अनुशासनपर्व

अध्यायः ११५

Anusasana Parva (Sanskrit) · Adhyaya 115
अक्षर का आकार

वसिष्ठ उवाच।

घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः।
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे।।

घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्।
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम्।।

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च।
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम्।।

इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा।
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते।।

प्रासादा यत्र सौवर्णा वसोर्धाराश्च कामदाः।
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः।।

नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः।
वहन्ति यत्र वै नद्यस्तत्र यान्ति सहस्रदाः।।

गवां शतसहस्रं तु यः प्रच्छेद्यथाविधि।
परां वृद्धिमवाप्याथ स्वर्गलोके महीयते।।

दश चोभयतः प्रेत्य मातापित्रोः पितामहान्।
दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः।।

धेन्वाः प्रमाणेन समप्रमाणां
धेनुं तिलानामपि च प्रदाय।
पानीयवापीः स यमस्य लोके
न यातनां काञ्चिदुपैति तत्र।।

पवित्रमग्र्यं जगतः प्रतिष्ठा
दिवौकसां मातरोऽथाप्रमेयाः।
अन्वालभेद्दक्षिणतो व्रजेच्च
दद्याच्च पात्रे प्रसमीक्ष्य कालम्।।

धेनुं सवत्सां कपिलां भूरिशृङ्गीं
कांस्योपदोहां वसनोत्तरीयाम्।
प्रदाय तां गाहति दुर्विगाह्यां
याम्यां सभां वीतभयो मनुष्यः।।

सुरूपा बहुरूपाश्चि विश्वरूपाश्च मातरः।
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत्।।

नातः पुण्यतरं दानं नातः पुण्यतरं फलम्।
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति।।

त्वचा लोम्नाऽथ शृङ्गैर्वा वालैः क्षीरेण मेदसा।
यज्ञं वहति सम्भूय किमस्त्यभ्यधिकं ततः।।

यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्।
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम्।।

गुणवचनसमुच्चयैकदेशो
नृवर मयैष गवां प्रकीर्तितस्ते।
न च परमिह दानमस्ति गोभ्यो
भवति न चापि परायणं ततोऽन्यम्।।

भीष्म उवाच।

वरमिदमिति भूमिपो विचिन्त्य
प्रवरमृषेर्वचनं ततो महात्मा।
व्यसृजत नियतात्मवान्द्विजेभ्यः
सुबहु च गोधनमाप्तवांश्च लोकान्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः।। 115