्रमवाप्स्यसि।।
न च ते वृत्रहन्युद्धे व्यथाऽरिभ्यो भविष्यति।
बलार्थमात्मनः शक्र प्रस्रवं पिब मे विभो।।
भीष्म उवाच।
ततोऽपिबत्स्नं तस्याः सुरभ्याः सुरसत्तमः।
अमरत्वं सुरूपत्वं बलं चापदनुत्तमम्।।
पुरंदरोऽमृतं पीत्वा प्रहृष्टः समुपस्थितः।
पुत्रोऽहं तव भद्रं ते ब्रूहि किं करवाणि ते।।
सुरभिरुवाच।
कृतं पुत्र त्वया सर्वमुपयाहि त्रिविष्टपम्।
पालयस्व सुरान्सर्वाञ्जहि ये सुरशत्रवः।।
न च गोब्राह्मणेऽवज्ञा कार्या ते शान्तिमिच्छता।
गोब्राह्मणस्य निश्वासः शोषयेदपि देवताः।।
गोब्राह्मणप्रियो नित्यं स्वस्तिशब्दमुदाहरन्।
पृथिव्यामन्तरिक्षे च नाकपृष्ठे च विक्रमेत्।।
यच्च तेऽन्यद्भवेत्कृत्यं तन्मे ब्रूयाः समासतः।
तत्ते सर्वं करिष्यामि सत्येनैतद्ब्रवीमि ते।।
इन्द्र उवाच।
इच्छेयं गोषु नियतं वस्तुं देवि ब्रवीमि ते।
एभिः सुरगणैः सार्धं ममानुग्रहमाचर।।
सुरभिरुवाच।
गवां शरीरं प्रत्यक्षमेतत्कौशिक लक्ष्ये।
यो यत्रोत्सहते वस्तुं स तत्र वसतां सुरः।।
सर्वं पवित्रं परमं गवां गात्रं सुपूजितम्।
तथा कुरुष्व भद्रं ते यथा त्वं शक्र मन्यसे।।
भीष्म उवाच।
तस्यास्तद्वचनं श्रुत्वा सुरभ्याः सुरसत्तमः।
सह सर्वैः सुरगणैरभजत्सौरभीं प्रजाम्।।
शृङ्गे वक्त्रे च जिह्वायां देवराजः समाविशत्।
सर्वच्छिद्रेषु पवनः पादेषु मरुतां गणाः।।
ककुदं सर्वगो रुद्रः कुक्षौ चैव हुताशनः।
सरस्वती स्तनेष्वग्र्या श्रीः पुरीषे जगत्प्रिया।।
मूत्रे कीर्तिश्च गङ्गा च मेधा पयसि शाश्वती।
वक्त्रे सोमश्च वै देवो हृदये भगवान्यमः।।
धर्मः पुच्छे क्रिया लोम्नि भास्करश्चक्षुषी श्रितः।
सिद्धाः सन्धिषु सिद्धिश्च तपस्तेजश्च चेष्टने।।
एवं सर्वे सुरगणा नियता गात्रवर्त्मसु।
महती देवता गावो ब्राह्मणैः परिसंस्कृताः।।
गामाश्रयन्ति सहिता देवा हि प्रभविष्णवः।
किमासां सर्वभावेन विदध्याद्भगवान्प्रियम्।।
भवांश्च परया भक्त्या पूजयस्व नरेश्वर।
गावस्तु परमं लोके पवित्रं पावनं हविः।।
निपात्य भक्षितः स्वर्गाद्भार्गवः फेनपः किल।
स च प्राणान्पुनर्लब्ध्वा ततो गोलोकमाश्रितः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः।। 119 ।।