अनुशासनपर्व

अध्यायः ११

Anusasana Parva (Sanskrit) · Adhyaya 11
अक्षर का आकार

युधिष्ठिर उवाच।

आनृशंस्यस्य धर्मज्ञ गुणान्भक्तजनस्य च।
श्रोतुमिच्छामि धर्मज्ञ तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
वासवस्य च संवादं शुकस्य च महात्मनः।।

विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः।
सविषं काण्डमादाय मृगयामास वै मृगम्।।

तत्र चामिषलुब्धेन लुब्धकेन महावने।
अविदूरे मृगान्दृष्ट्वा बाणः प्रतिसमाहितः।।

तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा।
महान्वनतरुस्तत्र विद्धो मृगजिघांसया।।

स तीक्ष्णविषदिग्धेन शरेणातिबलात्क्षतः।
उत्सृज्य फलपत्राणि पादपः शोषमागतः।।

तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः।
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः।।

निष्प्रचारो निराहारो ग्लानः शिथिलवागपि।
कृतज्ञः सह वृक्षेण धर्मात्मा सोप्यशुष्यत।।

तमुदारं महासत्वमतिमानुषचेष्टितम्।
समदुःखसुखं दृष्ट्वा विस्मितः पाकशासनः।।

ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः।
तिर्यग्योनावसम्भाव्यमानृशंस्यमवस्थितः।।

अथवा नात्र चित्रं हीत्यभवद्वासवस्य तु।
प्राणिनामपि सर्वेषां सर्वं सर्वत्र दृश्यते।।

ततो ब्राह्मणवेषेणि मानुषं रूपमास्थितः।
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह।।

शुक भो पक्षिणांश्रेष्ठ दाक्षेयी सुप्रजास्त्वया।
पृच्छे त्वां शुकमेनं त्वं कस्मान्न त्यजसि द्रुमम्।।

अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम्।
स्वागतं देवराज त्वं विज्ञातस्तपसा मया।।

ततो दशशताक्षेण साधुसाध्विति भाषितम्।
अहो विज्ञानमित्येवं मनसा पूजितस्ततः।।

तमेवं शुभकर्माणं शुकं परमधार्मिकम्।
जानन्नपि च तत्पापं पप्रच्छ बलसूदनः।।

निष्पत्रमफलं शुष्कमशरण्यं पतत्त्रिणाम्।
किमर्थं सेवसे वृक्षं यदा महदिदं वनम्।।

अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः।
शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने।।

गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम्।
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम्।।

भीष्म उवाच।

तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्।
सुदीर्घमतिनिःश्वस्य दीनो वाक्यमुवाच ह।।

अनतिक्रमणीयानि दैवतानि शचीपते।
यत्राभवंस्तत्र भवांस्तन्निबोध सुराधिप।।

अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युते।
चालभावेन सङ्गुप्तः शत्रुभिश्च न धर्षितः।।

किमनुक्रोश्यं वैफल्यमुत्पादयसि मेऽनघ।
`अनुरक्तस्य भक्तस्य संस्पृशे न च पावकम्।'
आनृशंस्याभियुक्तस्य भक्तस्यानन्यगस्य च।।

अनुक्रोशो हि साधूनां महद्धर्मस्य लक्षणम्।
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति।।

त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयात्।
अतस्त्वं देवदेवानामाधिपत्ये प्रतिष्ठितः।।

नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात्।
समस्थमुपजीवन्वै विषमस्थं कथं त्यजेत्।।

तस्य वाक्येन सौम्येन हर्षितः पाकशासनः।
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः।।

वरं वृणीष्वेति तदा स च वव्रे वरं शुकः।
आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम्।।

विदित्वा च दृढां भक्तिं तां शुके शीलसम्पदम्।
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान्।।

ततः फलानि पत्राणि शाखाश्चापि मनोहराः।
शुकस्य दृढभक्तित्वाच्छ्रीमत्तां प्राप स द्रुमः।।

शुकश्च कर्मणा तेन आनृशंस्यकृतेन वै।
आयुषोन्ते महाराज प्राप शक्रसलोकताम्।।

एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः।
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकादशोऽध्यायः।। 11 ।।